| YouTube Channel

वैनाशिकं (vainAzikaM)

 
शब्दकल्पद्रुमः
Sanskrit
वैनाशिकं,
क्ली,
(विनाशं सूचयतीति विनाश +ठक् ।) नाडीनक्षत्रविशेषः तु जन्मर्क्षा-वधित्रयोविंशनक्षत्रम् यथा जन्माद्यं कर्म्मततोऽपि दशमं सांघातिकं षोडशभम् समु-दयमष्टादशभं विनाशसंज्ञं त्रयोविंशं आद्यात्तुपञ्चविंशं मानसमेवं नरः षडृक्षः स्यात्
तत्फलं यथा, --“ईहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे
मूर्त्तिद्रविणबन्धूनां हानिः सांघातिके तथा ।संतप्ते सामुदयिके मित्रभृत्यार्थसंक्षयः
वैनाशिके विनाशः स्यात् देहद्रविणसम्पदाम्
”इति ज्योतिस्तत्त्वम्
निधनतारा यथा, --“वैनाशिकर्क्षे दृष्टं ग्रहणं सुधांशुभास्करयोः ।जनयति रोगं बहुधा क्लेशं वित्तक्षयञ्चाशु
”वैनाशिकर्क्षे त्रयोविंशनक्षत्रे इति केचित् ।वस्तुतस्तु वैनाशिकपदं निंधनतारापरम् निधने-ऽपि चेत्येकवाक्यत्वात् इति तिथ्यादितत्त्वम्