| YouTube Channel

वैद्यकं (vaidyakaM)

 
शब्दकल्पद्रुमः
Sanskrit
वैद्यकं,
क्ली,
आयुर्व्वेदः चिकित्साशास्त्रम् ।यथा, --“यस्य व्याकरणे वरेण्यघटनास्फीताः प्रबन्धादशप्रख्याता नव वैद्यकेऽपि तिथिनिर्द्धारार्थमेको-ऽद्भुतः ।साहित्ये त्रय एव भागवततत्त्वोक्तौ त्रयस्तस्य भु-व्यन्तर्व्वाणि शिरोमणेरिह गुणाः के के नलोकोत्तराः
”इति मुग्धबोधव्याकरणशेषे वोपदेवप्रशंसा-श्लोकः
*
तच्छास्त्रकृन्नामानि यथा, --“ऋग्यजुःसामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजा-पतिः ।विचिन्त्य तेषामर्थञ्चैवायुर्व्वेदं चकार सः
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।स्वतन्त्रसंहितां तस्माद्भास्करश्च चकार सः
भास्करश्च स्वशिष्येभ्य आयुर्व्वेदं स्वसंहिताम् ।प्रददौ पाठयामास ते चक्रुः संहितास्ततः
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि ।व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय
धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ ।नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः
जावालो जाजलिः पैलः कवथोऽगस्त्य एव ।एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः
*
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम् ।धन्वन्तरिश्च भगवांश्चकार प्रथमे सति !
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः
चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ ।तन्त्रं वैद्यकसर्व्वस्वं नकुलश्च चकार सः
चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनम् ।ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः
च्यवनो जीवदानञ्च चकार भगवानृषिः ।चकार जनको योगी वैद्यसन्देहभञ्जनम्
सर्व्वसारं चन्द्रसुतो जावालस्तन्त्रसारकम् ।वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः
पैलो निदानं कवथस्तन्त्रं सर्व्वधरं परम् ।द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः
चिकित्साशास्त्रबीजानि तन्त्राण्येतानि षोडश ।व्याधिप्रणाशबीजानि बलाधानकराणि
मथित्वा ज्ञानमन्थानैरायुर्व्वेदपयोनिधिम् ।ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् ।आयुर्व्वेदं सर्व्वबीजं सर्व्वं जानामि सुन्दरि !
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः