वैधः (vaidhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवैधः, त्रि, (विधिना बोधितः । विधि + अण् ।)विधिबोधितः । यथा । अदृष्टार्थैकजातीय-कर्म्मणः कालदेशकर्त्रादीनां प्रयोगानुबन्धवैध-हेतुभूतानामभेदे उद्दिश्यविशेषाग्रहः । इतिप्रायश्चित्ततत्त्वम् ॥
* ॥
अथ वैधहिंसाविचारः ।“मा हिंस्यात् सर्व्वा भूतानि इत्यत्र सर्व्वशब्दस्यव्यापकार्थपरतया एतद्विधिमनुल्लङ्घ्य वायव्यंश्वेतमालभेत । इत्यादिविधेर्विषयाप्राप्तेरगत्यावैधातिरिक्तविषयत्वम् । सर्व्वाः सर्व्वाणि छन्दसिवा इत्यनेन तत् पदं सिद्धम् । यदपि नाना-दर्शनटीकाकृद्भिर्व्वाचस्पतिमिश्रैस्तत्त्वकौमुद्याम-भिहितम् । ‘न च मा हिंस्यात् सर्व्वा भूतानिइति सामान्यशास्त्रं विशेषशास्त्रेण अग्नीसोमीयंपशुमालभेत इत्यनेन वाध्येत इति वाच्यंविरोधाभावात् । विरोधे हि बलीयसा दुर्ब्बलंवाध्यते । न चास्ति विरोधः भिन्नविषयत्वात् ।तथा हि । मा हिंस्यादिति निषेधेन हिंसायाअनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि ।न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्तिविरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यतिक्रतोश्च उपकरिष्यति’ इत्यन्तेन । तदपि सांख्य-नये । मीमांसकमते तु विरोध एव । तथा हि ।गुरुनये न खलु सर्व्वभूतहिंसाभावविषयकंकार्य्यमिति निषेधविध्यर्थस्य वाधं विना अग्नी-सोमीयपश्वालम्भनविषयकं कार्य्यमिति भाव-विध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथातथास्तु । न च मुख्यपशुयागे पुरुषार्थे पशु-हिंसनस्यार्थसाधनत्वमनर्थ-साधनत्वञ्चोपपद्यतेविरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येवकुतः विधेरेष स्वभावो यः स्वविषयस्य साक्षात्परम्परया वा पुरुषार्थसाधनत्वमवगमयति ।अन्यथा अङ्गानां प्रधानोपकारकत्वमपि नाङ्गी-क्रियते । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट-साधनत्वं अनर्थसाधनत्वं बलवदनिष्टसाधनत्वंन चानयोरेकत्र समावेश इति । अतएवोक्तंतस्माद्यज्ञे वधोऽवधः इति । नन्वेवं श्येनेनाभि-चरन् यजेत इत्यत्र श्येनस्य शत्रुवधरूपेष्ट-साधनत्वमवगतम् । अभिचारो मूलकर्म्म चइति मनुना उपपातकगणमध्ये पाठादनिष्ट-साधनत्वमवगतम् । तदेतत् कथमुपपद्यतामितिचेन्मैवम् । आततायिनमायान्तं हन्यादेवा-विचारयन् इत्येकवाक्यतया आततायिस्थलेइष्टसाधनत्वं अनाततायिस्थले तूपपातकत्वेनबलवदनिष्टसाधनत्वमित्यविरोध इति । गुरु-चरणा अप्येवम् ।” इति तिथ्यादितत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
