| YouTube Channel

व्यजनं (vyajanaM)

 
Apte 1890
English
व्यजनं A fan
निर्वाते व्यजनं H. 2. 165
R. 8. 40, 10. 62
cf. बालव्यजन.
शब्दकल्पद्रुमः
Sanskrit
व्यजनं,
क्ली,
(व्यजत्यनेनेति वि + अज + ल्युट् ।‘वा यौ ।’ ५७ इति पक्षे वीभावो नास्ति ।)तालवृन्तकम् इत्यमरः
पाखा इति भाषा
(यथा, ऋतुसंहारे ।“सचन्दनाम्बुव्यजनोद्भवानिलैःसहारयष्टिस्तनमण्डलार्पणैः ।सवल्लकीकाकलिगीतनिस्वनैःप्रबुध्यते सुप्त इवाद्य मन्मथः
”)अस्य सामान्यगुणः मूर्च्छादाहतृष्णाघर्म्म-श्रमनाशित्वम्
तालव्यजनगुणः त्रिदोषशम-नत्वम् लघुत्वञ्च वंशव्यजनगुणः रूक्ष-त्वम् उष्णत्वम् वायुपित्तकारित्वञ्च
वेत्र-वस्त्रमयूरपुच्छव्यजनगुणः त्रिदोषनाशित्वम्
बालव्यजनगुणः तेजस्करत्वम् मक्षिकादि-निवारकत्वञ्च इति राजवल्लभः