वैदूर्य्य (vaidUryya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritवैदूर्य्य विदूरे गिरौ भवः ष्यञ् । कृष्णपीतवर्णे विडाल-नेत्रतुल्य वर्णे मणिभेदे केतुरत्ने (लसुनिया) राजनि० ।“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् । मणिरत्नंसरं शीतं कषायं स्वादु लेखनम् । चाक्षुष्यं धारणा-त्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः । तच्छाया-लक्षणं यथा “एकं वेणुपलाशकोमलरुचा मायूरकण्ठ-त्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा च्छायया ।यद्गात्रं गुरुतां दधाति नितरां स्निग्धन्तु दोषोज्वितंवैदुर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छोभनम् ।तस्य कुलक्षणं यथा “विच्छायं मृच्छिलागर्भं लघु रूक्षञ्चसक्षतम् । सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतो नयेत्” ।तत्परीक्षा यथा । “घृष्टं यदात्मना स्वच्छं स्वच्छायां नि-कषाश्मनि । स्फुटं प्रदर्शयेदेतद्विअदूर्य्यं जात्यमुच्यते” ।राजनि० “वैदूर्य्यपुष्परागाणां कर्केतभीष्मके वदे । प-रीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज! । कल्पा-न्तकालक्षुभिताम्बुराशिनिर्ह्रादकल्पाद्दितिक्षस्य नादात् ।वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामं द्यूतिवर्णवीजम् ।अविदूरे विदूरस्य गिरेरुत्तङ्गरोधसः । कामभूतिकसीमान-मनु तस्याकरोऽभवत् । तस्य नादसमुत्थत्वादाकरः सुम-हागुणः । अभूदुत्तरितो लोके लोकत्रयविभूषणः ।तस्यैव दानवपतेर्निनदानुरूपप्रावृट्पयोदरवदर्शितचारु-रूपाः । वैदूर्य्यरत्नमणयो विविधावभासास्तस्मात् स्फुलि-ङ्गनिवहा इव संबभूवुः । पद्मरागमुपादाय मणिवर्णाहि ये क्षितौ । सर्वांस्तान् वर्णः शोभाभिर्वैदूर्यमनुगच्छति ।तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्र-काशम् । चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्तामणिशास्त्रविद्भिः । गुणवान् वैदूर्य्यमणिर्योजयति स्वा-मिनं वरभाग्यै । दोषैर्युक्तोदोषैस्तस्माद् यत्नात्परी-क्षेत । गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि-निर्भिन्नाः । वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ।लिक्षाभावात् काचं लघुभावाच्छैशुपालकं विद्यात् ।गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन । यदि-न्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् ।तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापितं गौरवस्य ।जात्यस्य सर्वेऽपि मणेस्तु यादृक् विजातयः सन्ति समान-वर्णाः । तथापि नानाकरणानुमेयभेदप्रकारः परमः प्र-दिष्टः । सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषानवेन । स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलुसार्वजन्यम् । कुशलाकुशलैः प्रयुज्यमानाः प्रतिवद्धाः प्रति-सत्क्रिया प्रयोगैः । गुणदोषसमुद्भवं लभन्ते मणयोऽर्था-न्तरमूल्यमेव मिन्नाः । क्रमशः समतीतवर्त्तमानाः प्रतिवद्धामणिबन्धकेन यस्मात् । यदि नाम भवन्ति दाषहीनामणयः षड्गुणमाप्नुवन्ति मूल्यम् । आकरान् समती-तानामुदधेस्तीरसन्निधौ । मूल्यमेतत् खनीनान्तु न सर्वत्रमहीतले । सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ।तस्य सप्ततिमोभागः संज्ञारूपं करिष्यति । शाणश्चतु-मांषमानो माषकः पञ्चकृष्णलः । पलस्य दशमोभागोधरणः परिकीर्त्तितः । इति मानविधिः प्रोक्तो र-त्नानां मूल्यनिश्चये” । गारुडे ७३ अ० । “सितञ्चधूम्रसङ्काशमीषत्कृष्णसितं भवेत् । वैदूर्व्यनाम तद्रत्नंरत्नविद्भिरुदाहृतम् । ब्रह्मक्षत्रियविट्शूद्रजातिभेदा-श्चतुर्विधाः । सितनीलो भवेद्विपः सितरक्तस्तु वा-हुजः । पीतनीलस्तु वैश्यः स्यात् नील एव हि शू-दूकः” । अथ गुणाः “मार्ज्जारनयनप्रख्यं रसोनप्र-तिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य्यं देवभूष-णम् । सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च ।वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः” ।“उद्गिरन्निव दीप्तिं योऽसौ सुतार इतीर्य्यते । प्र-माणतोऽल्पं गुरु यद् घनमित्यभिधीयते । कलङ्कादि-विहीनं तदत्यच्छमिति कीर्त्तितम् । ब्रह्मशस्त्रकलाकार-श्चञ्चलो यत्र दृश्यते । कलिलं नाम तद्राज्ञः सर्वसम्पत्ति-कारकम् । विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ।कर्करं कर्कशं त्रासः कलङ्का देह इत्यपि । एते पञ्चमहादोषा वैदूर्य्याणामुदीरिताः । शर्करायुक्तमिव यत्प्रतिभाति च कर्करम् । स्पर्शेऽपि यत्तज्ज्ञेय च कर्कशंबन्धुनाशनम् । भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसं-क्षयम् । बिरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः । मल-दिग्ध इवाभाति देहो देहविनाशनः । जयति यदिसुवर्णत्यागहीनो यदा वा बहुविधमणिहारी भूपतिर्वा यति र्वा । दधदपि धृतदोषं जातु वैदूर्य्यरत्नं प्रतिह-तफलरूपः पातमेष्यत्यवश्यम्” । युक्तिकल्पतरुः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
