| YouTube Channel

वेहृ (vehR)

 
धातुप्रदीपः
Sanskrit
वेहृँ वेहृ
मानकरूपान्तरम् - जेहृँ
जेहृ
मानकरूपान्तरम् - वाहृँ
वाहृ प्रयत्ने
- वेहते अविवेहत्। वेह्यते जेहते ।वाहते वाढं भृशम्। वाहितम् ।। 643-645 ।।
क्षीरतरङ्गिणी
Sanskrit
वेहृँ वेहृ
मानकरूपान्तरम् - जेहृँ
जेहृ
मानकरूपान्तरम् - बाहृँ
बाहृ प्रयत्ने
- वेहते संश्चत्तृद्वेहद् (उ0 186) इति वेहद् गर्भघ्नी गौः, विहन्ति इत्येके बाहते क्षुब्धस्वान्त (7219) इति बाहेर्बाढम् बाहितम् वह प्रापणे (1731) वहति, वहते वोढा 634-636
धातुवृत्तिः
Sanskrit
वेहृँ वेहू[वेहृ?]
मानकरूपान्तरम् - जेहृँ
जेहू[जेहृ?]
मानकरूपान्तरम् - बाहृँ
बाहू[बाहृ?] (अर्थः) प्रयत्ने
आद्यो दन्त्यौष्ठ्यादी अन्त्यः केवलोष्ठ्यादिः उभावपि केवलौष्ठ्यादी इत्येके दन्त्यौष्ठ्यादी इत्यन्ये (वेहते जेहते बाहते) इत्यादि, ऋदित्त्वाणौ चङि ह्रस्वाभावः (अविवेहदित्यादि वेहत् ) गर्भोपघातिनी गौः ( संश्चतृपद्वेहत् ) इति अतिप्रत्यये निपात्यते (गोवेहत् ) "पोटायुवतिस्तोक'' इत्यादिना कर्मधारयः (वाहा) अजन्तत्वाट्टाप्, (बाढं), "क्षब्ध'' इत्यादिना निष्ठायामिडभावो भृशार्थेऽन्यत्र ( बाहितम् ) जेहतिर्गत्यर्थोपि, उक्तं रेणुभिर्जहमामं भट्टभास्करीयम् 636
कृदन्तरूपमाला
Sanskrit
1 {@“वेहृ प्रयत्ने”@} 2 ‘बेहृ--’ इत्येके इति धा।
का।
व्या।
3।
“दन्त्यौष्ठ्यादिः।
केवलौष्ठ्यादिः इत्येके, इति मा।
धा।
वृत्तिः।
वेहकः-हिका, वेहकः-हिका, विवेहिषकः-षिका, वेवेहकः-हिका
वेहिता-त्री, वेहयिता-त्री, विवेहिषिता-त्री, वेवेहिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकपेसतिवत् 4 ज्ञेयानि।
5 वेहत्, गोवेहत्।
प्रासङ्गिक्यः
01
=>
(१६५०)
02
=>
(१-भ्वादिः-६४३। अक। सेट्। आत्म।)
03
=>
(१-८१)
04
=>
(१०६१)
05
=>
[[१। ‘संश्चतृपद्वेहत्’ (द। उ। ६-६) इति कतिप्रत्यये निपात्यते। तेन रूपमेवम्। वेहद् = गर्भोपधातिनी गौः। गोवेहत् इत्यत्र तु ‘पोटायुवतिस्तोककतिपयगृष्टिधेनु- वशावेहद्--’ (२-१-६५) इत्यादिना कर्मधारयः।]]