| YouTube Channel

वेपकः-पिका (vepakaH-pikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“टु वेपृ कम्पने”@} 2 ‘-- चलने’ इति जैन-कातन्त्र-शाकटायन-हेमादयः।
वेपकः-पिका, वेपकः-पिका, विवेपिषकः-षिका, वेवेपकः-पिका
वेपिता-त्री, वेपयिता-त्री, विवेपिषिता-त्री, वेवेपिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककेपतिवत् 3 ज्ञेयानि।
शानचि 4 5 प्रवेपमानः, 6 वेपथुः 7, 8 प्रवेपनम् 9, 10 विपिनम् इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६४३)
02
=>
(१-भ्वादिः-३६७। अक। सेट्। आत्म।)
03
=>
(२६१)
04
=>
[पृष्ठम्१२६५+ २६]
05
=>
[[आ। ‘प्रवेपमानो नितरां स्मरारिमिदं वचो व्यक्तमथाध्युवाच।।’ कु। स। ९। ६।]]
06
=>
[[१। ‘द्वितोऽथुच्’ (३-३-१९) इति अथुच्प्रत्यये रूपमेवम्।]]
07
=>
[[B। ‘विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोर्विभङ्गं स्तनयुग्मवल्गितम्।’ भ। का। ११। ३७।]]
08
=>
[[२। ‘न भाभूपूकमिगमिप्यायीवेपाम्’ (८-४-३४) इति निषेधात् कृत्स्थस्य नकारस्य णकारादेशो भवति।]]
09
=>
[[C। ‘नातिप्रवेपनं वायोर्मया गोपायिते वने।।’ भ। का। ९-१०७।]]
10
=>
[[३। ‘वेपितुह्योः--’ (द। उ। ५-१८) इति इनन्प्रत्ययः, किच्च, प्रकृतेः ह्रस्वश्च भवति। विपिनम् = गहनम् अब्जं वा। ‘अटव्यरण्यं विपिनं गहनं काननं वनम्’ इत्यमरः।]]