| YouTube Channel

वैराग्यं (vairAgyaM)

 
Apte 1890
English
वैराग्यं [विरागस्य भावः ष्यञ्] 1 Absence of worldly desires or passions, indifference to the world, asceticism
अभ्यासेन कौंतेय वैराग्येण गृह्यते Bg. 6. 35, 13. 8.
2 Dissatistaction, displeasure, discontent
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः R. 17. 55.
3 Aversion, dislike.
4 Grief, sorrow.
Hindi
Hindi
त्याग
शब्दकल्पद्रुमः
Sanskrit
वैराग्यं,
क्ली,
(विरागस्य भावः विराग +ष्यञ् ।) विषयतुच्छधीः यथा, --“ज्ञानवैराग्ययोर्भक्तिप्रवेशायोपयोगिता ।ईषत् प्रथममेवेति नाङ्गत्वमुचितं तयोः
यदुभे चित्तकाठिन्यहेतू प्रायः सतां मते ।सुकुमारस्वभावेयं भक्तिस्तद्धेतुरीरिता
”यथा एकादशस्कन्धे ।“तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।न ज्ञानं वैराग्यं प्रायः श्रेयो भवेदिह
”इति
किन्तु ज्ञानविरक्त्यादिसाध्यं भक्त्यैव सिद्ध्यति ।यथा तत्रैव ।“यत् कर्म्मभिर्यत्तपसा ज्ञानवैराम्यतश्च यत् ।योगेन दानधर्म्मेण श्रेयोभिरितरैरपि
सर्व्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति
रुचिमुद्वहतस्तत्र जनस्य भजने हरेः ।विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते
अनासक्तस्य विषयान् यथार्हमुपयुञ्जतः ।निर्व्वन्धः कृष्णसम्बन्धे युक्तं वैराग्यमुच्यते
प्रापञ्चिकतया बुद्ध्या हरिसम्बन्धिवस्तुनः
मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते
”इति भक्तिरसामृतसिन्धौ पूर्व्वभागे साधन-लहरी