| YouTube Channel

व्यञ्जनं (vyaJjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
व्यञ्जनं,
क्ली,
(व्यज्यते म्रक्ष्यते अन्नादि संयोज्यते-ऽनेनेति वि + अञ्ज + ल्युट् ।) अन्नोपकरणम् ।तत्तु सूपशाकादि इति राजनिर्घण्टः
तत्प-र्य्यायः तेमनम् निष्ठानम् इत्यमरः
तेमः इति शब्दरत्नावली
(यथा, ऋग्वेदे ।८ ६७ ।“आनो भर व्यञ्जनं गामश्वमभ्यञ्जनम्
”)अस्य गुणाः ।“व्यञ्जनं शाकमत्स्याख्यं हृद्यं वृष्यञ्च पुष्टिदम् ।द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः ।तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत्
”इति राजवल्लभः
व्यञ्जनविशेषगुणाः तत्तच्छब्दे द्रष्टव्याः
*चिह्रम् (व्यञ्जना यथा, साहित्यदर्पणे ५९ ।“अवाच्यत्वादिकं तस्य वक्ष्ये वञ्जनरूपणे
”)श्मश्रु (यथा, महाभारते १५८ ३४ ।“कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् ।बालमप्राप्तवयसमजातव्यञ्जनाकृतिम्
”)अवयवः दिनम् इति मेदिनी
स्त्रीपुंसयो-रशुद्धदशः तु उपस्थः अर्द्धमात्रकम् ।स तु ककारादिक्षकारान्तवर्णः इति धरणिः(यथा, साहित्यदर्पणे १० ६४० ।“सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते
”)