| YouTube Channel

वैशिकः (vaizikaH)

 
Apte Hindi
Hindi
वैशिकः
पुं*
- -
"जो वेश्याओं के साहचर्य में रहता है, शृङ्गार-साहित्य में पाया जाने वाला एक नायक"
शब्दकल्पद्रुमः
Sanskrit
वैशिकः,
पुं,
(वेशेन जीवतीति वेश + “वेतना-दिभ्यो जीवति ।” १२ इति ठक् ।)त्रिविधनायकान्तर्गतनायकविशेषः यथा, --शृङ्गारस्य उभयसाध्यत्वान्नायकोऽपि निरूप्यते ।स त्रिविधः पतिरुपपतिर्व्वैशिकश्च बहु-वेश्याभोगोपरसिको वैशिकः यथा, --“काञ्चीकलक्वणितकोमलनाभिकान्तिंपारावतध्वनिविचित्रितकण्ठपालिम् ।उद्भ्रान्तलोचनचकोरमनङ्गरङ्ग-माशास्महे कमपि वारविलासवत्याः
*
वैशिकस्तूत्तममध्यमाधमभेदात् त्रिविधः दयिता-श्रमप्रकोपे अपि उपचारपरायणः उत्तमः ।यथा, --“चक्षुःप्रान्तमुदीक्ष्य पक्ष्मलदृशः शोणारविन्द-श्रियंनोच्चैर्जल्पति स्मितं वितनुते गृह्णाति वीढींन वा ।तल्पोपान्तमुपेत्य किन्तु पुलकभ्राजत्कपोलद्युतिःकान्तः केवलमानतेन शिरसा मुक्तास्रजंगुम्फति
*
प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा नप्रकटयति चेष्टया मनोभावं गृह्णाति मध्यमः ।यथा, --“आस्यं यद्यपि हास्यवर्ज्जितमिदं लास्येन हीनंवचोनेत्रं शोणसरोषकान्तिरुचिरे क्वापि क्षणंस्थीयते ।मालायाः करणोद्यमो कविकारम्भः कुचा-म्भोजयो-र्घूपः कुन्तलधोरणीषु सुतनोः सायन्तनोदृश्यते
*
भयकृपालज्जाशून्यः कामक्रीडायामकृतकृत्या-कृत्यविचारोऽधमः यथा, --“उदयति हृदि नैव यस्य लज्जान करुणा कोऽपि भीतिलेशः ।वकुलमुकुलकोषकोमलां मांपुनरपि तस्य करेण सातयेथाः
*
मानी चतुरः शठ एवान्तर्भवति मानी यथा, “बाह्याकूतपरायणं तव वचो वज्रोपमेयं मनःश्रुत्वा वाचमिमामपास्य विनयं व्याजाद्बहिःप्रस्थिते ।प्रातर्व्वक्रविलोकने परिहृतालापे विवृत्ताननेप्राणेशे नियतं पतन्ति कृपणा वामभ्रुवोदृष्टयः
”वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः वचनव्यङ्ग्य-समागमो यथा, --“तमोजटाले हरिदन्तरालेकाले निशायास्तव निर्गतायाः ।तटे नदीनां निकटे वनानांघटेत शातोदरि ! कः सहायः
”चेष्टाव्यङ्गसमागमो यथा, --“कान्ते कनकजम्बीरं करे कमपि कुर्व्वति ।अगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ
”इति रसमञ्जरी
(वेशसम्बन्धिनि, त्रि यथा, मृच्छकटिके ।१ अङ्के ।“ऋग्वेदं सामवेदं गणितमथ कलां वैशिकींहस्तिशिक्षांज्ञात्वा शर्व्वप्रासादात् व्यपगततिमिरे चक्षुषीचोपलभ्य
”)