| YouTube Channel

वैक्रान्तं (vaikrAntaM)

 
शब्दकल्पद्रुमः
Sanskrit
वैक्रान्तं,
क्ली,
(विक्रान्त्या दीव्यति विक्रान्ति +अण् ।) मणिविशेषः तत्पर्य्यायगुणौ ।“वैक्रान्तञ्चैव विक्रान्तं नीचवज्रं कुवज्रकम् ।गोनासः क्षुद्रकुलिशं जीर्णवज्रञ्च गोनसः
वज्राभावे वैक्रान्तं रसवीर्य्यादिके समम् ।क्षयकुष्ठविषघ्नञ्च पुष्टिदं सुरसायनम्
वैक्रान्तं वज्रसादृश्यं वज्रवद्रसवीर्य्यकम् ।तथाप्यभावे वज्रस्य ग्राह्यं वैक्रान्तमुत्तमम्
वज्राकारतयैव प्रसह्य हरणाय सर्व्वरोगाणाम् ।यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम्
”इति राजनिर्घण्टः