| YouTube Channel

वौद्धं (vauddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
वौ(बौ)द्धं,
क्ली,
(बुद्धेन कृतम् वुद्ध + अण् ।) वुद्ध-कृतनिरीश्वरशास्त्रम् तत् सर्व्वैः शास्त्रकारैःखण्डितं अतएवाग्राह्यम् जिनधर्म्मः यथा, “ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् ।ग्रहशान्तिविधानेन पौष्टिकेन कर्म्मणा
गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः ।जिनधर्म्मं समास्थाय वेदवाह्यं वेदवित्
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः ।वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् ।जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान्
”इति मात्स्ये सोमवंशानुकीर्त्तनं नाम २४ अः
बुद्धसम्बन्धिनि, त्रि