वैष्णवः (vaiSNavaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiवैष्णवः
- -
"तीन महत्त्वपूर्ण आधुनिक हिन्दू-संप्रदायों में से एक, दूसरे दो हैं शैव और शाक्त"
Wordnet
Sanskrit वैष्णवसम्प्रदायः, वैष्णवः
हिन्दुधर्मे वर्तमानः सः सम्प्रदायः यः विष्णुं पूजयति।
"श्यामः वैष्णवसम्प्रदायस्य अनुयायी अस्ति।"
वैष्णवः
यः विष्णुम् उपासति
"वैष्णवः विष्णु मंदिरे गच्छति"
शब्दकल्पद्रुमः
Sanskritवैष्णवः, (विष्णुर्द्देवता अस्य । अण् ।) विष्णु-मन्त्रोपासकः । विष्णुभक्तः । तत्पर्य्यायः । कार्ष्णः२ हारः ३ । तस्य लक्षणं यथा, --“गृहीतविष्णुदीक्षाको विष्णुसेवापरो नरः ।वैष्णवश्चात्र संग्राह्यः स्कान्दाद्युक्तानुसारतः ॥
”तथा च स्कान्दे ।“परमापदमापन्नो हर्षे वा समुपस्थिते ।नैकादशीं त्यजेद्यस्तु यस्य दीक्षास्ति वैष्णवी ॥
समात्मा सर्व्वजीवेषु निजाचारादविप्लुतः ।विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥
”इति श्रीहरिभक्तिविलासे १२ विलासः ॥
* ॥
अथ श्रीवैष्णवनिन्दादिदोषः । स्कान्दे मार्कण्डेय-भगीरथसंवादे ।“यो हि भागवतं लोकमुपहासं नृपोत्तमः ।करोति तस्य नश्यन्ति अर्थधर्म्मयशःसुताः ॥
” *अथ वैष्णवसमागमविधिः । तेजोद्रविणपञ्च-रात्रे ।“वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद्भुवि ।उभयोरन्तरा विष्णुः शङ्खचक्रगदाधरः ॥
” * ॥
अथ वैष्णवसन्मानननित्यता । स्कान्दे श्रीमार्क-ण्डेयभगीरथसंवादे ।“दृष्ट्वा भागवतं दूरात् संमुखे यो न याति हि ।न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम् ॥
”अथ वैष्णवस्तुतिः । स्कान्दे ।“धन्योऽहं कृतकृत्योऽहं यद्यूयं गृहमागताः ।दुर्ल्लभं दर्शनं नूनं वैष्णवानां यथा हरेः ॥
” * ॥
अथ वैष्णवाभिगमनमाहात्म्यम् । स्कान्देश्रीमार्कण्डेयभगीरथसंवादे ।“संमुखं व्रजमानस्य वैष्णवानां नराधिप ।पदे पदे यज्ञफलं प्राहुः पौराणिका द्बिजाः ॥
”अथ वैष्णवस्तुतिमाहात्म्यम् । तत्रैव ।“प्रत्यक्षं वा परोक्षं वा यः प्रशंसति वैष्णवम् ।ब्रह्महा मद्यपः स्तेयी गुरुगामी सदा नृणाम् ।मुच्यते पातकात् सद्यो विष्णुराह नृपोत्तम ॥
” *अथ वैष्णवसम्माननमाहात्म्यम् । तत्रैवामृत-सारोद्धारे ।“श्रद्धया दत्तमन्नञ्च वैष्णवाग्निषु जीर्य्यति ।तदन्नं मेरुणा तुल्यं भवते च दिने दिने ॥
” * ॥
अथ वैष्णवशास्त्रमाहात्म्यम् । स्कान्दे श्रीब्रह्म-नारदसंवादे ।“वैष्णवानि च शास्त्राणि ये शृण्वन्ति पठन्ति च ।धन्यास्ते मानवा लोके तेषां कृष्णः प्रसीदति ॥
”इति च श्रीहरिभक्तिविलासे १० विलासः ॥
तस्य लक्षणमाहात्म्यादि यथा, --“फलसन्धानरहिता विष्णुभक्ताश्च वैष्णवाः ।मत्प्रीतिभक्तिकामास्ते सर्व्वदा सर्व्वकर्म्मसु ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ।जीवन्मुक्तं वैष्णवन्तं वेदाः सर्व्वे वदन्ति च ॥
पुरुषाणां शतं पूर्व्वं पैतृकञ्च शतं परम् ।मातामहस्य च शतं मातरं मातृमातरम् ॥
भगिनीं भ्रातरञ्चैव भागिनेयञ्च मातुलम् ।श्वश्रूञ्च श्वशुरञ्चैव गुरुपत्नीं गुरोः सुतम् ॥
गुरुञ्च ज्ञानदातारं मित्रञ्च सहचारिणम् ।भृत्यं शिष्यं तथा चेटीं प्रजाः स्वाश्रमसन्निधौ ॥
उद्धरेदात्मना सार्द्धं मन्त्रग्रहणमात्रतः ।मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥
तस्य संस्पर्शमात्रेण पूतं तीर्थञ्च भारतम् ।तस्यैव पादरजसा सद्यः पूता वसुन्धरा ॥
पादोदकप्लुतं स्थानं तीर्थमेव भवेत् घ्रुवम् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥
* ॥
अपि च ।श्रीशिव उवाच ।“शिवमस्तु च साधूनां वैष्णवानां सतामिह ।अवैष्णवानामसतामशिवञ्च पदे पदे ॥
ददाति वैष्णवेभ्यश्च यो दुःखं मूर्च्छितो जनः ।श्रीकृष्णस्य च संहर्त्ता विघ्नस्तस्य पदे पदे ॥
अवैष्णवानां हृदयं न हि शुद्धं सदा मलम् ।श्रीकृष्णमन्त्रस्मरणं मनोनैर्म्मल्यकारणम् ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः ।विष्णुमन्त्रोपासनया क्षीयते कर्म्म वै नृणाम् ॥
ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम् ।यान्त्यन्योपासकाश्चान्यैः सार्द्धञ्च प्रकृतेर्लये ॥
वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि ।विष्णुमन्त्रविहीनेभ्यो द्बिजेभ्यः श्वपचो वरः ॥
परिपक्वाश्चाविपक्वा वैष्णवाः साधवश्च ते ।सन्ततं पतितांश्चैव विष्णुचक्रं सुदर्शनम् ॥
यथा वह्रौ शुष्कतृणं भस्मीभूतं भविष्यति ।तथा पापं वैष्णवेषु तेजम्विषु हुताशनात् ॥
गुरुवक्त्वाद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ।तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ॥
प्रशंसितं पितॄणाञ्च शतं मातामहस्य चस्वसोदरांश्च जननीमुद्धरन्त्येव वैष्णवाः ॥
गयायां पिण्डदानेन पिण्डदाः पिण्डभोजिनम् ।समुद्धरन्ति पुंसाञ्च वैष्णवाश्च शतं शतम् ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।यमस्तस्मान्महाभीतो वैनतेयाद्यथोरगः ॥
निष्पुणन्त्येव तीर्थानि गङ्गादीनि च भारते ।कृष्णमन्त्रोपासकाश्च स्पर्शमात्रेण वाक्पते ॥
पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च ।नश्यन्ति तानि सर्व्वाणि वैष्णवस्पर्शमात्रतः ॥
कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः ।सद्यो मुक्ता पातकेभ्यो हृष्टा पूता वसुन्धरा ॥
वायुश्च वरुणो वह्निः सूर्य्यः सर्व्वं पुनाति च ।एते पूता वैष्णवानां स्पर्शमात्रेण लीलया ॥
अहं ब्रह्मा च शेषश्च साक्षी धर्म्मश्च कर्म्मणाम् ।एते हृष्टाश्च वाञ्छन्ति वैष्णवानां समागमम् ॥
फलं कर्म्मानुसारेण सर्व्वेषां भारते भवेत् ।न भवेत्तद्वैष्णवे च सिद्धधान्ये यथाङ्कुरम् ॥
हन्ति तेषां कर्म्म पूर्व्वं भक्तानां भक्तवत्सलः ।कृपया स्वपदं तेभ्यो ददात्येव कृपानिधिः ॥
”इति ब्रह्मवैबर्त्ते प्रकृतिखण्डे ५७ अध्यायः ॥
* ॥
अन्यच्च ।श्रीभगवानुवाच ।“अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः ।तानेव द्वेष्टि यो मूढो ममासूनां स हिंसकः ॥
पुत्त्रान् पौत्त्रान् कलत्रांश्च राजलक्ष्मीं विधाय च ।ध्यायन्ते सन्ततं ये मां को मे तेभ्यः परः प्रियः ॥
परा भक्ता नु मे प्राणा न च लक्ष्मीर्न शङ्करः ।न भारती न च ब्रह्मा न दुर्गा न गणेश्वरः ॥
न ब्राह्मणा न वेदाश्च न वेदजननी सुराः ।न गोपी न च गोपाला न राधा प्राणतः प्रिया ॥
इत्येवं कथितं सर्व्वं सत्यं सारञ्च वास्तवम् ।न प्रशंसापरं तेषां ते च प्राणाधिकाः प्रियाः ॥
मां द्बिषन्ति च ये मूढा ज्ञानहीनाश्च वञ्चिताः ।स्वात्मानञ्च न जानन्ति ते यान्ति निरयं चिरम् ॥
ये द्बिषन्ति च मद्भक्तान् प्राणानामधिकप्रियान् ।तेषां शास्ताहं तूर्णञ्च परत्र निरयं चिरम् ॥
प्रभवोऽहञ्च सर्व्वेषामीश्वरः परिपालकः ।तथापि न स्वतन्त्रोऽहं भक्ताधीनो दिवानिशम् ॥
गोलोके वाथ वैकुण्ठे द्बिभुजञ्च चतुर्भुजम् ।रूपमात्रमिदं सर्व्वं प्राणा मे भक्तसन्निधौ ॥
यद्भक्तं भक्तदत्तञ्च भक्षणीयञ्च तन्मम ।अभक्ष्यं द्रव्यमन्येन दत्तञ्चेदमृतोपमम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥
अपि च ।“सर्व्वान् कामान् परित्यज्य इष्टभक्तिञ्च साधयेत्स एव वैष्णवाचारः कामसङ्कल्पवर्ज्जितः ॥
”इत्याचारभेदतन्त्रम् ॥
* ॥
अपरञ्च ।“रजस्वलायाः संभोगे कर्म्मक्षेत्रे च भारते ।त्वयोक्तञ्च भवेत् पापं नात्र स्वर्गे च सुन्दरि !कर्म्मक्षेत्रे च तत् कर्म्म यद्वेदोक्तं शुभाशुभम् ॥
न भवेद्वैष्णवानाञ्च ज्वलतां ब्रह्मतेजसा ॥
यथा प्रदीपवह्रौ च शुष्काणि च तृणानि च ।भवन्ति भस्मीभूतानि तथा पापानि वैष्णवे ॥
वह्रिसूर्य्यब्राह्मणेभ्यस्तेजीयान् वैष्णवः सदा ।रक्षितो विष्णुचक्रेण स्वतन्त्रो मत्तकुञ्जरः ॥
न विचारो न भोगश्च वैष्णवानां स्वकर्म्मणाम् ।लिखितं साम्नि कौथुम्यां कुरु प्रश्नं बृहस्मतिम् ॥
अस्मांश्च सर्व्वे जानन्ति चन्द्रवंश्यांश्च वैष्णवान् ।देवमन्यं न सेवन्ते चन्द्रवंश्या हरिं विना ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६ अध्यायः ॥
अपि च ।सूत उवाच ।“अथ वेण इयाजाथ सोऽश्वमेधेन भूपतिः ।ब्राह्मणेभ्यो ददौ दानं नानारूपमनेकधा ॥
जगाम वैष्णवं लोकं सकायो जगतीपतिः ।विष्णुना सह धर्म्मात्मा नित्यमेव प्रवर्त्तते ।एतत्ते सर्व्वमाख्यातं चरितं तस्य भूपतेः ॥
यद्वेणो वैष्णवद्वेषी सर्व्वघर्म्मबहिष्कृतः ।पृथुना पुत्त्रतीर्थेन पवित्रोऽगात् परं पदम् ॥
सत्पुत्त्रं परमं तीर्थं प्राप्य मुच्यन्ति पूर्व्वजाः ।पितापि ऋणमुक्तः स्यात् जाते पुत्त्रे महात्मनि ॥
वैष्णवो यदि पुत्त्रः स्यात् स तारयति पूर्व्वजान् ।पितॄनधस्तना वंशास्तारयन्त्यतिपावनाः ॥
”इति पाद्मे भूमिखण्डे १२० अध्यायः ॥
* ॥
अथ वैष्णवधर्म्मतत्कर्त्तव्यपञ्चविधपूजे । यथा, --श्रीपार्व्वत्युवाच ।“वैष्णवानाञ्च यद्धर्म्मं कर्म्मापि तस्य तद्बद ।यत् कृत्वा मानवाः सर्व्वे भवाम्भोधौ तरन्ति वै ॥
ईश्वर उवाच ।अथ द्बादश शुद्धिञ्च वैष्णवानामिहोच्यते ।गृहोपसर्पणञ्चैव तथानुगमनं हरेः ॥
भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः ॥
१ ॥
२पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ।करयोः सर्व्वशुद्धीनामियं शुद्धिर्विलिख्यते । ३ । ४ ॥
तन्नामकीर्त्तनञ्चैव गुणानाञ्चैव कीर्त्तनम् ।भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते ॥
५ ॥
तत्कथाश्रवणञ्चैव तस्योत्सवनिरीक्षणम् ।श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते । ६ ।७ । ८ । ९ ॥
पादोदकञ्च निर्म्माल्यं मालानामपि धारणम् ।उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुनः ॥
१० ॥
आघ्राणं गन्धपुष्पादेर्निर्माल्यस्य तपोधने ।विशुद्धिः स्यादनन्तस्य घ्राणस्यापि विधीयते । ११ ।१२ ॥
तत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ।तदेव पावनं लोके तद्धि सर्व्वं विशोधयेत् ॥
* ॥
पूजा च पञ्चधा प्रोक्ता तासां भेदान् शृणुष्वमे ।अभिगमनमुपादानं योगः स्वाध्याय एव च ॥
इष्टाः पञ्चप्रकारार्च्चाः क्रमेण कथयामि ते ।तत्राभिगमनं नाम देवतास्थानमार्जनम् ॥
उपलेपननिर्म्माल्यदूरीकरणमेव च । १ ।उपादानं नाम गन्धपुष्पादिचयनं यथा ॥
२ ॥
इष्टा नाम हि चेष्ठादेः पूजनञ्च यथार्थतः । ३ ।स्वाध्यायो मन्त्रराजस्य अर्थसन्धानतो जपः ॥
सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा ।तन्नामशास्त्राभ्यासश्च स्वाध्यायः परिकीर्त्तितः ॥
४ ॥
योगो नाम सुदेबस्य चात्मने यैव भावना । ५ ।इति पञ्चप्रकारार्च्चाः कथितास्तव सुव्रते ॥
”इति पाद्मे पातालखण्डे १० अध्यायः ॥
* ॥
अथ वैष्णवानां खाद्याखाद्यम् ।“सायं प्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा ।विष्णुभुक्तावशिष्टेन दिनपापात् प्रमुच्यते ॥
अन्नं ब्रह्मा रसो विष्णुः खादयन्नाम चोच्चरन् ।एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्नदोषैर्न लिप्यते ॥
अलावुं वर्त्तुलाकारं मसूरञ्च सवल्कलम् ।तालं शुक्लन्तु वार्त्ताकुं न स्वादेद्वैष्णवो जनः ॥
वटाश्वत्थार्कपत्रेषु कुम्भीतिभ्दुकपत्रयोः ।कोविदारकदम्बे च न खादेद्वैष्णवो नरः ॥
श्रावणे वर्जयेच्छक्तुं दधि भाद्रपदे त्यजेत् ।दुग्धन्तु आश्विने मासि कार्त्तिके चामिषंत्यजेत् ॥
दुग्धमन्नञ्च जम्बीरं यद्विष्णोरनिवेदितम् ।बीजपूरञ्च शाकञ्च प्रत्यक्षलवणन्तथा ॥
यदि दैवाच्च भुज्यन्ते तदा तन्नामकं स्मरेत् ॥
कलायं कङ्गुधान्यानि शाकञ्च हिलमोचिकाम् ।षष्टिकाकालशाकञ्च मुस्तकं क्रमुकं तथा ॥
लवणे सैन्धवं प्रोक्तं वचा च दधिसर्पिषी ।पयोऽनुद्धृतसारञ्च पनसाम्रे हरीतकी ॥
पिप्पलीजीरकञ्चैव नागरङ्गकतिन्तिडी ।कदलीलवलीधात्रीफलान्यगुडमैक्षवम् ।अतैलपक्वं भुञ्जीत हविष्येषु प्रचक्षते ॥
”इति पाद्मे पातालखण्डे ११ अध्यायः ॥
* ॥
अथ वैष्णवलक्षणविशेषादिः ।“माहात्म्यमथ भक्तानां यत् कार्य्यं यच्च लक्ष-णम् ।करणीयं हरेर्विप्र सावधानमनाः शृणु ॥
हरिरेव सदा सेव्यो नान्यो यस्य महात्मनः ।लोकस्य जगदाराध्यो हरिभक्तः स उच्यते ॥
अनन्यनिर्म्माल्यभुजो भक्तास्तेऽनन्यमानसाः ।गोविन्दोपासका ये तु नित्यं देवान्तरं विना ॥
अनन्यधिषणोऽनन्यहृदयोऽनन्यसेवकः ।केवलं हरिसेव्यङ्ग स भक्तः परिकीर्त्तितः ॥
सत्त्वं सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम् ।योऽनन्यत्वेन मनसा सात्त्वतः समुदाहृतः ॥
सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः ।रतस्तदीयसेवायां स भागवत उच्यते ॥
विहाय काम्यकर्म्मादीन् भजेदेकाकिनं हरिम् ।सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्त्वतं विदुः ॥
मुकुन्दपादसेवायां तन्नामश्रवणेऽपि च ।कीर्त्तने च रतो भक्तो नाम्नः स्यात् स्मरणेहरेः ॥
वन्दनार्च्चनयोर्भक्तिरनिशं दास्यसख्ययोः ।रतिरात्मार्पणे यस्य दृढानन्तस्य सात्त्वतः ॥
स्मर्त्तव्यः कीर्त्तनीयश्च श्रोतव्यः पूज्य एव च ।यस्यैको विष्णुराराध्यो वैष्णवः समुदाहृतः ॥
यथालब्धोऽपि सन्तुष्टः समचित्तो जितेन्द्रियः ।हरिपादाश्रयो लोके विप्राः साधुरनिन्दकः ॥
निर्व्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः ।निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥
लोभमोहमदक्रोधकामादिरहितः सुखी ।कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः ॥
यद्विष्णूपासना नित्यं विष्णुर्यस्येश्वरो मुने ।पूज्यो यस्यैकविष्णुः स्यादिष्टो लोके स वैष्णवः ।हरेः सर्व्वावताराणां मत्स्यादीनामुपासकाः ।तन्मन्त्रेष्टा अनन्याश्चेद्वैष्णवास्ते न संशयः ॥
यदिष्टो रघुनाथस्तु नृसिंहो वामनो हरिः ।एतन्मन्त्रो वराहादिर्वासुदेवः स वैष्णवः ॥
विष्णोरुपासको दासस्तन्मन्त्रेष्टस्तदाशयः ।तमाहुर्वैष्णवं लोके विष्णुसेवापरायणम् ॥
साध्वी यथा पतिं नारी नान्यं जानाति तंविना ।जगदीशं तथानन्यो यदि विष्णुं स वैष्णवः ॥
समचित्तो मुनिः पूतो गोविन्दचरणाश्रयः ।सर्व्वभूतदयः कार्ष्णो विवेकी साधुरुत्तमः ॥
कृष्णार्पितप्राणशरीरबुद्धिःशान्तेन्द्रियस्त्रीसुतसम्पदादिः ।आसक्तचित्तः श्रवणादिभक्ति-ष्वस्येह साधुः सततं हरेर्यः ॥
कृष्णाश्रयः कृष्णकथानुरक्तःकृष्णेष्टमन्त्रस्मृतिपूजनीयः ।कृष्णानिशध्यानमनास्त्वनन्योयो वै स साधुर्मुनिवर्य्य कार्ष्णः ॥
यस्येष्टं श्रीभागवतं शास्त्रं श्रीभगवान् हरिः ।भगवत्या समं लक्ष्म्या भक्त्या भागवतश्च सः ॥
ये कृष्णश्रवणाद्यर्हा ये तदुच्छिष्टभोजिनः ।ये कृष्णोपासका लोका दासास्ते परि-कीर्त्तिताः ॥
”इति पाद्मे उत्तरखण्डे ९९ अध्यायः ॥
* ॥
अपि च ।ब्रह्मोवाच ।“अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे ।स त्वं वैष्णवदेहेषु तिष्ठसीत्यद्भुतं महत् ॥
क्षणमात्रमपि स्वामिंस्तुष्टे त्वयि न किं भवेत् ।स त्वं वैष्णवसङ्गेन भ्रमसीत्यद्भुतं महत् ॥
के वैष्णवाः कैटभारे ! किं वा तेषाञ्च लक्षणम् ।कथं ज्ञेयाश्च ते सर्व्वे तन्मे कथय केशव ॥
भगवानुवाच ।वैष्णवानां लक्षणानि कल्पकोटिशतैरपि ।सम्यग्वक्तुं न शक्नोमि संक्षेपात् शृणु सत्तम ॥
संसारो वैष्णवाधीनो देवा वैष्णवपालिताः ।अहञ्च वैष्णवाधीनस्तस्मात् श्रेष्ठाश्च वैष्णवाः ॥
क्षणमात्रमपि ब्रह्मन् विहाय वैष्णवं जनम् ।तिष्ठामि नाहमन्यत्र वैष्णवो मम बान्धवः ॥
कामक्रोधविहीना ये हिंसादम्भविवर्ज्जिताः ।लोभमोहविहीनाश्च ते ज्ञेया वैष्णवा जनाः ॥
अमत्सरा दयायुक्ताः सर्व्वभूतहितैषिणः ।सत्योक्तिभाषिणश्चैव ज्ञेयास्ते वैष्णवा जनाः ॥
पितृभक्ता मातृभक्ता जातिपोषणतत्पराः ।धर्म्मोपदेशिनो ये च ज्ञेयास्ते वैष्णवा जनाः ॥
समानं ये च पश्यन्ति त्वाञ्च माञ्च महेश्वरम् ।कुर्व्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ॥
वेदविद्यानुरक्ता ये द्बिजभक्तिरताः सदा ।नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ॥
एकादशीव्रतं ये च भक्तिभावेन कुर्व्वते ।गायन्ति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ॥
देवायतनकर्त्तारस्तुलसीमाल्यधारिणः ।रुद्राक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ॥
मत्पादसलिलैर्येषां सिक्तानि मस्तकानि वै ।मम नैवेद्यमश्रन्ति ज्ञेयास्ते वैष्णवा जनाः ॥
शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः ।ब्रह्मन् येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ॥
कर्णयोश्चैव शीर्षेषु तुलसीपत्रमुत्तमम् ।सततं दृश्यते येषां ज्ञेषास्ते वैष्णवा जनाः ॥
तृणानि तुलसीमूलाद्ये चिन्वन्ति नरोत्तमाः ।सिञ्चन्ति बुलसीं ये च विज्ञेयास्ते च वैष्णवाः ॥
तुलसीमूलमृद्भिश्च तिलकानि नयन्ति ये ।तुलसीकाष्ठपङ्कैश्च विज्ञेया वैष्णवा जनाः ॥
गङ्गास्नानपरा ये च गङ्गानामपरायणाः ।गङ्गामाहात्म्यवक्तारो विज्ञेयास्ते च वैष्णवाः ॥
धात्रीफजस्रजो येषां गलेषु कमलासन ।यजन्ति ये च तत्पत्रैर्व्विज्ञेयास्ते च वैष्णवाः ॥
शालग्रामशिला येषां गृहे वसति सर्व्वदा ।शास्त्रं भागवतञ्चैव ज्ञेयास्ते वैष्णवा जनाः ॥
सन्मार्जयन्ति ये नित्यं मम स्थानानि सर्व्वदा ।दीपं यच्छन्ति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ॥
शीर्ण्णं मन्मन्दिरं ये च कुर्व्वते नूतनं पुनः ।तत्रायनञ्च शोभाञ्च ज्ञेयास्ते वैष्णवा जनाः ॥
अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन ।विद्यादानञ्च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ॥
क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छन्त्यन्नमम्बु च ।कुर्य्युर्ये रोगिशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥
आरामकारिणो ये च पिप्पलारोपिणोऽपि च ।गोसेवां ये च कुर्व्वन्ति ज्ञेयास्ते वैष्णवा जनाः ॥
अत्यन्तभक्ता ये ब्रह्मन् पितृयज्ञं प्रकुर्व्वते ।कुर्व्वन्ति दीनशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥
तडागग्रामकर्त्तारः कन्यादानप्रदाश्च ये ।सेवन्ते स्वगुरौ ये च ज्ञेयास्ते वैष्णवा जनाः ॥
सेवन्ते ज्येष्ठांभगिनीं ज्येष्ठं भ्रातरमेव च ।परनिन्दां न कुर्व्वन्ति ज्ञेयास्ते वैष्णवा जनाः ॥
देवस्वं ब्राह्मणद्रव्यं परस्वञ्च चतुर्म्मख ।पश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः ॥
पाषण्डसङ्गरहिताः शिवभक्तिपरायणाः ।चतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः ॥
बहुनात्र किमुक्तेन भाषितेन पुनः पुनः ।मदर्च्चां ये च कुर्व्वन्ति ज्ञेयास्ते बष्णवा जनाः ॥
वैष्णवेषु मुणाः सर्व्वे दोषलेशो न विद्यते ।तस्माच्चतुर्मुख त्वञ्च वैष्णवो भव साम्प्रतम् ॥
समाराधय मां नित्यं क्रियायोगैः प्रजापते ।सर्व्वमेव सुभद्रं ते भविष्यति न संशयः ॥
भूयः पूर्व्वस्थितमिव सृज्यतां सकलं जगत् ।इत्युक्त्रान्तर्द्दधे देवस्तत्रैव जगदीश्वरः ॥
ततस्तु पूर्व्ववद्ब्रह्म सृष्टवान् सकलं जगत् ।क्रियायोगैर्हरिं यष्ट्वा जगाम परमं पदम् ॥
ये पठन्ति ममाध्यायं भक्त्या नारायणाग्रतः ।सर्व्वपापविनिर्म्मुक्ता अन्ते यान्ति हरेः पदम् ॥
”इति पाद्मे क्रियायोगसारे २ अध्यायः ॥
* ॥
कालिङ्ग उवाच ।“जातिस्मरेण कथितो रहस्यः परमो मम ।यमकिङ्करयोर्योऽभूत् संवादस्तं ब्रवीमि ते ॥
स्वपुरुषमभिवीक्ष्य पाशहस्तंवदति यमः किल तस्य कर्णमूले ।परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥
”इति श्रीविष्णुपुराणे तृतीयेऽंशे यमगीतं ७अध्यायः ॥
* ॥
अपि च ।“कर्म्मक्षयाणि कर्म्माणि यतः साधुर्हरिःस्वयम् ।मन्ये न भौतिको देहो वैष्णवस्य जगत्त्रये ॥
”इति कल्किपुराणे ३० अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
