| YouTube Channel

वेसिता-त्री (vesitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विसृ गतौ”@} 2 पिसृ इत्यत्र ‘इह क्वचित् कोशे ‘विसृ वेसृ--’ इत्यपि पठ्येते।
आद्यौ दन्त्यौष्ठ्यादी’ इति मा।
धा।
वृत्तौ।
मैत्रेयादिषु दृश्यते इति च।
‘विश--’ इति पठित्वा ‘विस’ इति कातन्त्राः इति काशकृत्स्ने।
‘मैत्रेय- कातन्त्रशाकटायनहेमादयः पठन्ति’ इति पा।
धा।
समीक्षायां दृश्यते।
3 अन्ये सर्वेऽपि ‘बिस’ इत्येव पठन्ति।
बालमनोरमायां तु ‘विस प्रेरणे’ इति दिवादौ पठ्यते।
सि।
कौमुद्यां त्वत्र ‘बिस’ इत्येव।
वेसकः-सिका, वेसकः-सिका, विविसिषकः-विवेसिषकः-षिका, वेविसकः-सिका
वेसिता-त्री, वेसयिता-त्री, विवेसिषिता-विविसिषिता-त्री, वेविसिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककिटतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१६१६)
02
=>
(१-भ्वादिः-७१९। सक। सेट्। पर।)
03
=>
(वस्तुतस्तु)
04
=>
(१९०)
1 {@“वेसृ गतौ”@} 2 ‘पिसृ पेसृ’ इत्यत्र भ्वादौ ‘… वेसृ इति सभ्याः।
वेसरः-नासाभूषणम्।
3 वेसरोऽश्वतरः’ इति क्षीरस्वामी।
धातुवृत्तावपि ‘इह क्वचित्कोशे विसृ वेसृ… इत्यपि पठ्यते’ इत्युक्तम्।
‘एते मैत्रेयादिषु दृश्येते’ इति चोक्तम्।
वेसकः-सिका, वेसकः-सिका, विवेसिषकः-षिका, वेवेसकः-सिका
वेसिता-त्री, वेसयिता-त्री, विवेसिषिता-त्री, वेवेसिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकपेसतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१६४९)
02
=>
(१-भ्वादिः-७२०। सक। सेट्। पर।)
03
=>
[[आ। ‘तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि।’ शि। व। १२-९।]]
04
=>
(१०६१)