| YouTube Channel

वेधकः-धिका (vedhakaH-dhikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विध विधाने”@} 2 ‘अनेकार्थत्वाच्छिद्रकरणेऽप्ययम्’ इति दुर्गादासः।
निमित्तवेधी 3।
‘विथृ वेथृ’ इत्यत्र 4 ‘विधृ’ इति कौशिकः।
क्षीरस्वामिना त्वयं पक्षो दूषितः।
वेधकः-धिका, वेधकः-धिका, 5 विविधिषकः-विवेधिषकः-षिका, वेविधकः-धिका
वेधिता-त्री, वेधयिता-त्री, विविधिषिता-विवेधिषिता-त्री, वेविधिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि तौदादिककिलतिवत् 6 ऊह्यानि।
शतरि 7 विधन् इति।
8 असिप्रत्यये, प्रकृतेः ‘वेध’ इत्यादेशे वेधाः इति भवति।
विधाता इत्यर्थः।]] वेधाः।
प्रासङ्गिक्यः
01
=>
(१६०७)
02
=>
(६-तुदादिः-१३२५। सक। सेट्। पर।)
03
=>
(म। भा। ५-९६-३०)
04
=>
(भ्वादौ)
05
=>
[[५। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः क्त्वाप्रत्ययस्य कित्त्वविकल्पः। तेन क्त्वाप्रत्ययेऽपि विधित्वा-वेधित्वा इति रूपद्वयं ज्ञेयम्।]]
06
=>
(१९३)
07
=>
[[६। ‘तुदादिभ्यः शः’ (३-१-७७) इति विकरणप्रत्ययः शः। तस्य ङिद्वद्भावादङ्गस्य गुणो न।]]
08
=>
[[७। औणादिके [द। उ। ९-८५]