वैश्वदेवः (vaizvadevaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवैश्वदेवः, (विश्वदेवस्यायम् । विश्वदेव + अण् ।)विश्वदेवसम्बन्धिहोमादिः । यथा, --ब्रह्मोवाच ।“वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमम् ।पर्य्युक्षणमग्निं पर्य्युक्ष्य । क्रव्यादमग्निं प्रहिणोमिदूरं यमराज्यं गच्छतु रिप्रवाहः । इहैवाय-मितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ।ओँ पावक वैश्वानर इदमासनम् । अवनीगर्भ-संस्कृतः तेजोरूपो महाब्रह्मन्नमुहूर्त्तास्त्रिषुवैश्वानरं प्रतिबोधयामि । वैश्वानरोऽत्र उभयंप्रायातु परावतः । अग्निर्नः मुष्णतीरुपपृष्टेदिवि पृष्टोऽग्निः पृथिव्यां पृष्टो विश्वा ओषधी-राविवेश । वैश्वानरः सहसा पृष्टोऽग्निः सवोऽग्निः खं दिवा सर्व्वस्मात्तु नक्तं ओँ प्रजापतयेस्वाहा । सोमाय स्वाहा । बृहस्पतये स्वाहा ।अग्नीषोमाभ्यां स्वाहा । इन्द्राग्नीभ्यां स्वाहा ।द्यावापृथिवीभ्यां स्वाहा । धन्वन्तरये स्वाहा ।इन्द्राय स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहाभूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवस्वः स्वाहा । देवकृतस्यैनसोऽवयजनमसिस्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा ।पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्म-कृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसो-ऽवयजनमसि स्वाहा । यच्चाह मे विद्वांश्चकारयच्चाविद्वांस्तस्य सर्व्वस्यैनसोऽवयजनमसिस्वाहा । अग्नये स्विष्टिकृते स्वाहा । सूर्य्यायस्वाहा । प्रजापतये स्वाहा । वनस्पतये स्वाहा ।अद्भ्यः स्वाहा । ओषधिवनष्पतिभ्यः स्वाहा ।गृहाय स्वाहा । देहदेवताभ्यः स्वाहा । वास्तु-देवताभ्यः स्वाहा । इन्द्राय स्वाहा । इन्द्र-पुरुषेभ्यः स्वाहा । यमाय स्वाहा । यमपुरुषेभ्यःस्वाहा । वरुणाय स्वाहा । वरुणपुरुषेभ्यःस्वाहा । सोमाय स्वाहा । सोमपुरुषेभ्यःस्वाहा । ब्रह्मणे स्वाहा । ब्रह्मपुरुषेभ्यः स्वाहा ।विश्वेभ्यो देवेभ्यः स्वाहा । सर्व्वेभ्यो भूतेभ्यःस्वाहा । दिवारात्रिभ्यः स्वाहा । रक्षोभ्यःस्वाहा । स्वधा पितृभ्यः स्वाहा । ये भूताःप्रचरन्ति दिवा चरन्ति दिवाचरमिच्छन्तोभुवनस्य मध्ये तेभ्यो बलिं पुष्टिकामो ददामि ।मयि पुष्टिं पुष्टिपतिर्ददातु । श्वचाण्डालपतित-वायसेभ्यः ।” इति गारुडे वैश्वदेवविधिः २१९अध्यायः ॥
* ॥
तस्य प्रयोगो यथा । पूर्व्वाभि-मुखः शुचिरुपवीती कुशहस्तः कुशासनोपविष्टःकर्त्ता घृताक्तं दुग्धाक्तं तैलाक्तं जलाक्तं अन्नंआमान्नं वा फलं जलं वा जुहुयात् । यथा जलेओँ भूः स्वाहा । ओँ भुवः स्वाहा । ओँ स्वःस्वाहा । ओँ भूर्भुवः स्वः स्वाहा । ओँ देव-कृतस्यैनसोऽवयजनमसि स्वाहा । ओँ पितृ-कृतस्यैनसोऽवयजनमसि स्वाहा । ओँ मनुष्य-कृतस्यैनसोऽवयजनमसि स्वाहा । ओँ आत्म-कृतस्यैनसोऽवयजनमसि स्वाहा । ओँ यद्दिवाच नक्तञ्चैनश्चकृम तस्यावयजनमसि स्वाहा ।ओँ यत् स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्याव-यजनमसि स्वाहा । ओँ यद्विद्वांसश्चाविद्बांस-श्चैनश्चकृम तस्यावयजनमसि स्वाहा । ओँ एनसःएनसोऽवयजनमसि स्वाहा । ओँ अग्नये स्विष्टि-कृते स्वाहा । इत्यनेन जुहुतात् । इति वैश्व-देवकर्म्म । इत्याह्रिकप्रयोगतत्त्वम् ॥
(विश्वदेव एव । स्वार्थे अण् । गणदेवताविशेषः ।बन्धुभिरकृतविवादस्यैव वैश्वदेवलोकप्राप्तिः ।यथा, मनौ । ४ । १८३ ।“यामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।सम्बन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥
”विश्वदेवसम्बन्धिनि, त्रि । यथा, महाभारते ।१२ । ३०१ । ८ ।“आसुरान् विषयान् ज्ञात्वा वैश्वदेवांस्तथेवच ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
