| YouTube Channel

व्यच (vyaca)

 
Wilson
English
व्यच r. 6th cl. (व्यचति) To cheat, to trick, to defraud or deceive.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
व्यच्
मूलधातुः:
व्यच
धात्वर्थः:
व्याजीकरणे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
विचति
धातुप्रदीपः
Sanskrit
व्यचँ व्यच व्याजीकरणे
- विचति विव्याच विविचतुः विव्यचिथ विविचिथेति केचित् व्यचिता व्याचयति विव्यचिषति वेविच्यते विचितः विचित्वा व्याचकः उरुव्यचाः 13
शब्दकल्पद्रुमः
Sanskrit
व्यच, शि व्याजे सम्बन्धे इति कविकल्पद्रुमः
(तुदा०-कुटा०-पर०-सक०-सेट् ।) व्याजश्छलः ।श, विचति सतं खलः छलयति इत्यर्थः ।अविचीत् विव्याच इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
व्यच व्याजे अक० सम्बन्धे
सक०
तु० कु०
पर०
सेट् विचति अविचीत् विध्याच विविचतुः व्यचाः
क्षीरतरङ्गिणी
Sanskrit
व्यचँ व्यच संभवे
- विचति (द्र0 6116) व्यचेः कुटादित्वमनसि (121 वा0)-विचिता नेह-उरुव्यचाः 13
धातुवृत्तिः
Sanskrit
व्यचँ व्यच (अर्थः) व्याजीकरणे
( विचति ) "ग्रहिज्यादिना'' किति सम्प्रसारणम्, ( विव्याच विविचतुः विव्यचिथ विविचथुः विविच विव्याच विव्यच विविचिव ) अपितो लिटः कित्त्वातृसम्प्रसारणे द्विर्वचनं, पिति तु "लिट्यभ्यासस्योभयेषाम्'' इत्यभ्यासस्य "व्यचेः कुटादित्वमनसि'' इत्यञ्णित्प्रत्यये विधीयमानं ङित्त्वमनसीतिपर्युदासेन तत्सदृशे कृतीति हरदत्तादयः तेन थल्युत्तमे णलि णित्त्वाभावपक्षे नास्ति ङित्त्वं नापि कित्त्वं, पिल्लिट्त्वादिति सम्प्रसारणम्. अन्ये तु प्रसज्यप्रतिषेधमाश्रयन्ते, तेनात्रापि ङित्त्वमस्तीति सम्प्रसारणं मन्यन्ते प्रसज्यप्रतिषेधाश्रयणे प्रमाणं मृग्यं, वाक्यभेदप्रसङ्गात् ( व्यचिता व्यचिष्यति विचतु अविचत् विचेत् ) आशिषि ( विच्यात् अव्याचीत् अव्याचिष्टाम् अव्यचीत् अव्यचिष्टराम्) "अतो हलादेः'' इति वा वृद्धिः ( विव्यचिषति ) तासिस्यसिचां सनश्चाकृत्वान्न ङित्त्वमिति सम्प्रसारणम्, प्रसज्यप्रतिषेधवादिनामत्रापि ङित्त्वात्सम्प्रसारणेन भाव्यम् ( वेविच्यते वाव्यचीति वाव्यक्ति ) श्तिपा निर्द्देशान्न सम्प्रसारणम् ( व्याचयति अविव्यचत् विचित्वा ) "न क्त्वा सेड्'' इत्यकित्त्वेऽपि क्त्वः कृत्त्वाद्व्यचेः कुटादित्वमिति ङित्वेन सम्प्रसारणं गुणाभावश्च (विचितः उरुव्यचाः) गतिकारकपूर्वस्यापीत्यसुन् अनसीतिपर्युदासान्न ङित्त्वम् 13
कृदन्तरूपमाला
Sanskrit
1 {@“व्यच व्याजीकरणे”@} 2 अत्र क्षीरतरङ्गिण्यां ‘व्यच संभवे’ इति पठित्वा ‘व्यज व्याजीकरणे’ इति पृथक् धातुत्वेन पठ्यते।
किं ‘-- ‘व्याजीकरणे’ लिङ्गाद् घञि कुत्वाभावः- व्याजः’ इति दृश्यते।
‘-- व्याजीकरणे--निमित्ते’ इति काशकृत्स्नः।
मैत्रेयचन्द्रकाशकृत्स्नशाकटायनहेमादयः ‘व्यच--’ इत्येव पठन्ति।
‘व्यच--’ इत्येव न्याय्यम् इति धा।
का।
व्या।
3 दर्शनाज्ज्ञायते।
व्याचकः-चिका, व्याचकः-चिका, 4 विव्यचिषकः-षिका, वाव्य5चकः-चिका
व्यचिता-त्री, व्याचयिता-त्री, विव्यचिषिता-त्री, वाव्य6चिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकक्लथतिवत् 7 ज्ञेयानि।
8 विचन्-ती, 9 विचिता-त्री, 10 घञि- 11 व्याचः, 12 विचित्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
अस्य धातोः ण्यन्ते सर्वत्र व्याचयिता-त्री, इत्येवमादीनि ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१६५२)
02
=>
(६-तुदादिः-१२९३। सक। सेट्। पर।)
03
=>
(२-७३)
04
=>
[[४। सनोऽकृत्त्वात् सम्प्रसारणम्। ‘-- अनसि’ (वा। १-२-१) इति प्रसज्यप्रतिषेध इति वादिनां मते तु सनोऽपि कित्त्वेन ‘ग्रहिज्यावयिव्यधिवष्टिविचति--’ (६-१-१६) इत्यादिना सम्प्रसारणे, पूर्वरूपे विविचिषकः-षिका, इत्यादीनि रूपाणीति बोध्यम्।]]
05
=>
[वेवि]
06
=>
[वेवि]
07
=>
(२८०)
08
=>
[[५। शतरि ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। तस्य ‘सार्वधातुकमपित्’ (१-२-४) इति अपित्सार्वधातुकत्वात् ङिद्वद्भावः। तेन चकारात् किति संप्रसा- रणम् भवति। अतो गुणाभावश्च। तेन रूपमेवम्।]]
09
=>
[[६। ‘व्यचेः कुटादित्वमनसीति वक्तव्यम्’ (वा। १-२-१) इति ङिद्वद्भावात् संप्रसारण- मिति ज्ञेयम्। उरुव्यचाः इत्यत्र गतिकारकपूर्वस्यापि असुन्। ‘--अनसि’ (वा। १-२-१) इति पर्युदासात् ङित्त्वम्। पदमञ्जर्याम् उद्विचिता इति। न्यासेऽपि एवमेव।]]
10
=>
[पृष्ठम्१२६९+ २८]
11
=>
[[१। घञि कुत्वाभावे रूपमेवम्।]]
12
=>
[[२। ‘न क्त्वा सेट्’ (१-२-१८) इत्यकित्त्वेऽपि क्त्वः कृत्त्वाद् ‘व्यचेः कुटादित्वम्--’ (वा। १-२-१) इति ङित्त्वेन संप्रसारणं गुणाभावश्च। तेन रूपमेवम् इति ज्ञेयम्।]]