| YouTube Channel

वेसनं (vesanaM)

 
शब्दकल्पद्रुमः
Sanskrit
वेसनं,
क्ली,
(वेस + ल्युट् ।) द्बिदलचूर्णम् यथा, --“दालयश्चणकानान्तु निस्तुषा यन्त्रपेषिताः ।तच्चूर्णं वेसनं प्रोक्तं पाकशास्त्रविशारदैः
”तद्वटिकागुणाः ।“वटिका वेसनस्यापि क्वथितायां निमज्जति ।रुव्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता
”इति भावप्रकाशः