वैदूर्य (vaidUrya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishवैदूर्य [vaidūrya], (-री or -र्यी )
Brought from, or produced in, Vidūra.
Eminent (श्रेष्ठ)
को न्वयं नरवैदूर्यः 1. 55.31. -र्यम् [विदूरे गिरौ भवं श्यञ्] Lapis lazuli
7.1
3.45
भुवि वैदूर्यनकाशशाद्वलायाम् Bu. Ch.5.9
(the cat's-eye gem
मार्जारेक्षणपिङ्गलच्छविजुष् Rājanighaṇṭu)
स्थाल्यां वैदूर्यमय्यां पचति तिलकणानिन्धनैश्चन्दनाद्यैः Bh.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiवैदूर्य
वि* - विदूर + ष्यञ्
विदूर से उत्पन्न या लाया गया
वैदूर्यम्
- -
"वैदूर्य मणि, नीलम"
L R Vaidya
EnglishBopp
Latinअभिधानचिन्तामणिः
Sanskritरत्नं वसु मणिस्तत्र वैदूर्यं वालवायजम् ॥ १०६३ ॥
रत्न (क्ली), वसु (क्ली), मणि (पुंस्त्री), वैदूर्य (क्ली), वालवायज (क्ली)
अभिधानरत्नमाला
Sanskritवैदूर्य
वैदूर्य, बालवायज
शोणाश्मा पद्मरागः स्याद्वैदूर्यं बालवायजम् ॥ १७५ ॥
verse 2.1.1.175
page 0022
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritवैदूर्य्यं, (विदूरात् प्रभवतीति । विदूर +“विदूरात् ञ्यः ।” ४ । ३ । ८४ । इति ञ्यः ।)मणिविशेषः । स तु कृष्णपीतवर्णः । लहसुनीयाइति हिन्दी भाषा । अस्य देवता केतुः ।तत्पर्य्यायः । बालवायजम् २ । इति हेमचन्द्रः ॥
केतुरत्नम् ३ कैतवम् ४ प्रावृष्यम् ५ अभ्र-रोहम् ६ खराब्दाङ्कुरकम् ७ विदूररत्नम् ८विदूरजम् ९ । अस्य गुणाः । अम्लत्वम् । उष्ण-त्वम् । कफवायुनाशित्वम् । गुल्मशूलप्रशमन-त्वम् । भूषितञ्चेत् शुभावहत्वञ्च । इति राज-निर्घण्टः ॥
अपि च ।“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् ।मणिरत्नं सरं शीतं कषायं स्वादु लेखनम् ।चाक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥
”इति राजवल्लभः ॥
* ॥
तच्छायलक्षणं यथा, --“एकं वेणुपलाशकोमलरुचा मायूरकण्ठत्विषामार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधाच्छायया ।यद्गात्र गुरुतां दधाति नितरां स्निग्धन्तुदोषोषितंवैदूर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छो-भनम् ॥
”तस्य कुलक्षणं यथा, --“विच्छायं मृच्छिलागर्भं लघु रूक्षञ्च सक्षतम् ।सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतां नयेत् ॥
”तत्परीक्षा यथा, --“घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि ।स्फुटं प्रदर्शयेदेतद्वैदूर्य्यं जात्यमुच्यते ॥
”इति राजनिर्घण्टः ॥
* ॥
सूत उवाच ।“वैदूर्य्यपुष्परागाणां कर्क्केतभीष्मके वदे ।परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज ॥
कल्पान्तकालक्षुभिताम्बुराशि-निर्ह्रादकल्पाद्दितिजस्य नादात् ।वैदूर्य्यमुत्पन्नमनेकवर्णंशोभाभिरामं द्युतिवर्णबीजम् ॥
अविदूरे वैदूर्य्यस्य गिररुत्तुङ्गरोधसः ।कामभूतिकसीमानमनु तस्याकरोऽभवत् ॥
तस्य नादसमुत्थत्वादाकरः सुमहागुणः ।अभूदुत्तरितो लोके लोकत्रयविभूषणः ॥
तस्यैव दानवपतेर्निनदानुरूप-प्रावृट्पयोदवरदर्शितचारुरूपाः ।वैदूर्य्यरत्नमणयो विविधावभासा-स्तस्मात् स्फुलिङ्गनिवहा इव सम्बभूवुः ॥
पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ ।सर्व्वांस्तान् वर्णशोभाभिर्वैदूर्य्यमनुगच्छति ॥
तेषां प्रधानं शिखिकण्ठनीलंयद्बा भवेद्वेणुदलप्रकाशम् ।चाषाग्रपक्षप्रतिमश्रियो येन ते प्रशस्ता मणिशास्त्रविद्भिः ॥
गुणवान् वैदूर्य्यमणिर्योजयति स्वामिनं वरभाग्यैः ।दोषेर्युक्तो दोषैस्तस्माद्यत्नात् परीक्षेत ॥
गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि-निर्भिन्नाः ।वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ॥
लिख्याभावात् काचं लघु भावाच्छैशुपालकंविद्यात् ।गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥
यदिन्द्रनीलस्य महागुणस्यसुवर्णसंख्याकलितस्य मूल्यम् ।तदेव वैदूर्य्यमणेः प्रदिष्टंपलद्वयोन्मापितगौरवस्य ॥
जातस्य सर्व्वेऽपि मणेस्तु यादृग्-विजातयः सन्ति समानवर्णाः ।तथापि नानाकरणानुमेय-भेदप्रकारः परमः प्रदिष्टः ॥
सुखोपलक्ष्यश्च सदा विचार्य्योह्ययं प्रभेदो विदुषा नरेण ।स्नेहप्रभेदो लघुता मृदुत्वंविजातिलिङ्गं खलु सार्व्वजन्यम् ॥
कुशलाकुशलैः प्रयुज्यमानाःप्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः ।गुणदोषसमुद्भवं लभन्तेमणयोऽर्थान्तरमूल्यमेव भिन्नाः ॥
क्रमशः समतीतवर्त्तमानाःप्रतिबद्धा मणिबन्धकेन यत्नात् ।यदि नाम भवन्ति दोषहीनामणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥
आकरान् समतीतानामुदधेस्तीरसन्निधौ ।मूल्यमेतन्मणीनान्तु न सर्व्वत्र महीतले ॥
सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ।तस्य सप्ततिमो भागः संज्ञारूपं करिष्यति ॥
शाणश्चतुर्माषमानो माषकः पञ्चकृष्णलः ।पलस्य दशमो भागो धरणः परिकीर्त्तितः ॥
इति मानविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥
”इति गारुडे वैदूर्य्यपरीक्षा ७३ अध्यायः ॥
* ॥
अन्यच्च ।“सितञ्च धूम्रसङ्काशमीषत्कृष्णसितं भवेत् ।वैदूर्य्यं नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥
ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाच्चतुर्व्विधम् ।सितनीलो भवेद्विप्रः सितारक्तस्तु बाहुजः ॥
पीतानीलस्तु वैश्यः स्यात् नील एव हि शूद्रकः ॥
”अथ गुणाः ।“मार्ज्जारनयनप्रख्यं रसोनप्रतिमं हि वा ।कलिलं निर्म्मलं व्यङ्गं वैदूर्य्यं देवभूषणम् ॥
सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च ।वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः ॥
”तद्यथा, --“उद्गिरन्निव दीप्तिं योऽसौ सुतार इति गद्यतेप्रमाणताल्पं गुरु यत् घनमित्यभिधीयते ॥
कलङ्कादिविहीनं तदत्यच्छमिति कीर्त्तितम् ।ब्रह्मशूद्रं कलाकारश्चञ्चलो यत्र दृश्यते ॥
कलिलं नाम तद्राज्ञः सर्व्वसम्पत्तिकारकम् ।विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ॥
* ॥
कर्करं कर्कशं त्रासः कलङ्को देह इत्यपि ।एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः ॥
शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् ।स्पर्शेऽपि च यत्तज्ज्ञेयं कर्कशं बन्धुनाशनम् ।भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसंक्ष-यम्विरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः ।मलदिग्ध इवाभाति देहो हेहविनाशनः ॥
जयति यदि सुवर्णं त्यागहीनो यदा वाबहुविधमणिहारी भूपतिर्व्वा यतिर्व्वा ।दधदपि धृतदोषं जातु वैदूर्य्यरत्नंप्रतिशतफलरूपः पातमेध्यत्यवश्यम् ॥
”इति युक्तिकल्पतरौ वैदूर्य्यपरीक्षा ॥
अन्यत् गरुडपुराणवत् ॥
वाचस्पत्यम्
Sanskritवैदूर्य्य विदूरे गिरौ भवः ष्यञ् । कृष्णपीतवर्णे विडाल-नेत्रतुल्य वर्णे मणिभेदे केतुरत्ने (लसुनिया) राजनि० ।“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् । मणिरत्नंसरं शीतं कषायं स्वादु लेखनम् । चाक्षुष्यं धारणा-त्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः । तच्छाया-लक्षणं यथा “एकं वेणुपलाशकोमलरुचा मायूरकण्ठ-त्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा च्छायया ।यद्गात्रं गुरुतां दधाति नितरां स्निग्धन्तु दोषोज्वितंवैदुर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छोभनम् ।तस्य कुलक्षणं यथा “विच्छायं मृच्छिलागर्भं लघु रूक्षञ्चसक्षतम् । सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतो नयेत्” ।तत्परीक्षा यथा । “घृष्टं यदात्मना स्वच्छं स्वच्छायां नि-कषाश्मनि । स्फुटं प्रदर्शयेदेतद्विअदूर्य्यं जात्यमुच्यते” ।राजनि० “वैदूर्य्यपुष्परागाणां कर्केतभीष्मके वदे । प-रीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज! । कल्पा-न्तकालक्षुभिताम्बुराशिनिर्ह्रादकल्पाद्दितिक्षस्य नादात् ।वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामं द्यूतिवर्णवीजम् ।अविदूरे विदूरस्य गिरेरुत्तङ्गरोधसः । कामभूतिकसीमान-मनु तस्याकरोऽभवत् । तस्य नादसमुत्थत्वादाकरः सुम-हागुणः । अभूदुत्तरितो लोके लोकत्रयविभूषणः ।तस्यैव दानवपतेर्निनदानुरूपप्रावृट्पयोदरवदर्शितचारु-रूपाः । वैदूर्य्यरत्नमणयो विविधावभासास्तस्मात् स्फुलि-ङ्गनिवहा इव संबभूवुः । पद्मरागमुपादाय मणिवर्णाहि ये क्षितौ । सर्वांस्तान् वर्णः शोभाभिर्वैदूर्यमनुगच्छति ।तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्र-काशम् । चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्तामणिशास्त्रविद्भिः । गुणवान् वैदूर्य्यमणिर्योजयति स्वा-मिनं वरभाग्यै । दोषैर्युक्तोदोषैस्तस्माद् यत्नात्परी-क्षेत । गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि-निर्भिन्नाः । वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ।लिक्षाभावात् काचं लघुभावाच्छैशुपालकं विद्यात् ।गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन । यदि-न्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् ।तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापितं गौरवस्य ।जात्यस्य सर्वेऽपि मणेस्तु यादृक् विजातयः सन्ति समान-वर्णाः । तथापि नानाकरणानुमेयभेदप्रकारः परमः प्र-दिष्टः । सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषानवेन । स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलुसार्वजन्यम् । कुशलाकुशलैः प्रयुज्यमानाः प्रतिवद्धाः प्रति-सत्क्रिया प्रयोगैः । गुणदोषसमुद्भवं लभन्ते मणयोऽर्था-न्तरमूल्यमेव मिन्नाः । क्रमशः समतीतवर्त्तमानाः प्रतिवद्धामणिबन्धकेन यस्मात् । यदि नाम भवन्ति दाषहीनामणयः षड्गुणमाप्नुवन्ति मूल्यम् । आकरान् समती-तानामुदधेस्तीरसन्निधौ । मूल्यमेतत् खनीनान्तु न सर्वत्रमहीतले । सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ।तस्य सप्ततिमोभागः संज्ञारूपं करिष्यति । शाणश्चतु-मांषमानो माषकः पञ्चकृष्णलः । पलस्य दशमोभागोधरणः परिकीर्त्तितः । इति मानविधिः प्रोक्तो र-त्नानां मूल्यनिश्चये” । गारुडे ७३ अ० । “सितञ्चधूम्रसङ्काशमीषत्कृष्णसितं भवेत् । वैदूर्व्यनाम तद्रत्नंरत्नविद्भिरुदाहृतम् । ब्रह्मक्षत्रियविट्शूद्रजातिभेदा-श्चतुर्विधाः । सितनीलो भवेद्विपः सितरक्तस्तु वा-हुजः । पीतनीलस्तु वैश्यः स्यात् नील एव हि शू-दूकः” । अथ गुणाः “मार्ज्जारनयनप्रख्यं रसोनप्र-तिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य्यं देवभूष-णम् । सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च ।वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः” ।“उद्गिरन्निव दीप्तिं योऽसौ सुतार इतीर्य्यते । प्र-माणतोऽल्पं गुरु यद् घनमित्यभिधीयते । कलङ्कादि-विहीनं तदत्यच्छमिति कीर्त्तितम् । ब्रह्मशस्त्रकलाकार-श्चञ्चलो यत्र दृश्यते । कलिलं नाम तद्राज्ञः सर्वसम्पत्ति-कारकम् । विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ।कर्करं कर्कशं त्रासः कलङ्का देह इत्यपि । एते पञ्चमहादोषा वैदूर्य्याणामुदीरिताः । शर्करायुक्तमिव यत्प्रतिभाति च कर्करम् । स्पर्शेऽपि यत्तज्ज्ञेय च कर्कशंबन्धुनाशनम् । भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसं-क्षयम् । बिरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः । मल-दिग्ध इवाभाति देहो देहविनाशनः । जयति यदिसुवर्णत्यागहीनो यदा वा बहुविधमणिहारी भूपतिर्वा यति र्वा । दधदपि धृतदोषं जातु वैदूर्य्यरत्नं प्रतिह-तफलरूपः पातमेष्यत्यवश्यम्” । युक्तिकल्पतरुः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
