| YouTube Channel

वेवायकः-यिका (vevAyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वेवीङ् वेतिना तुल्ये”@} 2 3 ‘दरिद्राजागृदीधीङाम् एकाचां चिरेर्जिरेः।
अदन्तोर्णोतिवेवीङां स्मर्यते नेत् तथा लडेः।।’ इति वचनात् अस्य धातोरनेकाच्त्वात् यङ् भवति।]] छान्दसः।
‘-- वी4समानार्थे’ इति हेमचन्द्रः।
‘कान्तिगतिव्याप्तिक्षेपप्रजनखादनेषु’ इति वोपदेवः।’ इति पा।
धा।
समीक्षा।
‘वी गतिप्रजनकान्त्यसनखादनेषु’ इत्युक्तेन वेतिना तुल्येऽर्थ इत्यर्थः’ इति धा।
का।
व्याख्याने 5।
‘सेटावात्मनेभाषौ इमौ छान्दसौ’ इति भाष्यवार्त्तिकयोः स्थितम् 6।
नेति कातन्त्रीयाः।
पाणिनिस्तु विशेषमाह’ इति क्षी।
टिप्पन्यां दृश्यते।
‘-- वेतनातुल्ये कर्मकरवद् व्यवहारे’ इति काशकृत्स्नः।
अयं पाठोऽपपाठ इति क्षीरस्वामिना दूषितम्।
वेवायकः-यिका, वेवायकः-यिका, 7 विवेविषकः-षिका
वेवयिता-त्री, वेवाय-यिता-त्री, विवेविषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकदीधीङ्धातुवत् 8 बोध्यानि।
9 वेव्यानः इति शानचि।
10
प्रासङ्गिक्यः
01
=>
(१६४७)
02
=>
(२-अदादिः-१०७७। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(धातु)
05
=>
(२-५२)
06
=>
(महाभाष्यम् १-१-६)
07
=>
[[२। सन्नन्तात् ण्वुलि सन इडागमे द्वित्वादिकेषु कृतेषु उत्तरखण्डे ‘यीवर्णयोर्दीधीवेव्योः’ (७-४-६५) इतीकारलोपे षत्वे रूपमेवम्।]]
08
=>
(८४५)
09
=>
[[B। ‘देवं स्फुरद्दीधितिमम्बुजाक्ष्यो वेव्यानमालोक्य विमोहमापुः।।’ धा। का। २-५२।]]
10
=>
[पृष्ठम्१२६७+ २७]