| YouTube Channel

वैदूर्य्यं (vaidUryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
वैदूर्य्यं,
क्ली,
(विदूरात् प्रभवतीति विदूर +“विदूरात् ञ्यः ।” ८४ इति ञ्यः ।)मणिविशेषः तु कृष्णपीतवर्णः लहसुनीयाइति हिन्दी भाषा अस्य देवता केतुः ।तत्पर्य्यायः बालवायजम् इति हेमचन्द्रः
केतुरत्नम् कैतवम् प्रावृष्यम् अभ्र-रोहम् खराब्दाङ्कुरकम् विदूररत्नम् ८विदूरजम् अस्य गुणाः अम्लत्वम् उष्ण-त्वम् कफवायुनाशित्वम् गुल्मशूलप्रशमन-त्वम् भूषितञ्चेत् शुभावहत्वञ्च इति राज-निर्घण्टः
अपि ।“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् ।मणिरत्नं सरं शीतं कषायं स्वादु लेखनम् ।चाक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम्
”इति राजवल्लभः
*
तच्छायलक्षणं यथा, --“एकं वेणुपलाशकोमलरुचा मायूरकण्ठत्विषामार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधाच्छायया ।यद्गात्र गुरुतां दधाति नितरां स्निग्धन्तुदोषोषितंवैदूर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छो-भनम्
”तस्य कुलक्षणं यथा, --“विच्छायं मृच्छिलागर्भं लघु रूक्षञ्च सक्षतम् ।सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतां नयेत्
”तत्परीक्षा यथा, --“घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि ।स्फुटं प्रदर्शयेदेतद्वैदूर्य्यं जात्यमुच्यते
”इति राजनिर्घण्टः
*
सूत उवाच ।“वैदूर्य्यपुष्परागाणां कर्क्केतभीष्मके वदे ।परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज
कल्पान्तकालक्षुभिताम्बुराशि-निर्ह्रादकल्पाद्दितिजस्य नादात् ।वैदूर्य्यमुत्पन्नमनेकवर्णंशोभाभिरामं द्युतिवर्णबीजम्
अविदूरे वैदूर्य्यस्य गिररुत्तुङ्गरोधसः ।कामभूतिकसीमानमनु तस्याकरोऽभवत्
तस्य नादसमुत्थत्वादाकरः सुमहागुणः ।अभूदुत्तरितो लोके लोकत्रयविभूषणः
तस्यैव दानवपतेर्निनदानुरूप-प्रावृट्पयोदवरदर्शितचारुरूपाः ।वैदूर्य्यरत्नमणयो विविधावभासा-स्तस्मात् स्फुलिङ्गनिवहा इव सम्बभूवुः
पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ ।सर्व्वांस्तान् वर्णशोभाभिर्वैदूर्य्यमनुगच्छति
तेषां प्रधानं शिखिकण्ठनीलंयद्बा भवेद्वेणुदलप्रकाशम् ।चाषाग्रपक्षप्रतिमश्रियो येन ते प्रशस्ता मणिशास्त्रविद्भिः
गुणवान् वैदूर्य्यमणिर्योजयति स्वामिनं वरभाग्यैः ।दोषेर्युक्तो दोषैस्तस्माद्यत्नात् परीक्षेत
गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि-निर्भिन्नाः ।वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति
लिख्याभावात् काचं लघु भावाच्छैशुपालकंविद्यात् ।गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन
यदिन्द्रनीलस्य महागुणस्यसुवर्णसंख्याकलितस्य मूल्यम् ।तदेव वैदूर्य्यमणेः प्रदिष्टंपलद्वयोन्मापितगौरवस्य
जातस्य सर्व्वेऽपि मणेस्तु यादृग्-विजातयः सन्ति समानवर्णाः ।तथापि नानाकरणानुमेय-भेदप्रकारः परमः प्रदिष्टः
सुखोपलक्ष्यश्च सदा विचार्य्योह्ययं प्रभेदो विदुषा नरेण ।स्नेहप्रभेदो लघुता मृदुत्वंविजातिलिङ्गं खलु सार्व्वजन्यम्
कुशलाकुशलैः प्रयुज्यमानाःप्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः ।गुणदोषसमुद्भवं लभन्तेमणयोऽर्थान्तरमूल्यमेव भिन्नाः
क्रमशः समतीतवर्त्तमानाःप्रतिबद्धा मणिबन्धकेन यत्नात् ।यदि नाम भवन्ति दोषहीनामणयः षड्गुणमाप्नुवन्ति मूल्यम्
आकरान् समतीतानामुदधेस्तीरसन्निधौ ।मूल्यमेतन्मणीनान्तु सर्व्वत्र महीतले
सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ।तस्य सप्ततिमो भागः संज्ञारूपं करिष्यति
शाणश्चतुर्माषमानो माषकः पञ्चकृष्णलः ।पलस्य दशमो भागो धरणः परिकीर्त्तितः
इति मानविधिः प्रोक्तो रत्नानां मूल्यनिश्चये
”इति गारुडे वैदूर्य्यपरीक्षा ७३ अध्यायः
*
अन्यच्च ।“सितञ्च धूम्रसङ्काशमीषत्कृष्णसितं भवेत् ।वैदूर्य्यं नाम तद्रत्नं रत्नविद्भिरुदाहृतम्
ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाच्चतुर्व्विधम् ।सितनीलो भवेद्विप्रः सितारक्तस्तु बाहुजः
पीतानीलस्तु वैश्यः स्यात् नील एव हि शूद्रकः
”अथ गुणाः ।“मार्ज्जारनयनप्रख्यं रसोनप्रतिमं हि वा ।कलिलं निर्म्मलं व्यङ्गं वैदूर्य्यं देवभूषणम्
सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव ।वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः
”तद्यथा, --“उद्गिरन्निव दीप्तिं योऽसौ सुतार इति गद्यतेप्रमाणताल्पं गुरु यत् घनमित्यभिधीयते
कलङ्कादिविहीनं तदत्यच्छमिति कीर्त्तितम् ।ब्रह्मशूद्रं कलाकारश्चञ्चलो यत्र दृश्यते
कलिलं नाम तद्राज्ञः सर्व्वसम्पत्तिकारकम् ।विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते
*
कर्करं कर्कशं त्रासः कलङ्को देह इत्यपि ।एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः
शर्करायुक्तमिव यत् प्रतिभाति कर्करम् ।स्पर्शेऽपि यत्तज्ज्ञेयं कर्कशं बन्धुनाशनम् ।भिन्नभ्रान्तिकरस्त्रासः कुर्य्यात् कुलसंक्ष-यम्विरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः ।मलदिग्ध इवाभाति देहो हेहविनाशनः
जयति यदि सुवर्णं त्यागहीनो यदा वाबहुविधमणिहारी भूपतिर्व्वा यतिर्व्वा ।दधदपि धृतदोषं जातु वैदूर्य्यरत्नंप्रतिशतफलरूपः पातमेध्यत्यवश्यम्
”इति युक्तिकल्पतरौ वैदूर्य्यपरीक्षा
अन्यत् गरुडपुराणवत्