वैद्य (vaidya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishवैद्य (-द्यः-द्यी-द्यं)
1. Medical, practising or relating to medicine.
2.
Relating or conformable to the Vedas.
(-द्यः)
1. A physician.
2.
A tree, (Justicia ganderussa, &c.)
3. A learned man.
4. A follower
of the Vedas, or one well in them.
5. A man of a mixed class,
the offspring of a Brāhmana by a Vaiśya woman.
(-द्या) A
drug, commonly KĀKOLĪ.
वेद the medical or Āyur-Vedas or
the Vedas in general, and यञ् or ष्यञ्
or विद्याऽस्त्यस्य अण् ।
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishवैद्य
(-द्यः-दी-द्यं)
1 Medical, practising or relating to medicine.
2 Relating or conformable to the Vedas.
(-द्यः)
1 A physician.
2 A tree, (Justicia ganderussa, &c.)
3 A learned man.
4 A follower of the Vedas, or one well read in them.
(-द्या) A
drug, commonly Kākoli.
वेद the medical or Āyur Vedas, or the Vedas in general, and
यञ् or ष्यञ्
Apte
Englishवैद्य [vaidya], (-द्यी )
Relating to the Vedas, spiritual.
Relating to medicine, medical. -द्यः [विद्या अस्त्यस्य अण्]
A learned man, scholar, doctor.
A medical man, physician
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् 19. 53
वैद्यानामातुरः श्रेयान् Subhaṣ.
A man of the medical caste, supposed to be one of the mixed classes
(the offspring of a Brāhmaṇa by a Vaiśya woman). Cf. * 13.49.9.
A man of a lower mixed tribe (the offspring of a Śūdra father by Vaiśya mother).Comp. -क्रिया a doctor's profession, practice of medicine.
नाथः of Dhanvantari.
of Śiva.
of a country. -बन्धुः Cassia Fistula (Mar. बाहवा).-मातृ, -सिंहा Gendarussa Vulgaris (Mar. अड्ळसा).-विद्या the science of medicine
also वैद्यशास्त्रम्.
Apte 1890
Englishवैद्य a. (द्यी f.) 1 Relating to the Vedas, spiritual.
2 Relating to medicine, medical.
द्यः [विद्या अस्त्यस्य अण्] 1 A learned man, scholar, doctor.
2 A medical man, physician. वैद्ययत्नपरिभाविनं गदं न प्रदाप इव वायुमत्यगात् R. 19. 53
वैद्यानामातुरः श्रेयान् Subhāṣ.
3 A man of the medical caste, supposed to be one of the mixed classes
(the offspring of a Brāhmaṇa by a Vaiśya woman).
4 A man of a lower mixed tribe (the offspring of a Śūdra father by Vaiśya mother).
Comp.
क्रिया a doctor's profession, practice of medicine.
नाथः {1} N. of Dhanvantari. {2} of Śiva.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishवैद्य वैद्य, अस्, -दी, अम् (fr. वेद), relating
or belonging to the Vedas, conformable to the Vedas,
Vedic
medical, medicinal, practising or relating to
medicine [cf. आयुर्-वेद]
(अस्), m. a learned man,
doctor, Paṇḍit, a follower of the Vedas or one well
versed in them
a medical man, doctor, physician
a man of the medical caste (enumerated among the
mixed classes and originally the offspring of a Brāh-
man by a Vaiśya woman
he is also called Amba-
ṣṭha, Manu X. 8)
a man of another and lower
mixed caste (said to be the descendant of a Śūdra
father and Vaiśya mother
cf. चण्डाल, व्रात्य)
the tree Justicia Ganderussa
(आ), f. a particular
drug or medicinal substance (= काकोली).
—वैद्य-
क्रिया, f. the business of a physician.
—वैद्य-
नाथ, अस्, m. ‘lord of physicians, ’ epithet of Śiva
of Dhanvantari
of a poet
of a country.
—वैद्य-
बन्धु, उस्, m. the tree Cassia Fistula (= आरग्-
बध).
—वैद्य-भूषण, ‘ornament of phy-
sicians, ’ N. of a work by Rāmānanda-svāmin.
—वैद्य-मातृ, ता, f. the mother of a physician
the tree Justicia Ganderussa (= 1. वासक).
—वैद्य-
वल्लभ, अस्, m. ‘favourite with physicians, ’ N. of a
medical work on the treatment of fever by Śārṅgha-
dhara.
—वैद्य-सिंही, f. the plant Justicia Gande-
russa (= 1. वासक).
Macdonell
EnglishBenfey
Englishवैद्य वैद्य, i. e. वेद + य,
I.
1.
Relating to the Vedas, Lass. Pentap.
67, 43.
2. Relating to medicine, medical.
II.
1. A follower of the Vedas, or
one conversant with the Vedas.
2. A
learned man, Brāhmaṇav. 2, 1.
3. A
physician, Pañc. iii. d. 67.
--
विष-, a dealer in antidotes.
स्वर्-,
either of the Aśvins, the physi-
cians of the heaven.
Apte Hindi
Hindiवैद्य
वि* - वेद + यत्
"वेद सम्बन्धी, आध्यात्मिक"
वैद्य
वि* - वेद + यत्
"आयुर्वेद सम्बन्धी, आयुर्वेद विषयक"
वैद्यः
- विद्या अस्ति अस्य-विद्या + अण्
"विद्वान् पुरुष, विद्यावान्, पण्डित"
वैद्यः
- विद्या अस्ति अस्य-विद्या + अण्
"आयुर्वेदाचार्य, चिकित्सक"
वैद्यः
- विद्या अस्ति अस्य-विद्या + अण्
"वैद्य जाति का पुरुष, जो वर्णसङ्कर समझा जाता है "
L R Vaidya
EnglishBopp
LatinIndian Epigraphical Glossary
EnglishLanman
EnglishSanskrit Tibetan
Tibetankun mkhyen
१) आविद् २) वैद्य ३) सर्वज्ञ ४) सर्वविद्
skyon shes pa
वैद्य
sman pa
वैद्य
अभिधानचिन्तामणिः
Sanskritदोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।
रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥
भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।
उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
दोषज्ञ (पुं), भिषज् (पुं), वैद्य (पुं), आयुर्वेदिन् (पुं), चिकित्सक (पुं), रोगहारिन् (पुं), अगदङ्कार (पुं), भेषज (क्ली), तन्त्र (क्ली), औषध (क्ली), भैषज्य (क्ली), अगद (पुं), जायु (पुं), चिकित्सा (स्त्री), रुक्प्रतिक्रिया (स्त्री), उपचर्या (स्त्री), उपचार (पुं), लङ्घन (क्ली), अपतर्पण (क्ली)
अभिधानरत्नमाला
Sanskritआयुर्वेदिन्
आयुर्वेदिन्, भिषज्, वैद्य, दोषज्ञ, चिकित्सक
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।
verse 2.1.1.612
page 0069
Mahabharata
English*vaidya^1, adj. (“conversant with the Vedas”): I, 6143
II, 667
III, 11634
V, †800, 1491, 3456 (brāhmaṇāḥ), 4485
XII, 532, 2863, 2905, 3200 (brāhmaṇān), 8868, 9360
XIII, 1539, 1565, 5820.--Do.^2, mostly pl. (“physicians”): III, 70, 13856
V, 110, 5156 (cikitsakāḥ), 5181
VI, 5745, 5747, 5749
X, 113 (sg., yathā)
XII, 854, 878, 2654 (caturvidhān), 12542.--Do.^3, name of a caste: XIII, 2621 (Vrātya-Vºau, son of a śūdra and a vaiśyā).
Vaidya^4 (XIII, 7108). v. Raibhya.
Vaidya^5 = Śiva (1000 names^2).--Do.^6 = Vishṇu (1000 names).
पुराणम्
Englishवैद्य / VAIDYA. One of the sons born to varuṇa by his wife Sunādevī. His sons Ghṛṇi and muni fought with each other and died. (vāyu: 84: 6-8).
अमरकोशः
SanskritWord: वैद्यः
Root: वैद्य
Gender: पुं
Number: all
Meaning(s):
⇒ Vedic
⇒ Pandit
⇒ expert
⇒ doctor
⇒ learned
⇒ medical
⇒ medicinal
⇒ physician
⇒ learned man
⇒ versed in science
⇒ conformable to the Vedas
⇒ skilled in the art of healing
⇒ practising or relating to medicine
⇒ relating or belonging to the Vedas
⇒ follower of the Vedas or one well versed in them
⇒ willow-leaved justicia shrub [Gendarussa Vulgaris - Bot.]
Shloka(s):
2|6|57|1 ► रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|57|1 ⇢ रोगहारी (रोगहारिन्) (पुं)
➠ 2|6|57|1 ⇢ अगदङकारः (अगदङ्कार) (पुं)
➠ 2|6|57|1 ⇢ भिषक् (भिषज्) (पुं) ⇒ healer, curing, remedy, doctor, healing, medicine, sanative, physician
➠ 2|6|57|1 ⇢ वैद्यः (वैद्य) (पुं) ⇒ Vedic, Pandit, expert, doctor, learned, medical, medicinal, physician, learned man, versed in science, conformable to the Vedas, skilled in the art of healing, practising or relating to medicine, relating or belonging to the Vedas, follower of the Vedas or one well versed in them, willow-leaved justicia shrub [Gendarussa Vulgaris - Bot.]
➠ 2|6|57|1 ⇢ चिकित्सकः (चिकित्सक) (पुं)
Related word(s):
परा_अपरासंबन्धः ➡ मनुष्यः
अन्यसंबन्धाः ➡ रोगी
उपजीव्य_उपजीवक_भावः ➡ रोगनिवारणः
जातिः ➡ मनुष्यः
उपाधि ➡ वृत्तिः
शब्दकल्पद्रुमः
Sanskritवैद्यः, (विद्यां वेदेति । विद्या + “तदधीतेतद्वेद ।” ४ । २ । ५९ । इति अण् ।) पण्डितः ।यथा । कात्यायनः ।“नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् ।समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ॥
”वैद्येन विदुषा । इति दायतत्त्वम् ॥
वासकवृक्षः ।इति शब्दचन्द्रिका ॥
आयुर्व्वेदवेत्ता । स चाम्बष्ठ-जातिश्चिकित्सावृत्तिश्च । तत्पर्य्यायः । रोग-हारी २ अगदङ्कारः ३ भिषक् ४ चिकित्सकः५ । इत्यमरमरतौ ॥
स्रष्टा ६ विधिः ७ विद्वान्८ आयुर्व्वेदी ९ । इति राजनिर्घण्टः ॥
स चतु-र्व्विधः । रोगहरः १ विषहरः २ शल्यहरः ३कृत्याहरः ४ । इति महाभारते राजधर्म्मः ॥
अस्योत्पत्तिर्यथा, --“वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति ।वैद्यवीर्य्येण शूद्रायां बभूवुर्ब्बहवो जनाः ॥
ते च ग्रामगुणज्ञाश्च मन्त्रौषधिपरायणाः ।तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो भुवि ॥
शौनक उवाच ।कथं ब्राह्मणपत्न्यान्तु सूर्य्यपुत्त्रोऽश्विनीसुतः ।अहो केन विपाकेन वीर्य्याधानं चकार सः ॥
सौतिरुचाच ।गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं कुरुनन्दन ।ददर्श कामुकीं कान्तः पुष्पोद्याने मनोहरे ॥
तया निवारितो यत्नात् बलेन बलवान् सुरः ।अतीव सुन्दरीं दृष्ट्वा वीर्य्याधानं चकार सः ॥
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोरमे ।सद्यो बभूव पुत्त्रश्च तप्तकाञ्चनसन्निभः ॥
सपुत्त्रा स्वामिनो गेहं जगाम व्रीडिता तदा ।स्वामिनं कथयामास यस्माद्दैवादिसङ्कटम् ।विप्रो रोषेण तत्याज तञ्च पुत्त्रं स्वकामिनीम् ।सरिद्बभूव योगेन सा च गोदावरी स्मृता ॥
पुत्त्रं चिकित्साशास्त्रञ्च पाठयामास यत्नतः ।नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः ॥
विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम् ।वेदधर्म्मपरित्यक्तो बभूव गणको भुवि ॥
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥
* ॥
नरकभोगान्ते वैद्यजन्म यथा, --“यः करोत्यपहारञ्च देवब्राह्मणयोर्धनम् ।पातयित्वा स्वपुरुषान् दश पूर्व्वान् दशापरान् ॥
स्वयं याति च धूमान्धं धूमध्वान्तसमन्वितम् ।धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम् ॥
ततो मूषिकजातिश्च शतजन्मनि भारते ।ततो नानाविधाः पक्षिजातयः कृमिजातयः ॥
ततो नानाविधा वृक्षजातयश्च ततो नरः ।भार्य्याहीनो वंशहीनः शवरो व्याधिसंयुतः ॥
ततो भवेत् स्वर्णकारः स सुवर्णबणिक् ततः ।ततो जवनसेवी च ब्राह्मणो गणकस्ततः ।विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः ॥
” *अपि च ।“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ।स याति नागवेष्टञ्च नागैर्व्वेष्टित एव च ।वसेत् स लोममानाब्दं तत्रैव नागदंशितः ॥
ततो भवेत् स गणको वैद्यश्च सप्तजन्मसु ।गोपश्च कर्म्मकारश्च रङ्गकारस्ततः शुचिः ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २८ अध्यायः ॥
* ॥
राजवैद्यस्य लक्षणं यथा, --“परं पारं गतो यः स्यादष्टाङ्गे तु चिकित्सिते ।अनाहार्य्यः स वैद्यः स्याद्धर्म्मात्मा च कुलो-द्गतः ।प्राणावार्य्यः स विज्ञेयो वचनं तस्य भूभुजः ।राजन् राज्ञा सदा कार्य्यं यथा कार्य्यं पृथग्-जनैः ॥
”इति मात्स्ये १८९ अध्यायः ॥
* ॥
सामान्यवैद्यलक्षणं यथा, --“चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते ।स च यादृक् समीचीनस्तादृशोऽपि निगद्यते ॥
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती ।लघुहस्तः शुचिः शूरः स्वच्छोपस्करभेषजः ॥
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी प्रियंवदः ।सत्यधर्म्मपरो यश्च वैद्य ईदृक् प्रशस्यते ॥
”दृष्टकर्म्मा दृष्टा परेण कृता चिकित्सा येन सः ।स्वयंकृती स्वयंचिकित्साकुशलः । लघुहस्तःसिद्धिमद्धस्तः ॥
* ॥
निषिद्धवैद्यो यथा, --“कुचेलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः ।पञ्च वैद्या न पूज्यन्ते घन्वन्तरिसमा अपि ॥
”कर्कशः अप्रियवादी । स्तब्धः साभिमानः ।ग्रामीणः व्यवहाराचतुरः ॥
* ॥
अथ वैद्यस्य कर्म्म आह ।“व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥
”अस्यायमर्थः । व्याधेः सम्यक् परिचयः । व्यथा-शान्तिकरणं वैद्यस्य कर्म्म । न तु वैद्यः आयुषःप्रभुरित्यर्थः । अपरे त्वेवं व्याचक्षते । व्याधे-स्तत्त्वपरिचयः । वेदनायाः शान्तिकरणञ्च ।एतदेव वैद्यस्य वैद्यत्वं न किन्तु वैद्य आयुषःप्रभुरित्यर्थः ॥
* ॥
अथ वैद्यानयनदूतस्य लक्षणम् ।“यश्चिकित्सकमानेतुं याति दूतः स कथ्यते ।स च यादृक् समुचितस्तादृगत्र निगद्यते ॥
दूताः सुजातयोऽव्यङ्गाः पटवो निर्म्मलाम्बराः ।सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ॥
सजातयः सुचेष्टाश्च स्वजीवदिशि सङ्गताः ।भिषजं समये प्राप्ता रोगिणः सुखहेतवः ॥
”सजातयः रोगिसमानजातयः ।“यस्यां प्राणमरुद्वाति सा नाडी जीव-संश्रिता ॥
” * ॥
अथ दूतयात्रायां शकुनविचारः ।“वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते ।न शुभं सौम्यशकुनप्रदीप्तन्तु सुखावहम् ॥
”प्रदीप्तमग्निः । दूतो रोगी च रिक्तहस्तो वैद्यंन पश्येत् । तथा च ।“रिक्तहस्तो न पश्येत्तु राजानं भिषजं गुरुम् ।”अथ आयुर्व्विदां प्रादुर्भावः । तत्रादौ ब्रह्म-प्रादुर्भावः ।“विधाताथर्व्वसर्व्वस्वमायुर्व्वेदं प्रकाशयन् ।स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम् ॥
ततः प्रजापतिं दक्षं दक्षं सकलकर्म्मसु ।विधिर्धीनीरधिः साङ्गमायुर्व्वेदमुपादिशत् ॥
” * ॥
अथ दक्षप्रादुर्भावः ।“अथ दक्षः क्रियादक्षः स्वर्व्वैद्यौ वेदमायुषः ।वेदयामास विद्वांसौ सूर्य्यांशौ सुरसत्तमौ ॥
” * ॥
अथाश्विनीसुतप्रादुर्भावः ।“दक्षादधीत्य दस्रौ वितेनतुः संहितां स्वीयाम् ।सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ॥
स्वयम्भु वः शिरश्छिन्नं भैरवेण रुषाथ तत् ।अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ ॥
देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः ।अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत् ॥
वज्रिणोऽभूद्भुजस्तम्भः स दस्राभ्यां चिकित्सितः ।सोमान्निपतितश्चन्द्रस्ताभ्यामेव सुखीकृतः ॥
विशीर्णा दशनाः पुष्णो नेत्रे नष्टे भगस्य च ।शशिनो राजयक्ष्माभूदश्विभ्यां ते चिकित्सिताः ॥
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।वीर्य्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा ॥
एतैश्चान्यैश्च बहुभिः कर्म्मभिर्भिषजां वरौ ।बभूवतुर्भृशं पूज्याविन्द्रादीनां दिवौकसाम् ॥
” *अथेन्द्रप्रादुर्भावः ।“संदृश्य दस्रयोरिन्द्रः कर्म्माण्येतानि यत्नवान् ।आयुर्व्वेदं निरुद्वेगं तौ ययाचे शचीपतिः ॥
नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ ।आयुर्व्वेदं यथाधीतं ददतुः शतमन्यवे ॥
नासत्याभ्यामधीत्यैष आयुर्व्वेदं शतक्रतुः ।अध्यापयामास बहूनात्रेयप्रमुखान् मुनीन् ॥
” *अथात्रेयप्रादुर्भावः ।“एकदा जगदालोक्य गदाकुलमितस्ततः ।चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः ॥
किं करोमि क्वगच्छामि कथं लोका निरामयाः ।भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम् ॥
दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः ।एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम् ॥
आयुर्व्वेदं पठिष्यामि नैरुज्याय शरीरिणाम् ।इति निश्चित्य गतवानात्रेयस्त्रिदशालयम् ॥
तत्र मन्दिरमिन्द्रस्य गत्वा शक्रं ददर्श सः ।सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः ॥
भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा ।आयुर्व्वेदमहाचार्य्यं शिरोधार्य्यं दिवौकसाम् ॥
शक्रस्तु तं निरीक्ष्यैव त्यक्तसिंहासनो ययौ ।तदग्रे पूजयामास भृशं भूरितपःकृशम् ॥
कुशलं परिपप्रच्छ तथागमनकारणम् ।स मुनिर्व्वक्तुमारेभे निजागमनकारणम् ॥
देवराज न राजासि दिव एव यतो भवान् ।विधात्रा विहितो यत्नात्त्रिलोकी लोकपालकः ॥
व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः ।भूतेले सन्ति सन्तापं तेषां हर्त्तुं कृपां कुरु ॥
आयुर्व्वेदोपदेशं मे कुरु कारुण्यतो नृणाम् ।तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम् ॥
मुनीन्द्र इन्द्रतः साङ्गमायुर्व्वेदमधीत्य सः ।अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम् ॥
अथात्रेयो मुनिश्रेष्ठो भगवान् करुणापरः ।स्वनाम्ना संहितां चके नरचक्रानुकम्पया ॥
ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम् ।क्षीरपाणिञ्च हारीतमायुर्व्वेदमपाठयत् ॥
तन्त्रस्य कर्त्ता प्रथममग्निवे शोऽभवत् पुरा ।ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च ॥
श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम् ।श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः ॥
यथावत् सूत्रितं तस्मात् प्रहृष्टा मुनयोऽभवन् ।दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन् ॥
”अथ भरद्बाजप्रादुर्भावः ।“एकदा हिमवत्पार्श्वे दैवादागत्य संगताः ।मुनयो बहवस्तांश्च नामभिः कथयाम्यहम् ॥
भरद्वाजो मुनिवरः प्रथमं समुपागतः ।ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ ॥
पुलस्त्योऽगस्तिरसितो वशिष्ठः सपराशरः ।हारीतो गोतमः सांख्यो मैत्रेयश्च्यवनोऽपि च ॥
यमदग्निश्च गार्ग्यश्च काश्यपः कश्यपोऽपि च ।नारदो वामदेवश्च मार्कण्डेयः कपिष्ठलः ॥
शाण्डिल्यः सहकौण्डिन्यः शाकुनेयः सशौनकः ।आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षितः ॥
देवलो गालवो धौम्यः काप्यकात्यायनावुभौ ।काङ्कायनो वैजवापः कुशिको वादरायणिः ॥
हिरण्याक्षश्च लोकाक्षिः शरलोमा च गोभिलः ।वैखानसा वालखिल्लास्तथैवान्ये महर्षयः ॥
ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च ।तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ॥
सुखोपविष्टास्ते तत्र सर्व्वे चक्रुः कथामिमाम् ।धर्म्मार्थकाममोक्षाणां मूलमुक्तकलेवरम् ॥
तत्र सर्व्वार्थसंसिद्ध्यैभवेद्यदि निरामयम् ।तपःस्वाध्यायधर्म्माणां ब्रह्मचर्य्यव्रतायुषाम् ॥
हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्व्वतः ।रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टा-हरा-दृश्यादीन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडा-कराः ।धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपाबलात्प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतःप्राणिनाम् ॥
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भि-र्ब्बुधै-र्योगैरित्यभिधाय संसदि भरद्बाजं मुनिं तेऽब्रु-वन् ।त्वं योग्यो भगवान् सहस्रनयनं याचस्व लब्धुंक्रमात्आयुर्व्वेदमधीत्य यं गदभयान्मुक्ता भवामोवयम् ॥
इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः ।भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम् ॥
तत्रेन्द्रभवनं गत्वा सुरर्षिगणमध्यगम् ।दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम् ॥
दृष्ट्वैव स मुनिं प्राह भगवान् मघवा मुदा ।धर्म्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत् ॥
सोऽधिगम्य जयाशीर्भिरभिवन्द्य सुरेश्वरम् ।ऋषीणां वचनं सम्यगश्रावयत सत्तमम् ॥
व्याधयो हि समुत्पन्नाः सर्व्वप्राणिभयङ्कराः ।तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि ॥
तमुवाच मुनिं साङ्गमायुर्व्वेदं शतक्रतुः ।जीवेद्बर्षसहस्राणि देही नीरुङ्निशम्य यम् ॥
सोऽनन्तागारं त्रिस्कन्धमायुर्व्वेदं महामतिः ।यथावदचिरात् सर्व्वं बुबुधे तन्मना मुनिः ॥
तेनायुः सुचिरं लेभे भरद्वाजो निरामयम् ।अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः ॥
तत्तत्र जनितज्ञानचक्षुषा ऋषयोऽखिलाः ।गुणान् द्रव्याणि कर्म्माणि दृष्ट्वा तद्विधि-माश्रिताः ॥
आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम् ।आयुर्व्वेदोक्तविधिनान्येऽपि स्युर्मुनयो यथा ॥
”अथ चरकप्रादुर्भावः ।“यदा मत्स्यावतारेण हरिणा वेद उद्धृतः ।तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान् ॥
अथर्व्वान्तर्गतं सम्यगायुर्व्वेदञ्च लब्धवान् ।एकदा स महद्वृत्तं द्रष्टुं चर इवागतः ॥
तत्र लोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान् ।स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान् ॥
तान् दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः ।अनन्तश्चिन्तयामास रोगोपशमकारणम् ॥
सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्त्रो बभूव ह ।यतश्चर इवायातो न ज्ञातः केनचिद्यतः ॥
तस्माच्चरकनामासौ विख्यातः क्षितिमण्डले ।स भाति चरकाचार्य्यो देवाचार्य्यो यथा दिवि ॥
सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः ।आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन् ॥
मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम् ।तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ।चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः ॥
”अथ धन्वन्तरिप्रादुर्भावः ।“एकदा देवराजस्य दृष्टिर्निपतिता भुवि ।तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ॥
तान् दृष्ट्वा हृदयं तस्य दयया परिपीडितम् ।यदार्द्रहृदयः शक्रो धन्वन्तरिमुवाच ह ॥
धन्वन्तरे सुरश्रेष्ठ भगवन् किञ्चिदुच्यते ।यीग्यो भवति भूतानामुपकारपरो भव ॥
उपाकाराय लोकानां केन किं न कृतं पुरा ।त्रैलोक्याधिपतिर्व्विष्णुरभून्मत्स्यादिरूपवान् ॥
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव ।प्रतीकाराय रोगाणामायुर्व्वेदं प्रकाशय ॥
इत्युक्त्वा सुरशार्दूलः सर्व्वभूतहितेप्सया ।समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ॥
अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा ।आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनिनाम्ना तु सोऽभवत् ख्यातो दिवोदास इतिक्षितौ ।बाल एव विरक्तोऽभूच्चचार च महत्तपः ॥
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम् ।ततो धन्वन्तरिर्लौकैः काशीराजोऽभिधीयते ॥
हिताय देहिनां स्वीयसंहिता विहितामुना ।अयं विद्यार्थिनो लोकान् संहितां तामपाठ-यत् ॥
”अथ सुश्रुतप्रादुर्भावः ।“अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन् ।अयं धन्वन्तरिः काश्यां काशीराजोऽयमुच्यते ॥
विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् ।वत्स ! वाराणसीं गच्छ तां विश्वेश्वरवल्लभाम् ॥
तत्र नाम्ना दिवोदासः काशीराजोऽस्तिबाहुजः ।स हि धन्वन्तरिः साक्षादायुर्व्वेदविदां वरः ॥
आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे ।सर्व्वप्राणिदया तीर्थमुपकारो महामखः ॥
पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ ॥
अथ धन्वन्तरिं सर्व्वेवानप्रस्थाश्रमे स्थितम् ।भगवन्तं सुरश्रेष्ठं मुनिभिर्ब्बहुभिः स्तुतम् ॥
काशीराजं दिवोदासं तेऽपश्यन् विनयान्विताः ।स्वागतञ्च इति स्माह दिवोदासो यशोधनः ॥
कुशलं परिपप्रच्छ तथागमनकारणम् ।ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् ॥
भगवन् मानवान् दृष्ट्वा व्याधिभिः परिपीडितान् ।क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा ॥
आमयानां शमोपायं विज्ञातुं वयमागताः ।आयुर्व्वेदं भवानस्मानध्यापयतु यत्नतः ॥
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् ।व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा ॥
काशीराजं जयाशीर्भिरभिनन्द्य मुदान्विताः ।सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् ॥
प्रथमं सुश्रुतस्तेषु स्वं तन्त्रं कृतवान् स्फुटम् ।सुश्रुतस्य सखायोऽपि पृथक् तन्त्राणि तेनिरे ।सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः ।तस्मात्तं सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले ॥
”इति भावप्रकाशः ॥
अथ मतान्तरे वैद्योत्पत्तिकथनम् ।“सत्यत्रेताद्वापरेषु युगेषु ब्राह्मणाः किल ।ब्रह्मक्षत्त्रियविट्शूद्रकन्यका उपयेमिरे ॥
तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी ।सर्व्वे ते मुनयः ख्याता वेदवेदाङ्गपारगाः ॥
तेषां मुख्योऽमृताचार्य्यस्तस्थावम्बा कुले हि तत् ।अम्बष्ठ इत्यसावुक्तस्ततो जातिप्रवर्त्तनात् ॥
परे सर्व्वेऽपि चाम्बष्ठा वैश्या ब्राह्मणसम्भवाः ।जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः ॥
अम्बष्ठास्तेन ते सर्व्वे द्विजा वैद्याः प्रकीर्त्तिताः ।अथ रुक्प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः ॥
सत्ये वैद्याः पितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः ।द्वापरे क्षत्त्रवत्प्रोक्ताः कलौ वैश्योपमाः स्मृताः ॥
अथाम्बष्ठेषु सर्व्वेषु विख्याता अभवन्नमी ।सेनो दासश्च गुप्तश्च दत्तो देवः करो धरः ॥
राजः सोमश्च नन्दिश्च कुण्डश्चन्द्रश्च रक्षितः ।एषां वंशाः समुत्पन्ना एतत्पद्धतयो मताः ॥
अन्यपद्धतयोऽप्येवं सन्ति वैद्या न ते श्रुताः ।बहवश्चैकनामानो नानागोत्रसमुद्भवाः ॥
यथाष्टौ विश्रुताः सेना इत्येवमपरे मताः ।यस्य यस्य मुनेर्यो यः सन्तानः स स विश्रुतः ॥
तत्तद्गोत्रादिना वैद्यः श्रैष्ठ्याद्यन्तु स्वकर्म्मणा ॥
”तथा हि ।“तिस्रो वर्णानुपूर्व्वेण द्वे तथैका यथाक्रमम् ।ब्राह्मणक्षत्त्रियविशां भार्य्याः स्वाः शूद्रजन्मनः ॥
यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः ।नैतन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥
पाणिं भर्त्तुः सवर्णासु गृह्णीयात् क्षत्त्रिया शरम् ।वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥
सवर्णेभ्यः सवर्णासु जायन्ते च सजातयः ।अनिन्द्येषु विवाहेषु पुत्त्राः सन्तानवर्द्धनाः ॥
विप्रान्मूर्द्धाभिषिक्तो हि क्षत्त्रियायां विशःस्त्रियाम् ।जातोऽम्बष्टस्तु शूद्रायां निषादः पार्श्ववोऽपि वा ॥
वैश्याशूद्र्योश्च राजन्यान्महिष्यौ द्वौ सुतौस्मृतौ ।वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥
”एते षट् श्लोका याज्ञवल्क्यीयाः ॥
“शूद्रैव भार्य्या शूद्रस्य सा च स्वा च विशःस्मृते ।ते च स्वा चैव राज्ञस्तु ताश्च स्वा चाग्रजन्मनः ॥
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥
शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।वसनस्य दशा ग्राह्याः शूद्रयोत्कृष्टवेदने ॥
”इति पद्यत्रयम् ॥
“ब्राह्मणाद्बश्यकन्यायामम्बष्ठो नाम जायते ॥
”इति च पद्यार्द्धं मानवीयम् ॥
“वैश्यायां ब्राह्मणाज्जातोऽम्बष्ठो हि नुनि-सत्तम ।ब्राह्मणानां चिकित्सार्थं निर्द्दिष्टो मुनिपुङ्गवैः ॥
”इति पराशरः ॥
“वेदाज्जातो हि वैद्यः स्यादम्बष्ठो ब्रह्मपुत्त्रकः ।”इति शङ्खः ॥
ब्रह्मा मूर्द्धाभिषिक्तश्च वैद्यः क्षत्त्रविशावपि ।अमी पञ्च द्बिजा एषां यथापूर्व्वञ्च गौरवम् ॥
”इति हारीतः ॥
“मातुर्यदा प्रजायन्ते द्वितीयं मौञ्जिबन्धनात् ।ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्बिजाः स्मृताः ॥
”इति याज्ञवल्क्यवचनम् ॥
मूर्द्धाभिषिक्ताम्बष्ठयोरपि पितृवत्त्वात् द्विजत्वम् ॥
इति बृद्धाः ॥
“आयुर्व्वेदोपनयनाद्वैद्यो द्बिज इति स्मृतः ॥
”इति वैद्यकेऽग्निवेशः ॥
“तपोयोगात् पुरा वैद्यस्तेजसा पितृवत् स्मृताः ।विप्रात् क्षत्त्राद्यतो न्यूनाः क्रियया वैश्यवत्कृताः ॥
शनैः शनैः क्रियालोपादथ ता वैद्यजातयः ।कलौ शूद्रत्वमापन्ना यथा क्षत्त्रा यथा विशः ॥
”इति विष्णुः ॥
“युगे जघन्ये द्वे जाती ब्राह्मणः शूद्र एव च ।”इति यमः ॥
“शनकैश्च क्रियालोपादिमाः क्षत्त्रियजातयः ।वृषलत्वङ्गता लोके ब्राह्मणादर्शनेन च ॥
”इति मनुवचनं धृत्वा एवमम्बष्ठादीनामपि कलौशूद्रत्वमिति स्वस्वग्रन्थेषु वाचस्पतिमिश्रादिभि-स्तथा शुद्धितत्त्वे स्मार्त्तभट्टाचार्य्येणाप्युक्तम् ।अतएव कुलपञ्जिकायामुक्तम् । अतिदिष्टं हिवैद्यस्य शूद्रत्वं क्षत्त्रियादिवदिति । तस्मात्क्षत्त्रविशोस्तुल्यो वैद्यः शूद्रस्य पूजित इति ॥
* ॥
“युगे युगे कर्म्मणैवोत्कर्षापकर्षावाह मनुः ।तपोरीतिप्रभावैश्च ते गच्छन्ति युगे युगे ॥
”मनुष्येष्विह जन्मत इति ॥
“अम्बष्ठेष्वमृताचार्य्यः ख्यातोऽभूद्भुवनत्रये ।सिद्धविद्याह्वयां कन्यां स्वर्वैद्यस्य तु मानसीम् ॥
उपयेमे महौजा यश्चिकितसतकया श्रुतः ।अथैतस्य वरेणैव ख्याता वैद्या महौजसः ॥
सेनो दासश्च गुप्तश्च दत्तो देवः करो धरः ।राजः सोमश्च नन्दिश्च कुण्डश्चन्द्रश्च रक्षितः ॥
सन्ताना वहवश्चैषां बभूवुश्च चिकित्सकाः ।कुलानुरूपतश्चैषां जाताः पद्धतयोऽप्यमूः ॥
तेषां प्रशंसा निन्दा च बभूव स्वेन कर्म्मणा ।उत्तमौ सेनदासौ च गुप्तदत्तौ तथैव च ॥
देवः करश्च मध्यस्थौ राजसोमौ कुलाधमौ ।नन्दिप्रभृतयो निन्द्या लुप्तपद्धतयोऽपि च ॥
केचिज्जात्या परिख्यातास्तथा वृत्त्यनुसारतः ।सर्व्वासामेव जातीनां वृत्तिरेव गरीयसी ।वृत्तिः स्वर्ग्या च पथ्या च वृत्त्या जातिः प्रव-र्त्तते ॥
”इति प्राचीनकुलपञ्जिकाधृतव्यासवचनानि ॥
इति वैद्योत्पत्तिकथनम् ॥
* ॥
अथ वैद्यानांगोत्राणि ।“अष्टाविंशदमी गोत्राः सर्व्वेषां भिषजामपि ।प्रत्येकन्ते विलिख्यन्ते सेनदासादितः क्रमात् ॥
धन्वन्तरिश्च शक्त्रिश्च तथा वैश्वानराद्यकौ ।मौद्गल्यकौशिकौ कृष्णात्रेय आङ्गिरसोऽपि च ॥
अष्टौ गोत्राणि सेनानां दासानां तदनन्तरम् ।मौद्गल्योऽथ भरद्वाजः शालङ्कायन एव च ॥
शाण्डिल्यश्च वशिष्ठश्च वात्स्यश्च षडमी मताः ।गुप्तानां त्रीणि गोत्राणि काश्यपो गौतमस्तथा ॥
सावर्णिरपि दत्तानां चत्वारः परिकीर्त्तिताः ।कौशिकः काश्यपश्चैव शाण्डिल्यश्चापि तत्परः ॥
मौद्गल्य इति विज्ञेयाश्चत्वारो देवसम्भवाः ।आत्रेयकृष्णात्रेयौ च शाण्डिल्य आलमालकः ॥
धरस्य काश्यपः प्रोक्तो भरद्वाजश्च कुण्डजः ।काश्यपो रक्षितस्यैको गोत्रा एते प्रकीर्त्तिताः ॥
दत्तानामाद्यगोत्राणां देशभेदेऽस्ति सन्ततिः ।एवमात्रेयगोत्रोऽपि दत्तो देशान्तरे श्रुतः ॥
दत्ताः कृष्णात्रेयगोत्रा दृश्यन्ते बहवस्तथा ।तस्माद्दत्तस्य गोत्राणि सप्त ज्ञेयानि पण्डितैः ॥
कराणां काश्यपो गोत्रो वात्स्यमौद्गल्यकावपि ।देशभेदे हि विद्यन्ते तत्करः सप्तगोत्रकः ॥
राजः काश्यपगोत्रोऽप्यस्ति तद्राजस्त्रिगोत्रकः ।श्रूयन्ते च जामदग्न्यगोत्रा देशान्तरे धराः ॥
बहवोऽपि भरद्वाजगोत्रजाः सन्ति रक्षिताः ।इन्द्रादित्यौ परौ यौ द्वौ वैद्यौ गोत्रास्तयोरिमे ॥
इन्द्रस्य काश्यपो गोत्र एक एव प्रकीर्त्तितः ।आदित्यानामिमौ गोत्रावादित्यकौशिकौस्मृतौ ॥
पञ्चाशदेते विख्यातास्तस्माद्गोत्रा भिषक्कुले ।यत्तु देशान्तरे गोत्रमन्यत् किमपि च श्रुतम् ।दत्तादीनां न तत् प्रोक्तमप्रसिद्धमतीव तत् ॥
” *अथ पञ्जिकान्तरोक्तराढीयवैद्यकुलाष्टकीय-गोत्रसंख्याश्रेष्ठत्वादि लिख्यते ।“काञ्जीशाद्वुषिसेनस्य गोत्राण्यष्टौ भवन्तिच ।शक्त्रिधन्वन्तरी श्रेष्ठौ मध्यौ वैश्वानराद्यकौ ।मौद्गल्यकौशिकौ कृष्णात्रेय आङ्गिरसोऽधमाः ॥
”अथ राढीयाष्टगृहवैद्यानां प्रवरानाह ।“प्रवराः पञ्च सेनानां धन्वन्तरिकुलोद्भुवाम् ।विनिर्द्दिष्टा यथा ते च धन्वन्तर्य्यपराशरौ ॥
नैयध्रुवश्चाङ्गिरसो बार्हस्पत्य इति क्रमात् ।शक्त्रिगोत्रे त्रयः शक्त्रिपराशरवशिष्ठकाः ॥
प्रवराः पञ्च दासानामौर्व्वच्यषनभार्गवाः ।जामदग्न्यश्चाप्नुवानः प्रोक्ता मौद्गल्यगोत्रजाः ॥
गुप्तानां त्रय एवैते काश्यपोऽप्यपसारकः ।नैयध्रुवोऽमी प्रवराः काश्यपान्वयसम्भुवाम् ॥
दत्ते त्रयं कौशिकानां शाण्डिल्यासितदेवलाः ।कृष्णात्रेयो वशिष्ठश्च आत्रेयश्चेति ते त्रयः ॥
दत्तानां प्रवरा एते दत्तात्रेयकुलोद्भुवाम् ।आत्रेयगोत्रजातानां देवानाञ्च तथा त्रयः ॥
आत्रेय आङ्गिरसको बार्हस्पत्य इति क्रमात् ।करे भरद्बाजगोत्रे त्रयोऽमी प्रवराः स्मृताः ॥
भरद्वाजो भार्गवश्च च्यवनश्च क्रमादमी ।राजवंशे वात्स्यगोत्रे कथिताः प्रवरास्त्रयः ॥
वात्स्येऽसितस्तथा मार्कण्डेय एवं क्रमादिति ।अथ कौशिकगोत्रस्य सोमस्य प्रवरास्त्रयः ॥
कौशिकः काश्यपश्चैव भार्गवश्चेत्यमी क्रमात् ।सेनादीनामनुक्ता ये आद्यगोत्रादिसम्भुवाम् ॥
प्रवरास्तेऽपि विज्ञेयास्तत्तत्कुलभुवां मुखात् ।नन्द्यादीनां वरेन्द्रेषु चतुर्णां प्रवराश्च ये ।विज्ञेयास्ते च निखिलास्तेषां कुलभुवां मुखात् ॥
”इति वैद्यानां प्रवराः ॥
* ॥
अथ वैद्येषु राढीयादिकथनम् ।“सेनो दासश्च गुप्तश्च दत्तो देवः करस्तथा ।राजसोमावपीत्यष्टौ राढीयाः परिकीर्त्तिताः ॥
नन्दिश्चन्द्रो धरः कुण्डो रक्षितश्चेति पञ्च ये ।ते वरेन्द्रेषु विख्याता दासदत्तकरा अपि ॥
राढीया भिषजो ये ये प्रायस्ते वङ्गगा अपि ।नन्द्यादयो महाराष्ट्रे निवसन्ति च केचन ॥
”तथा च पञ्जिकान्तरे ।“सेनो दासश्च गुप्तश्च पञ्च दत्तादयस्तथा ।अष्टौ राढासु विख्याताः प्रायोऽमी वङ्गगाअपि ॥
”तथान्यत्र ।“नन्दिचन्द्रधरदत्तरक्षिता-स्ते स्वनामनि वरेन्द्रविश्रुताः ।बीजिपूरुष इहैव वक्ष्यतेतत्कुलं खलु वरेन्द्रजं पुनः ॥
”तथा हि नारायणदासोऽन्तरङ्गखानश्च ।“दासो दत्तो धरश्चैव नन्दिकुण्डौ करस्तथा ।चन्द्रश्च रक्षितश्चेति वरेन्द्रकुलमष्टकम् ॥
” इति ॥
तथान्यत्र ।“अष्टौ सेनादयो राढे वङ्गेष्वपि वसन्त्यमी ।नन्द्यादयो महाराष्ट्रे लुप्तपद्धतयोऽपि च ।केचिज्जात्या परिख्याता दृष्टा देशान्तरेष्वपि ॥
”इति ॥
“सम्बन्धः स्तूयते सर्व्वैरेकदेशनिवासिनोः ।निन्द्यते किल सम्बन्धो भिन्नदेशनिवासिनोः ॥
”इति वैद्येषु राढीयादिकथनम् ॥
* ॥
अथ सेनादीनां पूर्व्वस्थानमाह ।“श्रीकाञ्जीशा गोनगरं करङ्ककोठ एव च ।मोरशासनकान्तारौ समानुस्थानमेव च ॥
मेढ्यशासनमप्यन्यो यासग्रामस्तथैव च ।अष्टानां सेनमुख्यानां राढायां स्थानमष्टकम् ॥
”तथाह दुर्ज्जयः ।“काञ्जी गोरं करङ्कश्च मोरकान्तासमानुकाः ।मेढ्यो मालश्च राढायां वैद्यानां कुलमष्टकम् ॥
”इति वैद्यानां पूर्व्वस्थानकथनम् ॥
* ॥
अथ स्थानभेदेन सेनादिभेदमाह ।“ऊनविंशतिधा सेना अष्टाविंशतिधा पुरम् ।भवन्ति भेदेनैतेषां वक्ष्यते कुललक्षणम् ॥
एको विनायकः सेनो भेदेन नवधाभवत् ।मालञ्चो धलहण्डीयः खानाजः सेनहाटिकः ॥
नारहट्टो निरोलीयस्तथा मङ्गलकोठजः ।रायिग्रामी वैतजीयो नव वैनायका अमी ॥
विशेषतो विनिर्दिष्टा ज्ञेयाश्चान्यस्थलोद्भवाः ।सामान्यस्थानकथने सम्बन्धभाषणे तथा ।सर्व्वेषामेव वैद्यानामितरेषामयं क्रमः ॥
”इति विनायकसेनवंश्यनिर्णयः ॥
“एकः पुनर्गयीसेनो भेदेनैव चतुर्विधः ।विषपाडाभवः श्रेष्ठस्तिकायिपुरजस्तथा ।अन्यः कडयिसम्भूतो धाडाग्रामी ततः परः ॥
”इति गयीसेनवंश्यनिर्णयः ॥
“एको राघवसेनोऽभूत् खण्डग्रामेण विश्रुतः ।स खण्डज इति ख्यातो नापरा तस्य च स्थली ॥
”इति राघवसेनवंश्यनिर्णयः ॥
“राजा विमलसेनोऽभूत् सेनभूमिकृताश्रयः ।स सेनभूमौ विख्यातो नापरं तस्य च स्थलम् ॥
”इति राज्ञो विमलसेनस्य वंश्यनिर्णयः ॥
“पात्रदामोदरः सेनः पात्रः शिखरभूपतेः ।असौ शिखरभूजातो नापरं तस्य च स्थलम् ॥
”इति पात्रदामोदरवंश्यनिर्णयः ॥
“विनसेनोऽपि यस्त्वेको धलभूमिकृताश्रयः ।स एव धलभूमिष्ठो नापरा तस्य च स्थली ॥
”इति विनसेनवंश्यनिर्णयः ॥
“सप्तमो वुषिसेनो यो वङ्गभूमौ प्रतिष्ठितः ।हाण्डियाग्रामसम्भूतस्तन्नाम्ना तस्य तत्कुलम् ॥
”इति हाण्डियावुषिसेनवंश्यनिर्णयः ॥
इति धन्वन्तरिगोत्रजातानां सप्तविधानांसेनानां भेदेनाष्टादशप्रकारनिर्णयः ॥
“श्रीवत्ससेनप्रमुखाः षडमी शक्त्रिगोत्रजाः ।भेदेन सप्तधा ज्ञेया यथाक्रमममी पुनः ॥
एकः श्रीवत्ससेनोऽभूत्तेहट्टग्रामविश्रुतः ।तेहदृज इति ख्यातो नापरं तस्य च स्थलम् ॥
”इति श्रीवत्ससेनवंश्यनिर्णयः ॥
“एकः शियालसेनोऽसौ भेदेन द्बिविधोऽभवत् ।पोडागाच्छाभवः श्रेष्ठः परः पोखरियाभवः ॥
”इति शियालसेनवंश्यनिर्णयः ॥
“एको यः पुरुसेनोऽभूद्भुठिनागडिमाश्रितः ।भूठिनागडिजत्वेन ख्यातोऽसौ नापरं स्थलम् ॥
”इति पुरुसेनवंश्यनिर्णयः ॥
“चन्द्रसेनोऽपरस्त्वेकश्चन्द्रद्वीपनिवासकृत् ।शक्त्रिगोत्रसमुद्भूत इदीलपुरमाश्रितः ॥
”इति चन्द्रसेनवंश्यनिर्णयः ॥
“एको मुण्डीरसेनोऽसौ स्वर्णपीठीनृपाश्रयात् ।स एव स्वर्णपीठीति विख्यातो मल्लभूभवः ॥
”इति मुण्डीरसेनवंश्यनिर्णयः ॥
“रामसेनः परस्तस्यैवान्तर्भूतो बभूव यः ।स मल्लभूमिवसतौ विदितानेकपौरुषः ॥
”इति शक्त्विगोत्रजातानां श्रीवत्ससेनप्रमुखानांषण्णां सप्तप्रकारनिर्णयः ॥
“आद्यसेनस्तु षड्बीजी भेदेन विविधोऽभवत् ।नपाडासम्भवस्त्वेकः शालग्रामभवोऽपरः ॥
मानकरीय एवान्यस्त्रय आद्याः प्रकीर्त्तिताः ।आद्यर्षिगोत्रसम्भूताः स्वतन्त्राः सर्व्व एव हि ॥
”इति सकलसेनानां भेदनिर्णयः ॥
* ॥
अथ दासानां भेदमाह ।“पञ्चदशविधा दासास्तेऽमी विंशतिधा पुनः ।एकः पुनश्चायुदासो भेदेन द्विविधोऽभवत् ।एकस्तेहट्टसम्भूतो मालिकाहारजः परः ॥
”इति चायुवंश्ये द्विविधनिर्णयः ॥
“पन्थदासः पुनस्त्वेको भेदेन पञ्चधाभवत् ।वालिनाछीभवश्चैकः परो मण्डलजानिकः ।मौडेश्वरभवः पालिग्रामजः पाजनौरजः ॥
”इति पन्थवंश्ये पञ्चविधनिणयः ॥
“एकोऽपरः कायुदासो वङ्गभूमौ प्रतिष्ठितः ।कोग्रामीण इति ख्यातो दासो मौद्गल्यगोत्रजः ॥
”इति कायुदासवंश्यनिर्णयः ॥
भोयीदासोऽपि तत्पुत्त्रौ ख्यातौ दीघलकेकरौ ।अमी त्रयो वङ्गभूमौ प्रसिद्धाः सर्व्व एव हि ॥
”इति भोयीदासस्य तत्पुत्त्रयोश्च वंश्यनिर्णयः ॥
“एको वराहदासोऽसौ वौहारिग्रामवासकृत् ।स वौहारिजदासोऽपि मतो मौद्गल्यगोत्रजः ॥
”इति वौहारीयवराहदासवंश्यनिर्णयः ॥
“नृसिंहनामदासौ द्वौ वङ्गदेशे प्रतिष्ठितौ ।तौ वङ्गजाविति ख्यातौ कुलकार्य्यपरायणौ ॥
”इति नृसिंहदासयोर्वंश्यनिर्णयः ॥
“वीरदासोऽपि यस्त्वेकः स वङ्गज इति स्मृतः ।तत्रैव वङ्गे सम्बन्धस्तस्याभूद्बरकन्ययोः ॥
”इति वीरदासवंश्यनिर्णयः ॥
“ख्यातः पाथरडाग्रामे रामदासोऽपि तादृशः ।सूनवस्तस्य चत्वारो बीजिनस्तेपि विश्रुताः ॥
ख्याता डभेड-गाभेड-धाड-वीडालदासकाः ।मौद्गल्यगोत्रसम्भूताः स्वतन्त्राः सर्व्व एव हि ॥
”इति रामदासस्य तत्पुत्त्राणाञ्च वंश्यनिर्णयः ॥
इति मौद्गल्यगोत्रजानां सकलदासानां पञ्च-दशप्रकाराणां भेदेन विंशतिप्रकारनिर्णयः ॥
*अथ गुप्तानां भेदमाह ।“गुप्ताश्च षड्विधा भेदास्त्रयोदशविधाः पुनः ।काश्यपान्वयसंभूताः स्वतन्त्राः सर्व्व एव हि ॥
एकः पुनः कायुगुप्तो भेदेनाष्टविधोऽभवत् ।वराह नगरीयश्च श्रेष्ठोऽभूत् कुलकर्म्मणि ॥
पणिनालाभवश्चान्यस्तथैव कुलशीलवान् ।वाराशतसमुद्भूतस्तृतीयस्तदनन्तरम् ॥
नीलगुप्तभवा ये ते निरोलत्रिपुराश्रिताः ।भद्रखालीनिवासस्थाः कायुगुप्तोद्भवाश्च ये ॥
माटियारीभवाः केचिल्लोकगुप्तस्य वंशजाः ।पश्चिमस्थानमाश्रित्य केचित्सन्ति निजेच्छया ॥
”इति कायुगुप्तवंश्येऽष्टविधनिर्णयः ॥
“परमेश्वरगुप्तो यः श्रेष्ठस्तद्बंशसम्भवः ।योऽभूत्त्रिपुरगुप्तोऽसौ धौडालाविहितस्थितिः ॥
”इति धौडालीयत्रिपुरगुप्तवंश्यनिर्णयः ॥
“परमेश्वरगुप्तस्य वंशजौ द्बौ प्रतिष्ठितौ ।भीँपुरीखाडिग्रामस्थौ महत्स्वल्पाधि-कारिणौ ॥
”इति महाधिकारिस्वल्पाधिकारिणोर्वं श्यनिर्णयः ॥
“अडालगुप्तो यः प्रोक्तः स तु शिङ्गानसम्भवः ।काश्यपान्वयसंभूतः कुलकार्य्यपरायणः ॥
”इत्यडालगुप्तवंश्यनिर्णयः ॥
“वीरगुप्तस्तु यः प्रोक्तो भीँ पुरग्रामवासकृत् ।भीँ पुरीय इति ख्यातः स च काश्यपगोत्रजः ॥
”इति वीरगुप्तवंश्यनिर्णयः ॥
इति काश्यपगोत्र-जातानां सकलगुप्तानां षड्विधानां भेदेन त्रयो-दशप्रंकारनिर्णयः ॥
“दत्तौ च द्बिविधौ ज्ञेयौ रामदत्तश्च पाविता ।पूर्व्वः शाण्डिल्यगोत्रीयो वटग्रामसमुद्भवः ॥
अपरः पाविता दत्तः खाँगडीयः स एव हि ।जातः कौशिकगोत्रे च खतन्त्रौ द्वौ गुणान्वितौ ॥
”इति दत्तवंश्यनिर्णयः ॥
“विकारणस्य देवस्य वंश्या आत्रेयगोत्रजाः ।समानुस्थानसंभूताः केतुग्रामेऽधुना तु ते ॥
केतुग्रामीणदेवोऽसौ निकारुणकुलोद्भवः ।निजैश्च पौरुषैरेव कुलकार्य्यपरायणः ॥
कृष्णात्रेयभवा ये च ये च शाण्डिल्यगोत्रजाः ।आलमालभवा ये च ते नानादेशवासिनः ॥
”इति देववंश्यनिर्णयः ॥
“एकः कान्तारवासी च करो भेदादमी त्रयः ।वशिष्ठशक्त्विगोत्रे द्वौ वङ्गदेशे च विश्रुतौ ॥
यस्तु धर्म्मकरो बीजी भरद्वाजकुलोद्भवः ।तद्वंश्याः सांप्रतं सन्ति हिमोडायाजिगाँपुरे ॥
”इति करवंश्यनिर्णयः ॥
“मेढ्यशासनसंभूतौ राजवंशोद्भवावुभौ ।शशिराजमसीराजौ वात्स्यगोत्रसमुद्भवौ ॥
एलाचिधामनगरे शशिराजः कृताश्रयः ।मसीराजः खेपडीयो वङ्गभूमौ च संस्थितः ॥
”इति राजवंश्ये द्बिविधनिर्णयः ॥
“मालग्रामसमुद्भूतो धर्म्मसोमो महामतिः ।जातः कौशिकगोत्रे च तद्वंश्या बहुदेशगाः ॥
”इति सोमवंश्यनिर्णयः ॥
इति राढाप्रसिद्धाना-मष्टानां सेनादीनां भेदेन वंश्यनिर्णयः ॥
* ॥
“अपरे ये नन्दिचन्द्रौ धरकुण्डौ च रक्षितः ।वारेन्द्रा अपि पञ्चैते प्रसिद्धास्तत्र ते पुनः ॥
”इति त्रयोदशगृहाणां वैद्यानां यथाक्रमभेदेनकुलनिर्णयः ॥
* ॥
अथ सेनादीनां सामान्यतःसम्बन्धलिखनानुरोधाद्वसतिस्थानमाह ।“श्रीखण्डनामनगरी राढे वङ्गे च विश्रुता ।सर्व्वेषामेव वैद्यानामाश्रयो यत्र विद्यते ॥
यत्र गोष्ठी कृता वैद्यैर्यः खण्डोऽभूद्भिषक्प्रियः ।विशेषतः कुलीनानां सर्व्वेषामेव वासभूः ॥
”इति सामान्यतः सकलवैद्यानां वासस्थान-मुक्तम् ॥
* ॥
इति गौराङ्गमल्लिकात्मजभरत-सेनकृतवैद्यकुलतत्त्वम् ॥
वाचस्पत्यम्
Sanskritवैद्य विद्याऽस्त्यस्य अण् । १ पण्डिते “नाविद्यानान्तु वैद्येनदेयं विद्याधनात् क्वचित्” दायभा० । २ भिषजि अमरः ।तदुपकारके ३ वासकवृक्षे च शब्दच० । वैद्योत्पत्तिश्च“वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति । वैद्यवी-र्य्येण शूद्रायां बभूवुर्बहवो जनाः । ते च ग्रामगुण-ज्ञाश्च मन्त्रोषधिपरायणाः । तेभ्यश्च जाताः शूद्रायांते व्यालग्राहिणो भुवि” । शौनक उवाच “कथं ब्रा-ह्मणपत्न्यान्तु सूर्य्यपुत्रोऽश्विनीसुतः । अहो केन विपा-केन वीर्य्याधानं चकार सः” । सौतिरुवाच “गच्छन्तींतीर्थयात्रायां ब्राह्मणीं रविनन्दनः । ददर्श कामुकींकान्तः पुष्पोद्याने मनोहरे । तया निवारितो यत्नात्बलेन बलवान् सुरः । अतीव सुन्दरीं दृष्ट्वा वीर्य्यातानंचकार सः । द्रुतं तत्याज गर्भं सा पुष्पाद्याने ममोरमेसद्यो बभूव पुत्रश्च तप्तकाञ्चनसन्निमः । सपुत्रा स्वा-मिनो गेहं जगाम व्रीडिता तदा । स्वामिनं कथया-मास यस्माद्दैवादिसङ्कटम् । विप्रोरोषेण तत्याज तञ्चपुत्रं स्वकामिनीम् । सरिद् बभूव योगेन सा च गोदा-वरी स्मृता । पुत्रं चिकित्साशास्त्रञ्च पाठयामास य-त्नतः । नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः ।विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम् । वेदधर्मप-रित्यक्तो बभूव गणको भुवि” । ब्रह्मवै० १० अ० ।नरकभोगान्ते वैद्यजन्म यथा “यः करोत्यपहारञ्च देवब्राह्मणयोर्धनम् । पातयित्वा स्वपुरुषान् दश पूर्वान् दशापरान् । स्वयं याति च धूमान्धं धूमध्वान्तसम-न्वितम् । धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम् ।ततो मूषिकजातिश्च शतजन्मानि भारते । ततो नाना-विधाः पक्षिजातयः कृमिजातयः । ततो नानाविधाःवृक्षजातयश्च ततो नरः । भार्य्याहीनो वंशहीनः शवरोव्याधिसंयुतः । ततो भवेत् स्वर्णकारः स सुवर्णवणिक्ततः । ततो जवनसेवी च ब्राह्मणो गणकस्ततः ।विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः” ।“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः । स-याति नागवेष्टञ्च सर्पैर्वेष्टित एव च । वसेत् सलोममा-नाव्द तत्रैव नागदंशितः । ततो भवेत् स गणकी वैद्यश्चसप्तजन्मसु । गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः” । ब्र-ह्मवै० २८ अ० । राजवैद्यस्य लक्षणं यथा “परं पार-ङ्गतो यः स्यादष्टाङ्गे तु चिकित्सिते । अनाहार्य्यः सवैद्यः स्याद्धर्मात्मा च कुलोद्गतः । प्राणावार्य्यः स वि-ज्ञेयो वचनं तस्य भूभुजः । राजन्! राज्ञा सदा कार्य्यंयथाकार्य्यं पृथग्जनैः” । मात्स्ये १८९ अ० । “चि-कित्सां कुरुते यस्तु स चिकित्सक उच्यते । स चयादृक् समीचीनस्तादृशोऽपि निगद्यते । तत्त्वा-धिगतशास्त्रार्थो दृष्टकर्मा स्वयं कृती । लघुहस्तः शुचिःशूरः स्वच्छोपस्करभेषजः । प्रत्युत्पन्नमतिर्धीमान् व्यव-सायी प्रियंवदः । सत्यधर्मपरोयश्च वैद्य ईदृक् प्रशस्यते” ।दृष्टकर्मा दृष्टा परेण कृता चिकित्सा येन सः । स्वयंकृती स्वयं चिकित्साकुशलः । लघुहस्तः सिद्धिमद्धस्तः ।निषिद्धवैद्यो यथा “कुचेलः कर्कशः स्तब्धः ग्रामीणः स्व-यमागतः । पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा अपि” ।वर्कशः अपियवादी । स्तब्धः साभिमानः । ग्रामीणःव्यवहाराचतुरः । अथ वैद्यस्य कर्म आह “व्याधेस्तत्त्व-परिज्ञानं वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं नवैद्यः प्रभुरायुषः” भावप्र० “सत्यत्रेताद्वापरेषु युगेषु ब्रा-ह्मणाः किल । ब्रह्मक्षत्रियविट्शूद्रकन्यका उपयेमिरे ।तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी । सर्वे ते मुनयःख्याता वेदवेदाङ्गपारगाः । तेषां मुख्योऽमृताचार्य्य-स्तस्थावम्बाकुले हि यत् । अम्बष्ठ इत्यसाव्क्तस्ततो जातिप्रवर्त्तनाद् । परे सर्वेऽपि चाम्बष्ठा वैश्याब्राह्मणस-म्भवाः । जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः ।अम्बष्ठास्तेन ते सर्वे द्विजा वैद्याः प्रकीर्त्तिताः । अथरुक् प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः । सत्ये वैद्याःपितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः । द्वापरे क्षत्रवत्प्रोक्ताः कलौ वैश्योपमाः स्मृताः” कुलच० । आयुर्वेद-शब्दे दृश्यम् ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
