| YouTube Channel

वैधृतिः (vaidhRtiH)

 
Apte
English
वैधृतिः [vaidhṛtiḥ], 1 See वैधृतम्.
The Yoga star of the 27th lunar mansion.
Wordnet
Sanskrit
Synonyms:
वैधृतिः
noun
एकादशतमे मन्वन्तरे इन्द्रस्य नाम
"वैधृतेः उल्लेखः भागवतपुराणे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
वैधृतिः,
पुं,
विष्कम्भादिसप्तविंशतियोगान्तर्गतशेष-योगः तस्य त्याज्यत्वं यथा, --“परिघस्य त्यजेदर्द्धं सप्त शूले नाडिकाः ।गण्डव्याघातयोः षट् नव हर्षणवज्रयोः ।वैधृतिव्यतिपातौ समस्तौ परिवर्ज्जयेत्
”इति ज्योतिस्तत्त्वम्
*
तत्र जातफलं यथा, कोष्ठीप्रदीपे ।“मैत्रीविहीनः कुटिलः खलश्चमूर्खो दरिद्रः परवञ्चकश्च ।कुकर्म्मकर्त्ता परदारभर्त्ताभवेन्नरों वैधृतिलब्धजन्मा
”अमृतयोगे तस्य वर्ज्यत्वमवर्ज्यत्वञ्च यथा, --“यदि वृष्टिव्यतीपातौ दिनं वाप्यशुभं भवेत् ।हन्यतेऽमृतयोगेन भास्करेण तमो यथा
हन्त्यमृताख्यो योगः सर्व्वाण्यशुभानि हेलयानियतम् ।न भवति पुनरिह शक्तो वैधृतिवृष्टिव्यतीपाते
”इति ज्योतिस्तत्त्वम्
(देवताविशेषः यथा, भागवते २९ ।“देवा वैधृतयो नाम विधृतेस्तनया नृप ।नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा
”)