| YouTube Channel

व्यग्रः (vyagraH)

 
शब्दकल्पद्रुमः
Sanskrit
व्यग्रः, त्रि, (विरुद्धं अगतीति अग + ऋज्रे-न्द्रेति साधुः ।) व्यासक्तः (यथा, महा-निर्व्वाणतन्त्रे १२४ ।“लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः
”)आकुलः इत्यमरः
(यथा, कुमारे ।“वैवाहिकैः कौतुकसंविधानै-र्गृहे गृहे व्यग्रपुरन्ध्रिवर्गम्
”ससम्भ्रमः इति श्रीधरस्वामी
यथा, भाग-वते १९ ।“तं व्यग्रचक्रं दितिजाधमेनस्वपार्षदमुख्येन विसर्ज्जमानम्
”)पुं, विष्णुः यथा, --“प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ।”इति तस्य सहस्रनामस्तोत्रम्