| YouTube Channel

वैष्णवाचमनं (vaiSNavAcamanaM)

 
शब्दकल्पद्रुमः
Sanskrit
वैष्णवाचमनं,
क्ली,
(वैष्णवस्याचमनम् ।) विष्णु-पूजादिपूर्व्वकर्त्तव्यकर्त्तृसं स्कारकाङ्ग--ओँकारादि-नमोऽन्तचतुर्थ्यन्ततत्तन्नामोच्चारणपूर्व्वकत्रिर्ज्जल-पानादि यथा, --“त्रिःपाने केशवं नारायणं माधवमप्यथ ।प्रक्षलने द्बयोः पाण्योर्गोविन्दं विष्णुमप्युभौ
मधुसूदनमेकञ्च मार्ज्जनेऽन्यं त्रिविक्रमम् ।उन्मार्ज्जनेऽप्यधरयोर्व्वामनश्रीधरावुभौ
प्रक्षालने पुनः पाण्योर्हृषीकेशञ्च पादयोः ।पद्मनामं प्रोक्षणे तु मूर्द्ध्नि दामोदरं ततः
वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नमित्युभौ ।नासयोर्नेत्रयुगलेऽनिरुद्धं पुरुषोत्तमम्
अधोक्षजं नृसिंहञ्च कर्णयोर्नाभितोऽच्युतम् ।जनार्द्दनञ्च हृदये उपेन्द्रं मस्तके ततः
दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि ।नमोऽन्तञ्च चतुर्थ्यन्तमाचामेत् क्रमतो जपन्
अशक्तः केवलं दक्षं स्पृशेत् कर्णं तथा वाक्
कुर्व्वीतालभनं वापि दक्षिणश्रवणस्य वै
”तथा वाक् इति यतस्तथैव वचनमस्ति ।कुर्व्वीतालभनं वापीति मार्कण्डेयपुराणवचन-मतो पौनरुक्तम् इति श्रीहरिभक्तिविलासे३ विलासः