| YouTube Channel

वैडालव्रतिकः (vaiDAlavratikaH)

 
शब्दकल्पद्रुमः
Sanskrit
वै(बै)डालव्रतिकः,
पुं,
(विडालव्रतेन चरतीति ।विडालव्रत + ठक् ।) छद्मतपस्वी तत्पर्य्यायः ।छद्मतापसः सर्व्वाभिसन्धी इति त्रिकाण्ड-शेषः
तस्यासंभाष्यत्वं यथा, --“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्शठान् ।हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत्
”इति विष्णुपुराणे अंशे १८ अध्यायः
“यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः ।प्रच्छन्नानि पापानि वैडालं नाम तद्व्रतम्
”तद्वान् वैडालव्रतिकः इति तट्टीका