व्यतिदि- (vyatidi-)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“दॄ विदारणे”@} 2 प्वादिः।
‘भये च’ इति कविकल्पद्रुमे।
अर्थविशेषे घटादिः।
3 ‘दॄ भये’ इति क्र्यातिषु पठितो धातुः, अस्यैव मित्त्वार्थमर्थविशेषे घटादित्वम् इति बहूनां मतम्।
क्षीरस्वाम्यादयस्तु भ्वादिषु स्वतन्त्रं धातुममुं मन्यन्ते।
देवोऽपि तेषामनुकूलः।
सिद्धान्तकौमुद्याद्यनुसारेणास्माभिः अर्थविशेषे घटादित्वमङ्गीकृत्य विलिखितम्।]] ‘दरेद् दृणाति द्रियते क्रमाद् भीदारणादरे।’ 4 इति देवः।
5 6 दारकः-रिका, दारकः- 7 दरकः- 8 ह्मल्यचित्तां स्मरयत्यसौ मां नन्दात्मजः सन्दरकः खलानाम्।’ धा।
का।
२। ११।]] रिका, 9 दिदरिषकः-दिदरीषकः-दिदीर्षकः-र्षिका, 10 देदिरकः-रिका
11 दरिता-दरीता-त्री, दारयिता-दरयिता-त्री, दिदरिषिता-दिदरीषिता-दिदीर्षिता-त्री, देदिरिता-त्री
12 दृणन्-ती, दारयन्-दरयन्-न्ती, दिदरिषन्-दिदरीषन्-दिदीर्षन्-न्ती
-- दरिष्यन्-दरीष्यन्-न्ती-ती, दारयिष्यन्-दरयिष्यन्-न्ती-ती, दिदरिषिष्यन्-दिदरीषिष्यन्-दिदीर्षिष्यन्-न्ती-ती
-- 13 व्यतिदृणानः, दारयमाणः-दरयमाणः, व्यतिदिदरिषमाणः-व्यतिदिदरीषमाणः-व्यतिदिदीर्षमाणः, देदीर्यमाणः
व्यतिदरिष्यमाणः-व्यतिदरीष्यमाणः, दारयिष्यमाणः-दरयिष्यमाणः, व्यतिदि- दरि14षिष्यमाणः, व्यतिदिदीर्षिष्यमाणः, देदिरिष्यमाणः
15 प्रदीः-प्रदिरौः-प्रदिरः, 16 ददृत्
-- -- 17 18 दीर्णम्-दीर्णः-दीर्णवान्, 19 दारितः-दरितः, दिदरिषितः-दिदरीषितः-दिदीर्षितः, देदिरितः-तवान्
20 दरः-दरी, 21 दाराः, 22 पुरन्दरः, 23 24 भगन्दरः, विदारी, दारः-दरः, दिदरिषुः-दिदरीषुः-दिदीर्षुः, देदिरः
दरितव्यम्-दरीतव्यम्, दारयितव्यम्-दरयितव्यम्, दिदरिषितव्यम्-दिदरीषितव्यम्-दिदीर्षितव्यम्, देदिरितव्यम्
दरणीयम्, दारणीयम्-दरणीयम्, दिदरिषणीयम्-दिदरीषणीयम्-दिदीर्षणीयम्, देदिरणीयम्
दार्यम्, दार्यम्-दर्यम्, दिदरिष्यम्-दिदरीष्यम्-दिदीर्ष्यम्, देदीर्यम्
ईषद्दरः-दुर्दरः-सुदरः
-- -- -- दीर्यमाणः, दार्यमाणः-दर्यमाणः, दिदरिष्यमाणः-दिदरीष्यमाणः-दिदीर्ष्यमाणः, देदीर्यमाणः
दरः, दारः-दरः, दिदरिषः-दिदरीषः-दिदीर्षः, देदिरः
दरितुम्-दरीतुम्, दारयितुम्, दरयितुम्, दिदरिषितुम्-दिदरीषितुम्-दिदीर्षितुम्, देदिरितुम्
25 26 दीर्णिः, दारणा-दरणा, दिदरिषा-दिदरीषा-दिदीर्षा, देदिरा
दरणम्, दारणम्-दरणम्, दिदरिषणम्-दिदरीषणम्-दिदीर्षणम्, देदिरणम्
27 दीर्त्वा, दारयित्वा-दरयित्वा, दिदरिषित्वा-दिदरीषित्वा-दिदीर्षित्वा, देदिरित्वा
विदीर्य, विदार्य- 28 विदरय्य, विदिदरिष्य-विदिदरीष्य-विदिदीर्ष्य, विदेदीर्य
29 उरोविदारं 30 31 दारम् २, दीर्त्वा २, दारम् २- 32 दरम् २, दारम् २, दारयित्वा २ -दरयित्वा २, दिदरिषम् २ -दिदरीषम् २ -दिदरिषित्वा २ -दिदरीषित्वा २ -दिदीर्षम् २, दिदीर्षित्वा २, देदिरम् २
देदिरित्वा २। 33 इति तिप्रत्यये रूपम्।
ह्रस्वश्च।
दृतिः = भस्त्रा।]] दृतिः, 34 इति ञुण्प्रत्यये वृद्धौ च रूपम्।
दारु = काष्ठम्।]] दारु, 35 इत्यत्र पाठात् साधुः।
दर्दरीकम् = वाद्यविशेषः।]] दर्दरीकम्, 36 इत्युनन्प्रत्ययः।
दारुणः = घोरः।]] दारुणः, 37 इत्यदिप्रत्ययः।
दरत् = भीरुः।]] दरत्, 38 इत्यदिप्रत्यये षुगागमह्रस्वौ भवतः दृषत् = शिला।]] दृषत्, 39 इत्युरच्प्रत्ययो दुगागमः गुणश्च निपात्यते दर्दुरः = मण्डूकः।]] दर्दुरः, 40 इति अल् अच् वा प्रत्यः उपसर्गान्त्यलोपश्च।
उदरम् = जठरम्।]] उदरम्।
41
01 (८६८)
02 (९-क्र्यादिः-१४९३। सक। सेट्। पर।)
03 [[[अ]
04 (श्लो। ३६)
05 [पृष्ठम्०७६९+ २२]
06 [[१। ‘इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति वचनात् इत्त्वं बाधि- त्वाऽत्र वृद्धिः। एवं गुणवृद्धियोग्यस्थलेषु ज्ञेयम्।]]
07 [[२। ‘दॄ भये’ इति घटादिषु पाठात् मित्त्वम्। तेन ण्यन्ते, ‘मितां ह्रस्वः’ (६-४-९२) इत्युपधाया ह्रस्वः। एवं घटादिषु पाठे ण्यन्ते सर्वत्र ज्ञेयम्।]]
08 [[आ। ‘प्र [अ]
09 [[३। ‘इट् समि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे, ‘वॄतो वा’ (७-२-३८) इति दीर्घविकल्पः। तेन सन्नन्ते सर्वत्र रूपत्रयं बोध्यम्।]]
10 [[४। यङन्तात् ण्वुलि, ‘ॠत इद् धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे, अभ्यासे गुणे च रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
11 [[५। तृचि, इटो दीर्घविकल्पाद्रूपद्वयम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
12 [[६। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘प्वादीनां ह्रस्वः’ (७-३-८०) इत्यङ्गस्य ह्रस्वे, ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे णत्वे च रूपम्। एवं शानजन्तेऽपि प्रक्रिया ज्ञेया।]]
13 [[७। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
14 [री]
15 [[८। क्विपि, इत्वे रपरत्वे च, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घे विसर्गे च रूपम्।]]
16 [[९। भयार्थादस्मात्, तच्छीलादिषु कर्तृषु ‘दृणातेर्ह्रस्वश्च’ (वा। ३-२-१७८) इति क्विपि, अङ्गस्य द्वित्वे ह्रस्वे च, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुकि च रूपम्।]]
17 [पृष्ठम्०७७०+ २४]
18 [[१। निष्ठायाम्, इत्वे रपरत्वे दीर्घे, च ‘रदाभ्याम्--’ (८-२-४२) इति निष्ठानत्वे णत्वे च, रूपम्।]]
19 [[आ। ‘क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि।’ शि। व। १८। ७८।]]
20 [[२। पचादिषु पाठात् अच्। स्त्रियाम् गौरादिपाठात् (४-१-४१) ङीष् इति माधवः। पचादिषु ‘दरट्’ इति पाठात् टित्त्वेन, ‘टिड्ढा--’ (४-१-१५) इति ङीप् इति क्षीरस्वामी।]]
21 [[३। ‘दारजारौ कर्तरि णिलुक् च’ (वा। ३-३-२०) इति कर्तरि घञ्। दारयन्ति इति दाराः = पत्नी। बहुवचनं तु लोकाद्भवति।]]
22 [[४। ‘पूःसर्वयोर्दारिसहोः’ (३-२-४१) इति ण्यन्तात् खच्। ‘खित्यनव्ययस्य’ (६-३-६६) इति वर्तमाने, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। ‘खचि ह्रस्वः’ (६-४-९४) इति वा, ‘मितां ह्रस्वः’ (६-४-९२) इति वा ह्रस्वः। ‘बाचंयमपुरन्दरौ च’ (६-३-६९) इत्यनेन निपातनादमन्तत्वम्। पुरं दारयतीति पुरन्दरः = इन्द्रः।]]
23 [[B। ‘पौलोमीकुचकुम्भकुङ्कुमरजःस्वाजन्यजन्मोद्धताः शीतांशोर्द्युतयः पुरन्दरपुरीसीम्नामुपस्कुर्वते।’ अनर्घराघवे २। ७३।]]
24 [[५। ‘भगे च दारेरिति वक्तव्यम्’ (वा। ३-२-४१) इति खचि, मुमि च रूपम्। भगन्दरः = व्याधिविशेषः।]]
25 [पृष्ठम्०७७१+ २४]
26 [[१। ‘ॠल्वादिभ्यः--’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नत्वे णत्वे च रूपम्। :]]
27 [[२। ‘श्रयुकः क्किति’ (७-२-११) इति क्त्वाया इण्निषेधः।]]
28 [[३। भयार्थे ण्यन्तात् ल्यपि, उपधाह्रस्वे, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
29 [[४। ‘परिक्लिश्यमाने च’ (३-४-५५) इति णमुल्।]]
30 [[आ। ‘स मुधिकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः।।’ शि। व। १। ४७।]]
31 [प्रतिचस्करे नखैः।]
32 [[५। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति ण्यन्ताण्णमुलि दीर्घविकल्पः।]]
33 [[६। ‘दृणातेः किध्रस्वश्च’ [द। उ। १-७६]
34 [[७। ‘दॄसनिजनि--’ [द। उ। १। ८८]
35 [[८। ‘फर्फरीकादयश्च’ [द। उ। ३। ३८]
36 [[९। ‘कॄवृतॄदारिभ्य उनन्’ [द। उ। ५। ५२]
37 [[१०। ‘श्रॄदृभसोऽदिः’ [द। उ। ६। ४२]
38 [[११। ‘दृणातेः षुग्घ्रस्वश्च’ [द। उ। ६। ४५]
39 [[१२। ‘मुकुरदर्दुरौ’ [द। उ। ८। २३]
40 [[१३। ‘उदि दृणातेरलचौ पूर्वपदान्त्यलोपश्च’ [द। उ। ८-९७]
41 [पृष्ठम्०७७२+ २६]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
