| YouTube Channel

वोवुरकः-रिका (vovurakaH-rikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वॄ वरणे”@} 2 ‘-- वृत्त्यां भृत्याम्’ इति वोपदेवः।
प्वादिः, ल्वादिश्च।
‘वॄवॄञोरञितो धातोर्वृणाति वरणे भवेत्।
वृणाति वृणीते वॄञस्तत्रार्थ इष्यते।।’ 3 इति देवः।
अत्र पुरुषकारस्त्वाह-- “वॄ वरणे, वॄञ् वरणे, तत्र चाद्यं 4 पवर्गतृतीयादिं बहवः पठन्ति।
बॄ भरणे इति स्वामि- शाकटायनौ” इति।
धातुवृत्तौ तु ‘आद्यशब्देन ञित् वृणातिरुच्यते।
स्वामिशाकटायनावप्येवं पठित्वा भरणार्थत्वमाहतुः’ इति।
क्षीरतरङ्गिण्यां मुद्रितशाकटायनधातुपाठे चोभयत्र दन्त्योष्ठ्यादिपाठ एवोपलभ्यते।
‘बॄञ् वरणे’ इति पठित्वा, ‘भरणे इत्यप्येके’ इति धा।
का।
व्याख्यायाम् 5।
6 वारकः-रिका, वारकः-रिका, विवरीषकः-विवरिषकः-वुवूर्षकः-र्षिका, वोवुरकः-रिका
वरिता-वरीता-त्री, वारयिता-त्री, विवरिषिता-विवरीषिता-वुवूर्षिता-त्री, वोवुरिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकपिपर्तिवत् 7 ज्ञेयानि।
8 वर्विः।
प्रासङ्गिक्यः
01
=>
(१६३८)
02
=>
(९-क्र्यादिः-१४९०। सक। सेट्। पर।)
03
=>
(श्लो। ३७)
04
=>
(वॄ इत्यस्य)
05
=>
(३-६)
06
=>
[पृष्ठम्१२६२+ २८]
07
=>
(१०५५)
08
=>
[[१। ‘वॄदॄभ्यां विन्’ (द। उ। १-२३) इति विन्प्रत्यये रूपमेवम्। वृणातीति वर्विः = धात्री। अत्र “वॄ’ इत्यस्य ‘पॄ’ इति नारायणश्वेतनवासिनौ। अन्ये तु ‘वृ’ इत्येव पठन्ति” इति तत्र टिप्पन्यामुक्तम्।]]
1 {@“वॄञ् वरणे”@} 2 प्वादिः, ल्वादिश्च।
‘वॄवॄञोरञितो धातोर्वृणाति वरणे भवेत्।
वृणाति वृणीते वृञस्तत्रार्थ इष्यते।।’ 3 इति देवः।
‘वृञ्-इति नन्दी’ इति क्षीरस्वामी।
वारकः-रिका, वारकः-रिका, विवरिषकः-विवरीषकः-वुवूर्षकः-र्षिका, वोवुरकः-रिका
वरिता-त्री, वारयिता-त्री, विवरिषिता-विवरीषिता-वुवूर्षिता-त्री, वोवुरिता-त्री
इत्यादिकानि रूपाणि सर्वाणि जौहोत्यादिकपिपर्तिवत् 4 ऊह्यानि।
शतरि- 5 वृणन्-ती, शानचि-वृणानः, वारयमाणः, 6 वरः, 7 वूर्णिः, 8 वरुणः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६३९)
02
=>
(९-क्र्यादिः-१४८६। सक। सेट्। उभ।)
03
=>
(श्लो। ३७)
04
=>
(१०५५)
05
=>
[[२। शतरि ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाभ्य- स्तयोरातः’ (६-४-११२) इत्याकारलोपे ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपमेवम्। एवं शानजन्तेऽपि प्रक्रिया ऊह्या।]]
06
=>
[[३। ‘ऋदोरप्’ (३-३-५७) इति भावे अपूप्रत्ययः। घञोऽपवादः।]]
07
=>
[[४। ‘ॠल्वादिभ्यः--’ (वा। ८-२-४४) इति निष्ठातकारस्य नकारादेशे णत्वे रूपमेवम्।]]
08
=>
[[५। ‘कॄवृतॄ--’ (द। उ। ५-५२) इति उनन्प्रत्यये रूपम्। ‘वॄ’ इति स्वामिसम्मतः पाठः। द। उ। वृत्त्याम् ‘वृ’ इत्येव दृश्यते।]]