| YouTube Channel

वेयम् (veyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“अज गतिक्षेपणयोः”@} 2 क्षेपणम् = प्रेरणम्।
3 वायकः-यिका, वायकः-यिका विवीषकः- 4 अजिजिषकः-षिका,
वेवीयक
5 वेता-त्री, 6 अजिता-त्री, वाययिता-त्री, विवीषिता-त्री, अजिजिषिता, वेवीयिता-त्री
अजन् 7 -न्ती, वाययन्-न्ती, विवीषन्-न्ती, अजिजिषन्-न्ती
वेष्यन्-न्ती-ती, अजिष्यन्-ती-न्ती, बाययिष्यन्-ती-न्ती, विवीषिष्यन्-ती-न्ती, अजिजिषिष्यन्-ती-न्ती
वाययमानः, वाययिष्यमाणः, वेवीयमानः, वेवीयिष्यमाणः
परिवीः-परिव्यौ-परिव्यः, समक्-समजौ-समजः
वीतः, अजितः-वायितम्-तः, विवीषितः, अजिजिषितः, वेवीयितः-तम्-तवान्, अजः, 8 अजा, 9 आजिः, 10 पदाजिः, 11 विवीषुः, विवाययिषुः, अजिजिषुः, आजिजयिषुः, वेबीय
12 वेतव्यम्-अजितव्यम्, वाययितव्यम्, विवीषितव्यम्, अजिजिषितव्यम्, वेवीयितव्यम्
वयनीयम्, वायनीयम्, विवीषणीयम्, अजिजिषणीयम्, वेवीयनीयम्
वेयम्, वाय्यम्, विवीष्यम्, अजिजिष्यम्, वेवीय्यम्
ईषद्वयः, दुर्वयः, सुवयः
वीयमानः, वाय्यमानः, विवीष्यमाणः, अजिजिष्यमाणः
वेवीय्यमानः
13 समजः, 14 समाजः 15, उदाजः, -वायः, वात 16 मजा 17 18, व्यजः 19, व्याजः 20
वेतुम्, अजितुम्, वाययितुम्, विवीषितुम्, अजिजिषितुम्, वेवीयितुम्
वीतिः, अक्तिः, 21 समज्या, वायना, विवीषा, विवाययिषा, अजिजिषा, आजिजयिषा, वेवीया
प्रवयणम् 22 -प्राजनम्, वायनम्, विवीषणम्, अजिजिषणम्, वेवीयनम्
वीत्वा, अजित्वा, वाययित्वा, विवीषित्वा, अजिजिषित्वा, वेवीयित्वा
प्रवीय, प्राज्य, प्रवाय्य, प्रविवीष्य, प्राजिजिष्य, प्रवेवीय्य
वायम् २, वीत्वा २, अजित्वा २, वायम् वाययित्वा २, विवीषम् २, विवीषित्वा २, अजिजिषम् २, अजिजिषित्वा २, वेवीयम् २, वेवीयित्वा
औणादिके = अजिनम् 23 -अजिरम् 24
25
प्रासङ्गिक्यः
01
=>
(९)
02
=>
(भ्वादिः-१-२३०-सक। सेट्-पर-)
03
=>
[[१। ‘अजेर्व्यघञपोः’ (२-४-५६) इति वीभावः।]]
04
=>
[[२। ‘वलादावार्धधातुके वेष्यते’ (२-४-५६ वा) इति वा वीभावः।]]
05
=>
[[१। आ। आर्धधातुकविवक्षायां वीभावात् हलादित्वात् यङ्।]]
06
=>
[[२। ‘वलादावार्धधातुके वेष्यते’ (२-४-५६ वा) इति वा वीभावः।]]
07
=>
[[आ। ‘अकर्जितोऽसौ हरिखर्जनोत्कधीः अजत्पशुब्रातमजेन तेजितम्’ धा-का-१-३१।]]
08
=>
[[आ। ‘अकर्जितोऽसौ हरिखर्जनोत्कधीः अजत्पशुब्रातमजेन तेजितम्’ धा-का-१-३१।]]
09
=>
[[३। ‘अजाद्यतष्टाप्’ (४-१-४) इति टाप्]]
10
=>
[[४। ‘अज्यतिभ्याम्--पादे च’ (४-१३१) इत्यौणादिकः इण् प्रत्ययः।]]
11
=>
[[४। ‘अज्यतिभ्याम्--पादे च’ (४-१३१) इत्यौणादिकः इण् प्रत्ययः।]]
12
=>
[पृष्ठम्०००९+ ३९]
13
=>
[[१। ‘समुदोरजः पशुषु’ (३-३-६९) इत्यपू।]]
14
=>
[[१आ ‘अजिव्रज्योश्च’ (७-३-६०) इति कुत्वं भवति। ‘पशूनां समजो ऽन्येषां समाजोऽथ सधर्मिणाम्’ इति अमरकोशः।]]
15
=>
[[B। ‘गुहाद्वारेण निर्यातः समजेन पशूनिव’ भट्टिकाव्ये-७-५९।]]
16
=>
[[C। ‘मेघात्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम्’ भ-का-२-१७।]]
17
=>
[[२। ‘वातशुनीतिलशर्घेषु अजधेट्जहातीनां’ (वा। ३-२-२८) इति खश्। मुम्। सार्वधातुकत्वान्न वीभावः।]]
18
=>
(मृगाः)
19
=>
[[३। ‘गोचरसंचरवहव्रजव्यज-’ (३-३-११९) इति घान्तो निपातितः।]]
20
=>
[[ड्। ‘निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिना कुमारः’ भ-का-२-३७।]]
21
=>
[[४। ‘संज्ञायां समज-’ (३-३-९९) इति स्त्रियां क्यप्। निपातनात् वीभावो न।]]
22
=>
[[५। ‘वा यौ’ (२-४-५७) इति वीभावो वा।]]
23
=>
[[६। अजिनम् = चर्म। अजति-वीयते वा तत्-कर्म, कर्ता वा। इन प्रत्ययः।]]
24
=>
[[७। अजिरम् = वेश्म। अजन्त्यस्मिन् इत्यधिकरणे किर प्रत्ययः।]]
25
=>
[पृष्ठम्००१०+ २७]
1 {@“वा गतिगन्धनयोः”@} 2 ‘गतिगन्धनयोर्वाति वायतीति तु शोषणे।
वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
“… हेमचन्द्रस्तु ‘वा तण्’ इति पठित्वा ‘सुखसेवनयोरित्येके’ इति चोक्त्वा ‘वेत्येके’ इत्यप्याह” इति पुरुषकारवचनमत्रानुसन्धेयम्।
‘अर्दनं हिंसनं गन्धनम् इति लीलाशुकः’ इति धातुकाव्ये 4।
‘गन्धनं-- सौरभ्यकरणम्’ इति सहस्रनामभाष्ये।
‘-- गमनहिंसयोः’ इति वोपदेवः।
‘-- गतिगन्धनयोः--चलने दुर्गन्धे च’ इति काशकृत्स्नः।
वायकः-यिका, 5 वाजकः-जिका, वापकः-पिका, विवासकः-सिका, वावायकः-यिका
वाता-त्री, वापयिता-त्री, वाजयिता-त्री, विवासिता-त्री, वावायिता-त्री
6 वान्-न्ती, 7 वापयन्-वाजयन्-न्ती, विवासन्-न्ती
-- वास्यन्-न्ती-ती, वापयिष्यन्-वाजयिष्यन्-न्ती-ती, विवासिष्यन्-न्ती-ती
-- 8 व्यतिवानः, वापयमानः, वाजयमानः, -- वावायमानः
-- वापयिष्यमाणः-वाजयिष्यमाणः, -- वावायिष्यमाणः
9 वातम्-तः, 10 निर्वाणः 11, निर्वातो 12, वापितः, वाजितः, विवासितः, वावायितः-तवान्
वातः, 13 वानः, वापः, वाजः, वातूलः, 14 विवासुः, वावायः
15 प्रणिवातव्यम्, वापयितव्यम्-वाजयितव्यम्, विवासितव्यम्, वावायितव्यम्
वानीयम्, वापनीयम्-वाजनीयम्, विवासनीयम्, वावायनीयम्
वेयम्, वाप्यम्-वाज्यम्, विवास्यम्, वावास्यम्
16 ईषद्वानः-दुर्वानः-सुवानः
-- -- वायमानः, वाप्यमानः-वाज्यमानः, विवास्यमानः, वावाय्यमानः
वायः, वापः-वाजः, विवासः, वावायः
वातुम्, वापयितुम्-वाजयितुम्, विवासितुम्, वावायितुम्
वातिः, वापना-वाजना, विवासा, वावाया
वानम्, वापनम्-वाजनम्, विवासनम्, वावायनम्
वात्वा, वापयित्वा-वाजयित्वा, विवासित्वा, वावायित्वा
प्रवाय, प्रवाप्य-प्रवाज्य, प्रविवास्य, प्रवावाय्य
वायम् २, वात्वा २, वापम् -वाजम् २, वापयित्वा -वाजयित्वा २, विवासम् २, विवासित्वा २, वावायम्
वावायित्वा
17 वातिः, वातिकम्, वातकी, वात्या 18, 19 वायुः, 20 वातः, 21 वामः।
22
प्रासङ्गिक्यः
01
=>
(१५८४)
02
=>
(२-अदादिः-१०५०। सक। अनि। पर।)
03
=>
(श्लो। १०)
04
=>
(२-४९)
05
=>
[[१। ण्यन्तात् ण्वुलि ‘वो विधूनने जुक्’ (७-३-३८) इति विधूननेऽर्थे कम्पनार्थे णौ परतः जुगागमो भवति। विधूननभिन्नार्थे तु आदन्तलक्षणे पुगागमे आवापकः इत्यादीनि रूपाणि। ण्यन्ते सर्वत्र रूपद्वयमेवमूह्यम्।]]
06
=>
[[आ। ‘आध्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च।।’ भ। का। २-१०]]
07
=>
[[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति कर्त्रभिप्रायक्रियाफलविवक्षायां ण्यन्ते परस्मैपदमेव भवति।]]
08
=>
[[३। ‘कर्तरि कर्मव्यतिहारे’ (१-३-१४) इति तङ्।]]
09
=>
[पृष्ठम्१२२२+ २७]
10
=>
[[१। निष्ठायाम् ‘निर्वाणोऽवाते’ (८-२-५०) इति अवाताधिकरणत्वे निष्ठातकारस्य नकारादेशे, णत्वे रूपमेवम्। वातार्थे तु निर्वातो = वायुः इति।]]
11
=>
[अग्निः, भिक्षुर्वा]
12
=>
[वातः]
13
=>
[[२। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युच्प्रत्ययः।]]
14
=>
[[आ। ‘वातूल इव तूलानां वानराणां रणाजिरे।’ च। रा। ६-७२]]
15
=>
[[३। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवाति--’ (८-४-१७) इति उपसर्गस्थान्निमित्ता- दुत्तरस्य नेर्नकारस्य णकारादेशो भवति।]]
16
=>
[[४। ईषदाद्युपपदेषु खलपवादे आदन्तलक्षणे युच्प्रत्यये रूपमेवम्।]]
17
=>
[[५। ‘वातेर्नित्’ (द। उ। १-७८) इत्यतिप्रत्यये नित्संज्ञके रूपमेवम्। वातीति वातिः = गन्धमिश्रपवनः।]]
18
=>
[[B। ‘मरुत्किमद्यापि तासु शिक्षते वितत्य वात्याभयचक्रचङ्क्रमान्।।’ नैषधे १-७३]]
19
=>
[[६। ‘कृवापा--’ (द। उ। १-८६) इत्यादिना उण्प्रत्ययः। वाति वायति वा द्रव्याणि इति वायुः।]]
20
=>
[[७। औणादिके (द। उ। ६-७) तन्प्रत्यये रूपमेवम्।]]
21
=>
[[८। औणदिके (द। उ। ७-२६) मन्प्रत्यये वामः इति रूपम्।]]
22
=>
[पृष्ठम्१२२३+ २४]