वैष्णवाचार (vaiSNavAcAra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishवैष्णवाचार - vaiSNavAcAra - - rites or practices of the vaiSNavas
शब्दकल्पद्रुमः
Sanskritवैष्णवाचारः, (वैष्णवानामाचारः ।) विष्णु-भक्तानामाचरणम् । यथा, --“अथाचारा बहुविधाः शिष्टाचारानुसारतः ।श्रीवैष्णवानां कर्त्तव्या लिख्यन्तेऽत्र समासतः ॥
”अथाचाराः श्रीविष्णुपुराणे और्व्वसगरसंवादेगृहस्थाचारकथनारम्भे ।“देवगोब्राह्मणान् सिद्धान् वृद्धाचार्य्यांस्तथा-र्च्चयेत् ।द्विकलञ्च नमेत् सन्ध्यामग्नीनुपचरेत्तथा ॥
सदानुपहते वस्त्रे प्रशस्ताश्च तथौषधीः ।गारुडानि च रत्नानि विभृयात् प्रयतो नरः ॥
प्रसिद्धामलकेशश्च सुगन्धिश्चारुवेशधृक् ।किञ्चित् परस्वं न हरेत् नाल्पमप्यप्रियं वदेत् ।प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ।नान्याश्रयं तथा वैरं रोचयेत् पुरुषेश्वरः ॥
न दुष्टयानमारोहेत् कुलच्छायां न संश्रयेत् ।विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः ॥
बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह ।तथातिव्ययशीलैश्च परिवादरतैः शठैः ॥
बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् ।नावगाहेज्जलौघस्य वेगमग्रे जनेश्वर ॥
प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ।न कुर्य्याद्दन्तसङ्घर्षं न कृष्णीयाच्च नासिकाम् ।नासंवृतमुखो जृम्भेत् श्वासकासौ विवर्ज्जयेत् ।नोच्चैर्हसेत् सशब्दञ्च न मुञ्चेत् पवनं त्वधः ॥
नखान्न वादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ।न श्मश्रु भक्षयेल्लोष्ट्रान्न गृह्णीयाद्विचक्षणः ॥
ज्योतींष्यमेध्याशस्तानि नाभिवीक्षेत च प्रभो ।न हुङ्कुर्य्याच्छवं चैव शवगन्धो हि सोमजः ॥
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।दुष्टस्त्रीसन्निकर्षञ्च वर्ज्जयेन्निशि सर्व्वदा ॥
पूज्यदेवद्बिजज्योतिश्छायां नातिक्रमेद्बुधः ।नैकः शून्याटवीं गच्छेन्न च शून्यं गृहं व्रजेत् ॥
केशास्थिकण्ठकामेध्यबलिभस्मतुषांस्तथा ।स्नानार्द्रां धरणीं चैव दूरतः परिवर्ज्जयेत् ॥
नानार्य्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः ।उपसर्पेन्न च व्यालांश्चिरं तिष्ठेन्न चोत्थितः ॥
यथेष्टभोजकांश्चैव तथा देवपराङ्मुखान् ।वर्णाश्रमक्रियातीतान् दूरतः परिवर्ज्जयेत् ॥
अतीवजागरस्वप्नौ तद्बत् स्थानासने बुधः ।न सेवेत तथा शय्यां व्यायामञ्च नरेश्वर ॥
दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्ज्जयेत् ।अवश्यायञ्च राजेन्द्र पुरोवातातपौ तथा ॥
न स्नायान्न स्वपेन्नग्नो न चेवोपस्पृशेद्बुधः ।मुक्तकच्छश्च नाचामेद्देवाद्यर्च्चाञ्च वर्ज्जयेत् ॥
नैकवस्त्रः प्रवर्त्तेत द्विजवाचनके जपे ॥
” * ॥
किञ्च ।“न च निर्धूनयेत् केशान्नाचामेन्नैव चोत्थितः ।पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ॥
अपसव्यं नैव गच्छेद्देवागारचतुष्पथान् ।मङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणाम् ॥
सोमार्काग्न्यम्बुवायूनां पूज्यानाञ्च न संमुखम् ।कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥
तिष्ठन्न मूत्रयेत्तद्वत् पन्थानं नावमूत्रयेत् ।श्लेष्मविण्मूत्ररक्तानि सर्व्वदैव न लङ्घयेत् ॥
श्लेष्मष्ठीवनकोत्सर्गो नान्नकाले प्रशस्यते ।वलिमङ्गलजप्यादौ न होमे न महाजने ॥
योषितो नावमन्येत न चासां विश्वसेद्बुधः ।न चैवेर्षी भवेत्तासु नाधिकुर्य्यात् कदाचन ॥
मङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च ।न निष्क्रामेत् गृहात् प्राज्ञः सदाचारपरो नरः ॥
आकालगर्ज्जितादौ तु पर्व्वस्वशौचकादिषु ।अनध्यायं बुधः कुर्य्यादुपरागादिके तथा ॥
वर्षातपादिके च्छत्री दण्डी रात्र्यटवीषु च ।शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥
नोर्द्धं न तिर्य्यक् दूरं वा निरीक्षन् पर्य्यटेद्बुधः ।युगमात्रं महीपृष्ठं नरो गच्छेद्बिलोकयन् ॥
” * ॥
किञ्च ।“प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् ।श्रेयस्तद्रहितं वाच्यं यद्यप्यत्यन्तमप्रियम् ॥
प्राणिनामुपकाराय यदेवेह परत्र च ।कर्म्मणा मनसा वाचा तदेव मतिमान्भजेत् ॥
” * ॥
बृहन्नारदीये सदाचारप्रसङ्गे ।“असावहमिति ब्रूयाद्द्विजो वै ह्यभिवादने ।श्राद्धं व्रतं जपं दानं देवताभ्यर्च्चनं तथा ॥
यज्ञञ्च तर्पणञ्चैव कुर्व्वन्तं नाभिवादयेत् ।तथा स्नानं प्रकुर्व्वन्तं धावन्तमशुचिन्तथा ॥
भुञ्जानञ्च शयानञ्च अभ्यक्तशिरसन्तथा ।भिक्षान्नधारिणं चैव रमन्तं जलमध्यगम् ॥
कृताभिवादनो यो न कुर्य्यात् प्रत्यभिवादनम् ।नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव सः ॥
” *मार्कण्डेयपुराणे मदालसालर्कसंवादे ।“असत्प्रलापमनृतं वाक्पारुष्यञ्च वर्ज्जयेत् ।असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्त्रक ॥
केशप्रसाधनादर्शदर्शनं दन्तधावनम् ।पूर्च्चाह्ण एव कार्य्याणि देवतानाञ्च तर्पणम् ॥
उदक्यादर्शनं स्पर्शं वर्जेत् सभाषणं तथा ।न चाभीक्ष्णं शिरःस्नानं कुर्य्यान्निष्कारणं नरः ॥
शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदपि स्पृशेत् ।पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च ॥
विद्याधिकस्य गुर्व्विण्या भारार्त्तस्य महीयसः ।मूकान्पवधिराणाञ्च मत्तस्योन्मत्तकस्य च ॥
पुश्चल्याः कृतवैरस्य बालस्य पतितस्य च ।उपानद्बस्त्रमाल्यानि धृतान्यन्यैर्न धारयेत् ॥
उपवीतमलङ्कारं करकञ्चैव वर्जयेत् ।न क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन ॥
न चापि विक्षिपेत् पादौ वाससी न च धूनयेत् ।मूर्खोन्मत्तव्यसनिनो विरूपान् मायिनस्तथा ॥
न्यूनाङ्गानधमांश्चैव नोपहासेन्न दूषयेत् ।परस्य दण्डं नोद्यच्छेत् शिक्षार्थं पुत्त्रशिष्ययोः ॥
नानुलेपनमादद्यादस्नातः स्नातकी क्वचित् ।न चापि रक्तवासाः स्याच्चित्रवासधरोऽपि वा ॥
क्षुरकर्म्माणि चान्ते च स्त्रीसम्भोगे च पुत्त्रक ।स्नायीत तैलवान् प्राज्ञः कटभूमिमुपेत्य च ।युगपज्जलमग्निञ्च विभृयान्न विचक्षणः ॥
”कटमूमिं श्मशानम् ।“नाचक्षीत धयन्तीं गां जलं नाञ्जलिनापिबेत् ॥
”धयन्तीं पिबन्तीम् ।“शौचकालेषु सर्व्वेषु गुरुष्वल्पेषु वा पुनः ।न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ॥
विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः ।अजाश्वौ मुखतो मेध्यौ न गोर्व्वत्सस्य चाननम् ॥
मातुः प्रस्नवने मेध्यं शकुनिः फलपातने ।उदक्याशौचिलग्नांश्च सूतिकान्त्यावसायिनः ।स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नातः शुध्यति मानवः ।आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥
न चालपेत् जनं द्बिष्टं वीरहीनां तथा स्त्रियम् ॥
देवतातिथिसच्छास्त्रयज्ञसिद्धादिनिन्दकैः ।कृत्वा तु स्पर्शनालापं शुद्ध्येदर्कावलोकनात् ॥
अवलोक्य तथोदक्यामन्त्यजान् पतितं शठम् ।विधर्म्मिसूतिकाषण्डविवस्त्रान्त्यावसायिनः ॥
मृतनिर्यातकाश्चैव परदाररताश्च ये ।एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ॥
” * ॥
किञ्च ।“यच्चापि कुर्व्वतो नात्मा जुगुप्सामेति पुत्त्रक ।तत् कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने ॥
” * ॥
भविष्योत्तरे श्रीकृष्णयुधिष्ठिरसंवादे ।“उपासते न ये पूर्व्वां द्विजाः सन्ध्यां न पश्चि-माम् ।सर्व्वांस्तान् धार्म्मिको राजा शूद्रकर्म्मणि योज-येत् ॥
दूरादावसथान्मूत्रं दूरात् पादावसेचनम् ।उच्छिष्टोत्सर्ज्जनं भूप सदा कार्य्यं हितैषिणा ॥
उच्छिष्टो न स्पृशेच्छीर्षं सर्व्वे प्राणास्तदाश्रयाः ।केशग्रहान् प्रहारांश्च शिरस्येतानि वर्ज्जयेत् ॥
न पाणिभ्यामुभाभ्यान्तु कण्डूयाज्जातु वै शिरः ॥
”किञ्च ।“सुवासिनीं गुर्व्विणीञ्च वृद्धं बालातुरौ तथा ।भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही ॥
अघं स केवलं भुङ्क्ते बद्धे गोवाहनादिके ।यो भुङ्क्ते पाण्डवश्रेष्ठ प्रेक्षतामप्रदाय च ॥
वर्ज्जयेद्दधि शक्तुञ्च रात्रौ धानाश्च वासरे ॥
”किञ्च ।“स्रजश्च नावकर्षेत न वहिर्घारयीत च ।गृहे पारावता धन्याः शुकाश्च सहकारिकाः ॥
”कौर्म्मे व्यासगीतायाम् ।“तृणं वा यदि वा शाकं मूलं वा जलमेव वा ।परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥
न राज्ञः प्रतिगृह्णीयान्न शूद्रात् पतितादपि ।नान्यस्माद्याचकत्वञ्च निन्दिताद्बर्ज्जयेद्बुधः ॥
नित्यं याचनको न स्यात् पुनस्तत्रैव याचयेत् ।प्राणानपहरत्येष याचकस्तस्य दुर्म्मतिः ॥
न देवद्रव्यहारी स्याद्बिशेषेण द्विजोत्तमाः ।ब्रह्मस्वञ्च नापहरेदापद्यपि कदाचन ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।देवस्वं वापि यत्नेन सदा परिहरेत्ततः ॥
न धर्म्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।व्रतेन पापं प्रच्छाद्य कुर्व्वन् स्त्रीशूद्रदम्भनम् ॥
प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्मवादिभिः ।देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः ॥
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणा-धिकम् ॥
” * ॥
किञ्च ।“हिमवद्बिन्ध्ययोर्मध्ये पूर्व्वपश्चिमयोः शुभम् ।मुक्त्रा समुद्रयोर्द्देशं नान्यत्र निवसेद्द्विजः ॥
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ॥
अर्द्धक्रोशान्नदीकूलं वर्ज्जयित्वा द्विजोत्तमाः ॥
”किञ्च ।“अग्निना भस्मना चैव सलिलेन विशेषतः ।द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्व्विभिद्यते ॥
परक्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित् ।न सूर्य्यपरिवेशं वा नेन्द्रचापं न चाग्निकम् ॥
परस्मै कथयेद्बिद्वान् शशिनं वा कथञ्चन ।तिथिं पक्षस्य न ब्रू यान्नक्षत्राणि विनिर्द्दिशेत् ॥
न देवगुरुविप्राणां दीयमानन्तु वारयेत् ।निन्दयेद्यो गुरून् देवान् वेदं वा सोपबृंहणम् ॥
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ।तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् ॥
कर्णौ पिधाय गन्तव्यं न चैनमवलोकयेत् ।वर्ज्जयेद् वै रहस्यञ्च परेषां गूहयेद्बुधः ॥
विवादं स्वजनैः सार्द्धं न कुर्य्याद्वै कदाचन ।न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ॥
नेक्षेतोद्यन्तमादित्यं शशिनं वानिमित्ततः ।नास्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् ॥
तिरोहितं वाससा वा न दशान्तरगामिनम् ।नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रमेव वा ॥
पतितव्यङ्गचाण्डालानुच्छिष्टान्नावलोकयेत् ।न युक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥
स्पृशेन्न भोजने पत्नीं नैनामीक्षेत मेहतीम् ।क्षुवन्तीं जम्भमाणां वा नासनस्थां यथासुखम् ॥
नोदके चात्मनो रूपं न कुलं श्वभ्रमेव वा ।न शूद्राय मतिं दद्यात् कृषरं पायसं दधि ॥
नोच्छिष्टं वा घृतमधु न च कृष्णाजिनं हविः ।न कुर्य्यात् कस्यचित् पीडां मुतं शिष्यञ्च ताड-येत् ॥
नात्मानमवमन्येत दैन्यं यत्नेन वर्ज्जयेत् ।न च शिष्यान्न सत् कुर्य्यान्नात्मानं शंसयेद्बुधः ॥
न नद्याञ्च नदीं ब्रूयात् पर्व्वतेषु न पर्व्वतम् ।आवसेत्तेन नैवापि यस्त्यजेत् सहवासिनम् ॥
शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।रोमाणि च रहस्यानि स्वानि खानि च नस्पृशेत् ॥
न पानिपादवाङ्नेत्रचापलानि समाश्रयेत् ।नाभिहन्याज्जलं पद्भ्यां पाणिना न कदाचन ॥
न घातयेदिष्टिकाभिः फलानि न फलेन च ।न म्लेच्छभाषणं शिक्षेन्न कर्षेश्च पदासनम् ॥
नोत्सङ्गे भक्षयेद्भक्ष्यान् गाञ्च संवेशयेन्न हि ।नाक्षैः क्रीडेन्न धावेत स्त्रीभिर्व्वादं न चाचरेत् ॥
न दन्तैर्नखलोमानि छिन्द्यात् सुप्तं न वोधयेत् ।न वालातपमासेवेत् प्रेतधूमं विवर्ज्जयेत् ॥
नैकः सुप्यात् शून्यगृहे स्वयं नोपानहौ वहेत् ।नाकारणाद्बा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ॥
न पादक्षालनं कुर्य्यात् पादेनैव कदाचन ।नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद्बुधः ॥
नाभिप्रतारयेद्देवान् ब्राह्मणान् गामथापि वा ।न स्पृशेत् पाणिनोच्छिष्टो विप्रगोब्राह्मणा-नलान् ॥
न चैवान्नं पदा वापि न देवप्रतिमां स्पृशेत् ।नोत्तरेदनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् ॥
चैत्यं वृक्षं नैव छिन्द्यान्नाप्सु ष्ठीवनमुत्सृजेत् ।न चाग्निं लङ्गयेद्धीमान् नोपदध्यादधः क्वचित् ॥
न चैवं पादतः कुर्य्यात् तिलबद्धं निशि त्यजेत् ।न कूपमवरोहेत नाचक्षीताशुचिः क्वचित् ॥
अग्नो न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ।सुहृन्मरणमार्त्तिं वा न स्वयं श्रावयेत् परान् ॥
अपण्यमथ पण्यं वा विक्रयं न प्रयोजयेत् ।पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥
न भिन्द्यात् पूर्व्वसमयं सत्योपेतं कदाचन ।परस्परं पशून् व्यालान् पक्षिणो न चयोधयेत् ॥
कारयित्वा स्वकर्म्माणि कारून् विद्वान् नवञ्चयेत् ।वहिर्गन्धञ्च कुद्वारप्रवेशञ्च विवर्ज्जयेत् ॥
नैकश्चरेत् सभां विप्रः समवायञ्च वर्ज्जयेत् ।न बीजयेद्वा वस्त्रेण न देवायतने स्वपेत् ।नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ।नाक्रामेत् कामतश्छायां ब्राह्मणानां गवामपि ॥
स्वान्तु नाक्रामयेच्छायां पतिताद्यैर्नरोगिभिः ।वर्जयेन्मार्जनीरेणुं वस्त्रस्नानघटोदकम् ॥
नाश्नीयात् पयसा तक्रं न बीजान्युपवीजयेत् ॥
विवत्सायाश्च गोक्षीरमौष्ट्रं वा निर्द्दशस्य च ।आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ॥
हन्तकारमथाग्र्यं वा भिक्षां वा शक्तितो द्विजः ।दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥
भिक्षामाहुर्ग्रासमात्रमग्र्यं तस्माच्चतुर्गुणम् ।पुष्कलं हन्तकारन्तु तच्चतुर्गुणमिष्यते ॥
”मार्कण्डेये ।“भोजनं हन्तकारं वा अग्र्यं भिक्षामथापि वा ।अदत्त्वा तु न भोक्तव्यं यथा विभवमात्मनः ॥
” *काशीखण्डे ।“नैवोत्कटासनेऽश्नीयान्नाग्नौ वस्त्वशुचि क्षिपेत् ॥
श्राद्धं कृत्वा परश्राद्धे योऽश्रीयात् ज्ञानवर्जितः ।दातुः श्राद्धफलं नास्ति भोक्ता किल्विषभुग्-भवेत् ॥
नोत्पाटयेल्लोमनखं दशनेन कदाचन ।करजैः करजच्छेदं करेणैव विवर्ज्जयेत् ॥
अपद्वारे न गन्तव्यं स्ववेश्मपरवेश्मनोः ।उत्कोचद्यूतदेवार्थद्रव्यं दूरात् परित्यजेत् ॥
निष्ठीवनञ्च श्लेष्माणं गृहात् दूरे विनिःक्षिपेत् ॥
उद्धृत्य पञ्चमृत्पिण्डान् स्नायात् परजलाशये ।अनुद्धृत्य च तत्कर्त्तुरेनसः स्यात्तुरीयभाक् ॥
”ब्राह्मे ।“यस्तु पाणितले भुङ्क्ते यस्तु फत्कारसंयुतम् ।प्रसृताङ्गुलिभिर्यस्तु तस्य गोमांसवच्च तत् ॥
”अत्रिस्मृतौ ।“न्यूनाधिकस्तनी या गौर्याथवाभक्षचारिणी ।तयोर्दुग्धं न होतव्यं न पातव्यं कदाचन ॥
अजा गावो महिष्यश्च यामेध्यमपि भक्षयेत् ।हव्ये कव्ये च तद्दुग्धं गोमयञ्च विवर्ज्जयेत् ॥
अङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणन्तथा ।मृत्तिकाप्राशनञ्चैव तुल्यं गोमांसभक्षणैः ॥
”अत्रापवादो मनुस्मृतौ ।“सामुद्रं सैन्धवञ्चैव लवणे परमाद्भुते ।प्रत्यक्षे अपि ते ग्राह्ये निषेधस्त्वन्यगोचरः ॥
”अत्रिस्मृतौ ।“दिवा कपित्थच्छाया च निशायां दधिभो-जनम् ।कार्पासं दन्तकाष्ठञ्च शक्रादपि हरेत् श्रियम् ॥
”विष्णुस्मृतौ च ।“कपिलायाः पयः पीत्वा शूद्रस्तु नरकं व्रजेत् ।होमशेषं पिबेद्बिप्रो विप्रः स्यादन्यथा पशुः ॥
परिहर्त्तुं पुनर्लेखं तत्तच्छास्त्रोक्तमन्यथा ।यदत्र लिखितं किञ्चित्तत् क्षन्तव्यं महात्मभिः ॥
आचाराश्चेदृशाः सन्ति परेऽपि बहुलाः सताम् ।ते लोकशास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥
नित्यत्वमेषां माहात्म्यमप्यत्र लिखितात् पुरा ।सदाचारस्यनित्यत्वान्माहात्म्याच्च सुसिद्ध्यति ॥
”इति श्रीहरिभक्तिविलासे तित्यकृत्यसमापनोनाम ११ विलासः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
