| YouTube Channel

वैकृतं (vaikRtaM)

 
शब्दकल्पद्रुमः
Sanskrit
वैकृतं,
क्ली,
(विकृतमेव “सान्नायानुजेति ।”५ ३६ इत्यस्य वार्त्तिकोक्त्या अण् विकारः ।यथा, रामायणे ४८ ३२ ।“प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्
”दुर्निमित्तम् यथा, रघुः ११ ६२ ।“तत्प्रतीपपवनादिवैकृतंप्रेक्ष्य शान्तिमधिकृत्य कृत्यवित्
”तथाच महाभारते १३७ ।“वैकृतं त्वग्निहोत्रे लक्षयित्वा महातपाः ।तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्
”)वीभत्सरसः तदालम्बने मांसशोणितादौ, त्रि ।इत्यमरटीकायां भरतः
तथाच ।“विकृतं वैकृतञ्च स्यात्तच्च वैकृत्यमुच्यते
”इति भरतद्बिरूपकोषः
(विकारजाते यथा, भागवते १० ४५ ।“अयन्तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः
”)