वैतरणी (vaitaraNI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiवैतरणी
- वितरेणन दानेन लंघ्यते-वितरण + अण् + ङीप्
नरक की नदी का नाम
वैतरणी
- वितरेणन दानेन लंघ्यते-वितरण + अण् + ङीप्
कलिङ्ग देश की नदी का नाम
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit वैतरणी, बैतरनी, नरकस्था
हिन्दूधर्मग्रन्थेषु वर्णिता यमद्वारस्य समीपस्था एका नदी।
"जनाः मन्यन्ते यद् मरणाद् अनन्तरं धर्मावलम्बिनं पुरुषं वैतरणीं पारं कर्तुं कापि बाधा न भवति।"
अभिधानचिन्तामणिः
Sanskritवैतरणी नरकस्था स्रोतोम्भःसरणं स्वतः ॥ १०८६ ॥
वैतरणी (स्त्री), नरकस्था (स्त्री), स्रोतस् (क्ली), अम्भःसरण (क्ली)
Mahabharata
EnglishVaitaraṇī, one or more rivers, also the river in the region of Yama. § 221b (Gaṅgā): I, 170, 6457 (in the regions of the Pitṛs the Gaṅgā becomes V.).--§ 268 (Varuṇasabhāv.): II, 9, 373 (present in the palace of Varuṇa).--§ 364 (Tīrthayātrāp.): III, 83, 6054 (with the tīrtha Tripishṭapa).-§ 370 (do.): III, 85, 8148 (sarvapāpapramocanīṃ, C. has by error Vatº).--§ 392b (do.): On the V. Dharma performed sacrifices, placing himself under the protection of the gods
on the northern bank ṛshis formerly and now performed sacrifices
it is equal to the path of the gods (devayānena pathā) to a man who has attained to Svarga. There Rudra seized the sacrificial beast as his share, but having been satisfied by sacrifice he gave up the beast and went by the path of the gods (devayānena). From fear of Rudra the gods reserved the best of all shares for him. He, who reciting this gāthā performs his ablutions there, sees with his eyes the path of the gods: III, 114, 10098 (in the country of the Kaliṅgas).--§ 392 (do.): III, 114, 10107 (do., visited by Yudhishṭhira, etc.).--§ 565 (Gālavacarita): V, 109, 3792 (vaitaraṇair vṛtā).--§ 574 (Jambūkh.): VI, 9, 342 (among the rivers of Bhāratavarsha).--§ 580 (Bhīshmavadhap.): VI, 59, †2638 (mahā-Vºīprakāśāṃ).--§ 586 (do.): VI, 103, 4719 (yathā Vºī pretān Pretarājapuraṃ prati).--§ 593 (Abhimanyuvadhap.): VII, 50, †1978 (bhayāvahā Vºīva dustarā).--§ 599 (Jayadrathavadhap.): VII, 146, 6189 (ghorāṃ Vºīm iva).--§ 600 (Ghaṭotkacavadhap.): VII, 171, 7730 (yathā Vºī…Yamarāshṭraṃ prati).--§ 608 (Karṇap.): VIII, 77, 3905 (yathā Vºīm ugrāṃ dustarām akṛtātmabhiḥ)
80, 4098 (mahā-Vºī yathā)
94, †4900 (iva).--§ 704 (Mokshadh.): XII, 320, 11128 (Yamakshaye).--§ 710 (do.): XII, 322, 12075 (ushṇāṃ Vºīṃ nadīm avagāḍhaḥ).-§ 793 (Mausalap.): XVI, 5, 142 (bhīmāṃ Vºīm iva).--§ 795 (Svargārohaṇap.): XVIII, 3, 84 (in hell).
पुराणम्
Englishवैतरणी १ / VAITARAṆĪ I. A hell. (See under kāla, the Section naraka).
वैतरणी २ / VAITARAṆĪ II. The name of river Ganges when it flows through the world of the Manes. (M.B. Ādi Parva, Chapter 169, Stanza 22).
वैतरणी ३ / VAITARAṆĪ III. A river. The prominence of this river is given below:(i) This river stays in the court of varuṇa and glorifies him. (mahābhārata, Sabhā Parva, Chapter 9, Stanza 20).(ii) This river gives remission of sins. There is a spot called Virajatīrtha, in this river. He who bathes in this holy place would shine like the moon. (M.B. Vana Parva, Chapter 85, Stanza 6).
शब्दकल्पद्रुमः
Sanskritवैतरणी, नरकसिन्धुः । इत्यमरः ॥
“वित-रणेन दानेन तीर्य्यते वैतरणी । ष्णःषित्त्वादीप् ष्णौ वैतरणिश्च । अटविपटिघाटी-वैतेरण्यर्च्चिशुण्ठीरिति ह्नस्वान्तेषु रुद्रः । ततो-ऽपि पाच्छोणादीति वा ईप् । विरुद्धं तरणंवितरणं तदस्यामस्तीति वैतरणीत्यन्ये । वित-रणौ विसूर्य्ये पाताले भवा वैतरणीत्यन्ये ।वितरणिर्विनौका तरणशून्येत्यर्थः स्वार्थे ष्णेवैतरणीत्येके । सिन्धुर्नदी ।‘नारका जन्तवः प्रेता नदी वैतरणी स्मृता ॥
’इति त्रिकाण्डम् ॥
”इति भरतः ॥
* ॥
सा नदी दुर्गन्धा तप्तजलामहावेगा अस्थिकेशरक्तपरिपूर्णा यमद्बारेवर्त्तते । यथा, --“नदी वैतरणी नाम दुर्गन्धा रुधिरावहा ।उष्णतोया महावेगा अस्थिकेशतरङ्गिणी ॥
”इति प्रायश्चित्तविवेकधृतयमदग्निवचनम् ॥
* ॥
अस्य उत्पत्तिर्यथा, --मार्कण्डेय उवाच ।“ततो ब्रह्मादयो देवाः सर्व्वे ते शङ्करान्तिकम् ।गत्वा हरं संमुमुहुः सांसार्य्या योगमायया ॥
शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा ।वाष्पवृष्टिं दुराधर्षामवजग्राह मायया ॥
यदा स नाशकद्वाष्पान् सन्धारयितुमर्कजः ।तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके ॥
लोकालोकस्य निकटे जलधाराह्वयो गिरिः ।पुष्करद्वीपपृष्ठस्थस्तोयसागरपश्चिमे ॥
स तु सर्व्वप्रमाणेन मेरुपर्व्वतसन्निभः ।तस्मिन् विन्यस्तवान् षाष्पान् न धर्त्तुं क्षमईशितुः ॥
विदीर्णस्तैस्तु वाष्पौघैर्भग्नमध्योऽभवद्द्रुतम् ।ते वाष्पाः पर्व्वतं भित्त्वा विविशुस्तोयसागरम् ॥
सागरोऽपि ग्रहीतु तान्न शशाक खरानति ।ततस्तु सागरं मध्ये भित्त्वा वाष्पाः समागताः ॥
तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्बिभेद ताम् ।विभिद्य वेलां ते वास्पाः पुष्करद्वीपमध्यगाः ॥
नदी वैतरणी भूत्वा पूर्व्वसागरगाभवन् ।जलधारस्य वेगेन संसर्गात् सागरस्य च ॥
अवाप्य सौम्यतां किञ्चिद्वाष्पास्ते नाभिदन्क्षितिम् ।त्वद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः ॥
अवजग्राह ते वास्पं सोऽपि कृष्णोऽभवद्धठात् ।शनैश्चरेण ते वोढमसमर्थेन लोतकैः ॥
क्षिप्तैर्वि दारितः सोऽसौ जलधारो महागिरिः ।विभिद्य पर्व्वतं शम्भोर्व्वास्पास्ते सागरं ययुः ॥
वैवस्वतपुरद्बारे योजनद्वयविस्तृता ।अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा ॥
भित्त्वा वेलां ततः पृथ्वीं विभिद्याशु तरङ्गिणीम् ।चक्रुर्वैतरणीनाम्ना पूर्व्वसागरगामिनीम् ॥
नानायानविमानेन न द्रौण्या स्यन्दनेन च ।तर्त्तुं शक्या सा तु नदी तप्ततोया विभीषणा ॥
दुःखेन तां तु पृथिवी बिभर्त्ति महताधुना ।सदा चोर्द्ध्वगतैर्वाष्पैर्विक्षिपन्ति नभश्चरान् ॥
तस्या उपरि नो यान्ति देवा अपि भयाद्धर ।यमद्धारं समावृत्य योजनद्वयविस्तृता ।निम्नं वहति संपूर्णा भीषयन्ती जगत्त्रयम् ॥
”इति कालिकापुराणे १८ अध्यायः ॥
* ॥
आसन्नमृत्युकाले वैतरणीगवीदानं यथा, --“आसन्नमृत्युना देया गौः सवत्सा च पूर्व्ववत् ।तदभावे च गौरेका नरकोद्धारणाय वै ॥
तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् ।शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्यच ॥
”पूर्व्ववद्धेमशृङ्गादिना । अत्र मृतस्य चेति श्रवणा-देकादशाहेऽपि वैतरणीदानाचारः । इतिशुद्धितत्त्वम् ॥
* ॥
वैतरणीगोदानानन्तरंप्रार्थनामन्त्रो यथा, --“यमद्वारे महाघोरे तप्ता वैतरणी नदी ।ताञ्च तर्त्तुं ददाम्येनां कृष्णां वैतरणीञ्च गाम् ॥
”इति तत्प्रयोगः ॥
अन्यत् मुमूर्षुशब्दे द्रष्टव्यम् ॥
पितृकन्या । यथा, --“अयज्वानश्च यज्वानः षितरो ब्रह्मणः स्मृताःअग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः ।तेभ्यः स्वधा मुतां जज्ञे मेनां वैतरणीं तथा ॥
”इति कौर्म्मे १३ अध्यायः ॥
* ॥
(कलिङ्गदेशस्थ-नदीविशेषः । यथा, महा-भारते । ३ । ११४ । ४ ।“एते कलिङ्गाः कौन्तेय ! यत्र वैतरणी नदी ।यत्रायजत धर्म्मोऽपि देवाञ्छरणमेत्य वै ॥
”)
वाचस्पत्यम्
Sanskritवैतरणि(णी) स्त्री वितरणेन दानेन लङ्घ्यते अण् ङीप्वा पृषो० ह्रस्वः । यमद्वारस्थे नदीभेदे “नदी वैतरणीनाम दुर्गन्धा रुधिरावहा । उष्णतोया महावेगाअस्थिकेशतरङ्गिणी” प्रा० वि० जमदग्निः । तस्या उत-पत्त्यादि कालिकापु० १८ अ० उक्तं यथा“शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा । वाष्पवृष्टिंदुराधर्षामवजग्राह मायया । यदा स नाशकत् वाष्पान्सन्धारयितुमर्कजः । तदा महागिरौ क्षिप्ता वाष्पास्तेजलधारके । लोकालोकस्य निकटेजलधाराह्वयो गिरिः ।पुष्करद्वोपपृष्ठस्थस्तोयसागरपश्चिमे । स तु सर्वप्रमाणेनमेरुपर्वतसन्निभः । तस्मिन् विन्यस्तवान् वाष्पान् न धर्त्तुंक्षम ईशितुः । विदीर्णस्तैस्तु वाष्पोघैर्मग्नमध्योऽभवद्-दुतम् । ते वाष्पाः पर्वतं भित्त्वा विविशुस्तोयसागरम् ।सागरोऽपि ग्रहीतुं तान्न शशाक खरानति । ततस्तुसागरं मध्ये भित्त्वा वाष्पाः समागताः । तोयधेः प्राग्-भवां वेलां स्पर्शमात्राद्बिभेद ताम् । विभिद्यं वेलां तेवाष्पाः पुस्करद्वीपमध्यगाः । नदी वैतरणी भूत्वा पूर्व-सागरगाऽभवत् । जलधारस्य वेगेन संसर्गात् सागरस्यच । अवाप्य सौम्यतां किञ्चिद् वाष्पास्ते नाभिदन् क्षि-तिम् । तद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः ।अवजग्राह तान् वाष्पान् सोऽपि कृष्णोऽभवद्धठात् । शनै-श्चरेण तं वोढुमसमर्थेन लोतकैः । क्षिप्तैर्विदारितः सो-ऽसौ जलधारो महागिरिः । विभिद्य पर्वतं शम्भोर्वा-ष्पास्ते सागरं ययुः । वैवस्वतपुरद्वारे योजनद्वयविस्तृता ।अद्यापि तिष्ठत्यापगा हरलोतकसम्भवा । भित्त्वा वेलांततः पृथ्वीं विभिद्याशु तरङ्गिणीम् । चक्रुर्वैतरणीं नाम्नपूर्वसागरगामिनीम् । नानायानविमानेन न द्रौण्यास्यन्दनेन च । तर्त्तुंशक्या सा तु नदी तप्ततोया विभी-षणा । दुःखेन तां तु पृथिवी बिभर्त्ति महताधुना । सदाचोर्द्ध्वगतैर्वाष्पैर्विक्षिपन्ति नभश्चरान् । तस्या उपरि नोयान्ति देवा अपि भयाद्धरात् । यमद्वारं समावृत्य योजनद्वयविस्तृता । निम्नं वहति संपूर्णा भीषयन्ती जगत्त्रयम्”२ पितृकन्याभेदे “अयज्वानश्च यज्वानः पितरो ब्रह्मणःस्मृताः । अग्निष्वात्ता बर्हिषदो द्विधा तेर्षा व्यवस्थितिः ।तेभ्यः स्वधा, स्वधा जज्ञे मेनां वैतरणीं तथा” कूर्म्मपु० १२ अ० । वितरत्यनया तॄ--करणे ल्युट् ङीप् । आसन्नमृत्युकाले दातव्यायां ३ गवि च “आसन्नमृत्युना देया गौःसवत्सा च पूर्ववत् । तदभावे च गौरेका नरकोद्धारणायवे । तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् ।शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्य च” ।पूर्ववत् हेमशृङ्गादिना अत्र मृतस्य सेति चकारश्रवणात्एकादशाहेऽपि वैतरणीदानाचारः” शु० त० रघु० ।“यमद्वारे महाघोरे तप्ता वैतरणी नदी । ताञ्च तर्त्तुंददाम्येनां कृष्णां वैतरणीञ्च गाम्” शु० त० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
