| YouTube Channel

वेव्लीयिता-त्री (vevlIyitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्ली वरणे”@} 2 प्वादिः, ल्वादिश्च।
अयं धातुः काशकृत्स्नीये दृश्यते।
व्लायकः-यिका, 3 व्लेपकः-षिका, विव्लीषकः-षिका, वेव्लीयकः-यिका
व्लेता-त्री, व्लेपयिता-त्री, विव्लीषिता-त्री, वेव्लीयिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकप्लिनातिवत् 4 बोध्यानि।
5 व्लीनः-व्लीनवान्, “‘प्रहीणं व्लीनाति, नैनं दक्षिणा व्लीनाति’ इत्यादौ दीर्घः 6 छान्दसः” इति धातुवृत्तिः।
7 व्लिनन्-ती।
प्रासङ्गिक्यः
01
=>
(१६६९)
02
=>
(९-क्र्यादिः-१५०२। सक। अनि। पर।)
03
=>
[[५। ण्यन्ते, ‘अर्तिह्रीव्ली--’ (७-३-३६) इत्यादिना पुगागमे ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणे रूपमेवम्।]]
04
=>
(१०८१)
05
=>
[[६। ल्वादित्वात् ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठानत्वे रूपमेवम्।]]
06
=>
[पृष्ठम्१२७९+ ३०]
07
=>
[[१। शतरि श्नाप्रत्यये ‘श्नाभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपे, ‘प्वादीनां--’ (७-३-८०) इति ह्रस्वे रूपमेवम्।]]