वैद्यक (vaidyaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English वैद्यक vaidyaka medical
वैद्यक vaidyaka physician
वैद्यक vaidyaka science of medicine
Apte
Englishवैद्यकः [vaidyakḥ], A doctor, physician. -कम् The science of medicine.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiवैद्यकः
- वैद्य + कन्
"वैद्य, चिकित्सक"
वैद्यकम्
- -
चिकित्साविज्ञान
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritवैद्यकं, आयुर्व्वेदः । चिकित्साशास्त्रम् ।यथा, --“यस्य व्याकरणे वरेण्यघटनास्फीताः प्रबन्धादशप्रख्याता नव वैद्यकेऽपि तिथिनिर्द्धारार्थमेको-ऽद्भुतः ।साहित्ये त्रय एव भागवततत्त्वोक्तौ त्रयस्तस्य भु-व्यन्तर्व्वाणि शिरोमणेरिह गुणाः के के नलोकोत्तराः ॥
”इति मुग्धबोधव्याकरणशेषे वोपदेवप्रशंसा-श्लोकः ॥
* ॥
तच्छास्त्रकृन्नामानि यथा, --“ऋग्यजुःसामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजा-पतिः ।विचिन्त्य तेषामर्थञ्चैवायुर्व्वेदं चकार सः ॥
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।स्वतन्त्रसंहितां तस्माद्भास्करश्च चकार सः ॥
भास्करश्च स्वशिष्येभ्य आयुर्व्वेदं स्वसंहिताम् ।प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च ।व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय ॥
धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ ।नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ॥
जावालो जाजलिः पैलः कवथोऽगस्त्य एव च ।एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥
* ॥
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम् ।धन्वन्तरिश्च भगवांश्चकार प्रथमे सति ! ॥
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः ॥
चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ ।तन्त्रं वैद्यकसर्व्वस्वं नकुलश्च चकार सः ॥
चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनम् ।ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः ॥
च्यवनो जीवदानञ्च चकार भगवानृषिः ।चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥
सर्व्वसारं चन्द्रसुतो जावालस्तन्त्रसारकम् ।वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः ॥
पैलो निदानं कवथस्तन्त्रं सर्व्वधरं परम् ।द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥
चिकित्साशास्त्रबीजानि तन्त्राण्येतानि षोडश ।व्याधिप्रणाशबीजानि बलाधानकराणि च ॥
मथित्वा ज्ञानमन्थानैरायुर्व्वेदपयोनिधिम् ।ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः ॥
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् ।आयुर्व्वेदं सर्व्वबीजं सर्व्वं जानामि सुन्दरि ! ॥
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥
वाचस्पत्यम्
Sanskritवैद्यक वैद्यं चिकित्सकमधिकृत्य कृतो ग्रन्थः कन् । आयुर्वेदे“ऋग्यजुःसामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः ।विचिन्त्य तेषामर्थञ्चैवायुर्वेदं चकार सः । कृत्वा तु प-ञ्चमं वेदं भास्कराय ददौ विभुः । स्वतन्त्रां संहितांतस्माद् भास्करश्च चकार सः । भास्करश्च स्वशिष्येभ्यआयुर्वेदं स्वसंहिताम् । प्रददौ पाठयामास ते चक्रुःसंहितास्ततः । तेषां नामानि विदुषां तन्त्राणि तत्कृ-तानि च । व्याधिप्रणाशवीजानि साध्वि! मत्तो निशा-मय । धनन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ । न-कुलः सहदेवार्की च्यवो जनको बुधः । जाबालोजाजलिः पैलः कवथोऽगस्त्य एव च एते वेदाङ्गवेदज्ञाःषोडश व्याधिनाशकाः । चिकित्सातत्त्वविज्ञानं नामतन्त्रं मनोरमम् । धन्वन्तरिश्च भववांश्चकार प्रथमेसति! । चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।चिकित्साकौनुदीं दिव्यां काशीराजश्चकार सः । चि-कित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ । तन्त्रं वैद्यकसर्वस्वं नकुलश्च चकार सः । चकार सहदेवश्च व्याधि-सिन्धुविमर्दनम् । ज्ञानार्णवं महातन्त्रं यमराजश्चकारसः । च्यवनो जीवदानञ्च चकार भगवानृषिः । च-कार जनको योगी वैद्यसन्देहमञ्जनम् । सर्वसारंचन्द्रसुतो जावालस्तन्त्रसारकम् । वेदाङ्गसारं तन्त्रञ्चचकार जाजलिर्मुनिः । पैलो निदानं कवथस्तन्त्रंसर्वधरं परम् । द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ।चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोडश । व्या-धिप्रणाशवीजानि वलाधानकराणि च । मथित्वाज्ञानमन्थानैरायुर्वेदपयोनिधिम् । ततस्तन्त्राण्युदहरन्नवनीतानि कोविदाः । एतानि क्रमशो दृष्ट्वा दिव्यांभास्करसंहिताम् । आयुर्वेदसर्ववीजं सर्वं जानामिसुन्दरि!” ब्रह्मवै० १६ अ० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
