| YouTube Channel

वैडालव्रती (vaiDAlavratI)

 
शब्दकल्पद्रुमः
Sanskrit
वै(बै)डालव्रती, [न्]
पुं,
(वैडालव्रतमस्त्यस्येति ।इनिः ।) भण्डतापसः विडालतपस्वी इतिभाषा यथा, कौर्म्मे उपविभागे अध्याये ।“छद्मना चरितं तच्च व्रतं रक्षसि गच्छति ।अलिङ्गी लिङ्गवेशेन यो लिङ्गमुपजीवति ।स लिङ्गिनां हरेदेनस्तिर्य्यग्योनौ जायते
वैडालव्रतिनः पापाः सर्व्वधर्म्मविनाशकाः ।सद्यः पतन्ति पापेषु कर्म्मणस्तस्य तत्फलम्
पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव ।पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्च्चयेत्