| YouTube Channel

वेलृ (velR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वेल्
मूलधातुः:
वेलृ
धात्वर्थः:
चलने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
वेलति
धातुप्रदीपः
Sanskrit
वेलृँ वेलृ
मानकरूपान्तरम् - चेलृँ
चेलृ
मानकरूपान्तरम् - केलृँ
केलृ
मानकरूपान्तरम् - खेलृँ
खेलृ
मानकरूपान्तरम् - क्ष्वेलृँ
क्ष्वेलृ
मानकरूपान्तरम् - वेल्लँ
वेल्ल
मानकरूपान्तरम् - चेल्लँ
चेल्ल चलने
- वेलति विवेल अविवेलत् वेला चेलति चेलम् गौरादि ङीष्, पचादिषु चेलडिति पाठाद्वा स्त्रियां ङीप्-चेली केलति केलम् केला केलिः कण्ड्वादित्वाद् यक्-केलायति केलायितम् खेलति खेलयति खेला खेलायति (67) क्ष्वेलति वेल्लति चेल्लति ।। 535-541 ।।
धातुवृत्तिः
Sanskrit
वेलृँ वेलृ
मानकरूपान्तरम् - चेलृँ
चेलृ
मानकरूपान्तरम् - खेलृँ
खेलृ
मानकरूपान्तरम् - श्वेलृँ
श्वेलृ
मानकरूपान्तरम् - वेल्लँ
वेल्ल (अर्थः) चलने
(वेलतीत्यादि वेला ) "गुरोश्च'' इत्यकारः ( चेलति चेलः ) पचादौ चेलडिति पाठात् अच्, ठित्वं स्त्रियां ङीबर्थ, चिल वसनइत्यस्माद्वा चेलम् प्रसङ्गादत्र किं चिदुच्यते कुत्सिता ब्राह्मणी ब्राह्मणिचेलीति "कुत्सितानि कुत्सःनै'' कुत्साहेतुधर्मवचनैः समानाधिकरणैः समस्यन्तइति तत्पुरुषः "घरूप'' इत्यादिना ह्रस्वः चेलादयो वृत्तिविषये कुत्सनवचना इति भवतावुक्तम् तत्र चेलमुकुलोनेन तन्तुवायेनोत्पादितं भवति, तत्सादृश्याद् ब्राह्मण्यादिषु वृत्त्वा चेलशब्दस्य कुस्मनवचनत्वम् (स्त्रिचेली, स्त्रीचेली वा, वामोरुचेली, वामोरूचेली वा ) ( सूत्रम्) नद्याः शेषस्यान्यतरस्याम् (इति सूत्रम्) इति इस्व विकल्पः अङीच या नदी ङयन्तं यदेकाच् सशेषः तस्य घदिषु वा ह्रस्व इति सूत्रार्थः अत्रान्तरेणापि शेषग्रहणं पूर्वसूत्रव्यतिरिक्तविषयत्वे सिद्धे तत्सामर्थ्यात्पूर्व श्रुतङ्यन्तानेकाजपेक्षं शेषत्वं बोधयितुं, तेन यदङ्यन्तमनेकाच्च ङ्यन्तमेकाच् तत्रैवायं विकल्प इति यदभाषितपुंस्कमामलक्यादि यच्च समानायामाककृतौ अभाषितपुंस्कं द्रोण्यादि पूर्वसूत्राविषंयं तत्र भवति ( लक्ष्मीचेली यवागूचेली ) इत्यादौ ङयन्तनदीत्वेपि [कृन्नद्याः प्रतिषेधः ] इत्युक्तत्वान्नायं विधिर्भवति (श्रीचेली) इत्यादौ तु नदीग्रहणान्नास्य प्रसङ्गः नापि पूर्वसूत्रस्य, ङयतन्तानेकाच्त्वाभावात् (विदुवीचेली) इत्यदादौ ( सूत्रम्) उगितश्च (इति सूत्रम्) उगितः परा या नदी तस्या ह्रस्वविकल्पः विद्वच्छ्रेयसोः पुंवद्भावोत्र पक्षे वक्तव्य इति वृत्तावुक्तत्वात् (विच्चेली) इत्यपि भवति ( केलति केलिः ) इन्प्रत्यये ( केली ) अप्रत्ययः ( केला केलयति ) "कण्ड्वादिभ्यो यक्'' इति स्वार्थे यक् सनाद्यन्वत्वेन धातुत्वे लडादि ( खेलति खेला ) अयमपि कण्ड्वादिः ( वेल्लति वेल्लो विषम् ) संज्ञायां घञ् ( वेल्लयति ) वेल्लादीनां पञ्चानामृदित्त्वाच्चङीति हस्वाभावात् ( अविवेलदिति ) भवति वेल्लस्तृवनुपधात्वान्न ह्रस्वप्रसङ्गः 533
कृदन्तरूपमाला
Sanskrit
1 {@“वेलृ चलने”@} 2 ‘वेलेत्तु चलने वेलेर्वरणे विलतीति शे।।’ 3 इति देवः।
‘-- गतौ’ इति काशकृत्स्नकातन्त्रौ पठतः।
‘वेलॢ--’ इति पठित्वा वेल्लेर्द्विर्बद्धो लकारः--वेल्लति’ इति क्षीरस्वामी।
वेलकः-लिका, वेलकः-लिका, विवेलिषकः-षिका, वेवेलकः-लिका
वेलिता-त्री, वेलयिता-त्री, विवेलिषिता-त्री, वेवेलिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककेलतिवत् 4 ज्ञेयानि।
5 वेला, 6 वेलनः, ‘वेलुः = हस्ताभरणम्’ इति काशकृत्स्नः।
7
प्रासङ्गिक्यः
01
=>
(१६४५)
02
=>
(१-भ्वादिः-५३५। सक। सेट्। पर।)
03
=>
(श्लो। १५७)
04
=>
(२६२)
05
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्यये रूपमेवम्। “वेला तु ‘वेल कालोप- देशे’ (१०-१६५) इत्यस्मात्” इति क्षीरतरङ्गिण्यां दृश्यते। तदेव न्याय्यम्।]]
06
=>
[[५। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति ताच्छीलिके युच्प्रत्यये अनादेशे रूपमेवम्।]]
07
=>
[पृष्ठम्१२६६+ २५]