वैशेषिकः (vaizeSikaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवैशेषिकः, (विशेषं वेत्ति अधीते वा । विशेष +ठक् ।) कणादमुनिकृतदर्शनशास्त्रवेत्ता । तत्-पर्य्यायः । औलुक्यः २ । इति हेमचन्द्रः ॥
(विशेषमधिकृत्य कृतो ग्रन्थः । विशेषः + “अधि-कृत्यकृते ग्रन्थे ।” ४ । ३ । ८७ । इति ठक् ।)कणादमुनिकृतदर्शनशास्त्रविशेषः । स तु विशेष-पदार्थनिरूपकग्रन्थः । अस्य मतं न्यायदर्शनमत-तुल्यम् । अत्र जगतः कारणं परमाणुपर्य्यन्तंनिरूपितम् ॥
* ॥
इह खलु निखिलप्रेक्षावन्-निसर्गप्रतिकूलवेदनीयतया निखिलात्मसंवेदन-सिद्धं दुःखं जिहासतस्तद्धानोपायं जिज्ञासुःपरमेश्वरसाक्षात्कारमुपायमाकलयति ।“यदा चर्म्मवदाकाशं वेष्टयन्तीह मानवाः ।तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥
”इत्यादिवचननिचयप्रामाण्यात् । परमेश्वरस्यसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः ।यदाह ।“आगमेनानुमानेन ध्यानाभ्यासबलेन च ।त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥
”इति ॥
तत्र मननमनुमानाधीनम् । अनुमानञ्च व्याप्ति-ज्ञानाधीनम् । व्याप्तिज्ञानञ्च पदार्थविवेकसा-पेक्षम् । अतः पदार्थषट्कम् “अथातो धर्म्मंव्याख्यास्यामः ।” इत्यादिकायां दशलक्षण्यांकणभक्षेण भगवता व्यवस्थापि । तत्राह्निकद्बया-त्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनम-कारि । तत्रापि प्रथमाह्रिके जातिमन्निरूपणम् ।द्वितीयाह्रिके जातिविशेषयोर्निरूयणम् ।आह्निकद्वयात्मके द्बितीये भूतदिक्काललक्षणम् ।तत्रापि प्रथमाह्निके भूतविशेषलक्षणम् । द्बितीयेदिक्कालप्रतिपादनम् । आह्निकद्वयात्मके तृतीयेआत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणंप्रथमे । द्वितीये अन्तःकरणलक्षणम् । आह्निक-द्वययुक्ते चतुर्थे शरीरतदुपयोगिविवेचनम् ।तत्रापि प्रथमे तदुपयोगिविवेचनम् । द्बितीयेशरीरविवेचनम् । आह्रिकद्वयवति पञ्चमे कर्म्म-प्रतिपादनम् । तत्रापि प्रथमे शरीरसम्बन्धि-कर्म्मचिन्तनम् । आह्रिकद्वयशालिनि षष्ठेश्रौतधर्म्मनिरूपणम् । तत्रापि प्रथमे दानप्रति-ग्रहधर्म्मविवेकः । द्वितीये चातुराश्रम्योचित-धर्म्मनिरूपणम् । तथाविधे सप्तमे गुणसमवाय-प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुण-प्रतिपादनम् । द्वितीये तत्सापेक्षगुणप्रतिपादनंसमवायप्रतिपादनञ्च । अष्टमे निर्व्विकल्पक-सविकल्पकप्रत्यक्षप्रमाणचिन्तनम् । नवमे बुद्धि-विशेषप्रतिपादनम् । दशमे अनुमानप्रतिपाद-नम् । तत्र उद्देशो लक्षणं परीक्षा चेतित्रिविधास्य शास्त्रस्य प्रवृत्तिः । इति वैशेषिक-ग्रन्थविवरणम् ॥
* ॥
(न्यायमते आत्मादिगतपारिभाषिकगुणः । यथा, भाषापरिच्छेदे ।“बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको-द्रवः ।अदृष्टभावना शब्दा अमी वैशेषिका गुणाः ॥
”विशेष एव । “विनयादिभ्यष्ठक् ।” ५ । ४ ।३४ । इति स्वार्थे ठक् ॥
असाधारणे, त्रि ।यथा, महाभारते । ७ । ५ । १५ ।“युगपन्नतु ते शक्या कर्त्तुं सर्व्वे पुरःसरा ।एक एव तु कर्त्तव्यो यस्मिन् वैशेषिका गुणाः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
