| YouTube Channel

वैधहिंसा (vaidhahiMsA)

 
वाचस्पत्यम्
Sanskrit
वैधहिंसा स्त्री कर्म० वेदविहितहिंसायाम् “या वेदवि-हिता हिंसा नियताऽस्मिंश्चराचरे अहिंसामेव तांविद्यात् वेदात् धर्मो हि निर्बभौ” मनुः अत्र नियते-त्युपादानात् नित्ये पश्विष्ट्यादौ हिंसाया अहिंसात्वं नतु काम्येऽपीति सम्प्रदायविदः पिष्टपशुमीमांसायाञ्चतथैवोक्तं “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथा”मनुना सङ्गे कामनायां पिष्टपशूनामेव विधानात् ।विशेषतः कलौ “मांसदानं तथा श्राद्धे” “अश्वालम्भंगवालम्भम्” इति कलिवर्ज्येषूक्तेः काम्यबलिदानादिनिषेधः हिसाया अनर्थसाधनत्वेऽपि वैधहिंसाया अर्थ-साधनत्वम् वैद्यकोक्तसंस्कारभेदेन विषस्येवेति बोध्यम् ।ति० त० मतभेदेन वैधहिंसा उभयरूपत्वं निरूपितं यथा“मा हिंस्यात् सर्वाभूतानि” इत्यत्र सर्वशब्दस्य व्याप-कार्थपरतया एतद्विधिमनुलङ्घ्य “वायव्यं श्वेतमाल-भेत्” इत्यादिविधेर्विषयाप्राप्तेरगत्या वैधातिरिक्त-विषयत्वं सर्वा सर्वाणि छन्दसि वेत्यनेन तत्पदसिद्धम् यदपि नानादर्शनटीकाकृद्भिर्वाचस्पतिमिश्रैस्त-त्त्वकौमुद्यामभिहितं “न मा हिंस्यात् सर्वा भू-तानि” इति सामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषो-मीयं पशुमालभेत” इत्यनेन बाध्यते इति वाच्यं विरो-धाभावात् विरोधे हि बलीयसा दुर्बलं बाध्यते नचास्ति विरोधः भिन्नविषयत्वात् तथा हि माहिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यतेन पुनरक्रत्वर्थत्वमपि अग्नीषोमीयं पशुमालभेतेत्यनेन तुपशुहिंसायाः क्रत्वर्थत्वमुच्यते त्वनर्थहेतुभावस्तथा सतिवाक्यभेदप्रसङ्गात् चानर्थहेतुत्वक्रतूपकारकत्वयोःकश्चिदस्ति विरोधः हिंसा हि पुरुषस्य दोषमावक्ष्यतिक्रतोश्चोपकरिष्यतीत्यन्तेन, तदपि सांख्यनये मीमां-सकमते तु विरोध एव तथा हि गुरुनये खलु सर्व-भूतहिंसाभावविषयकं कार्य्यम् इति निषेधविध्यर्थस्य बाधंविना अग्नीषोमीयपश्वालम्मनविषयकं कार्य्यमिति भाव-विध्यर्थ उपपद्यते भट्टनये तु अङ्गे यथा तथास्तु ।न मुख्यपशुयागे पुरुषार्थपशुहिंसनस्यार्थसाधनत्व-मनर्थसाधनत्वञ्चोपपद्यते विरोधात् वस्तुतस्तु अङ्गेऽपिविरोधोऽस्त्येव कुतो? विधेरेष स्वभावो यत् स्ववि-षयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगम-यति अन्यथाऽङ्गानां प्रधानोपकारकत्वमपि नाङ्गो-क्रियेत अर्थसाधनत्वं बलवदनिष्टामनूबन्धीष्टसाधनत्वम्अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं चानयोरेकत्रसमावेश इति अतएवोक्तं “तस्माद्यज्ञे बधोऽबधः”इति नन्वेवं “श्येनेनाभिचरन् यजेत” इत्यत्र श्ये-नस्य शत्रुबधरूपेष्टसाध वमवगतम “अभिचारो मूल-कर्म च” इति मनूना उपपातकगणमध्य पाठादनिष्ट-सावनत्वमवगतम् तदेतत् कथमुपपद्यतामिति चेन्मैवं“आततायिनमायान्तं हन्यादेवाविचारयन्” इत्येक०वाक्यतया आततायिस्थले इष्टसाधनत्वम् अनाततायि-स्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध इतिगुरुचरणाः”