| YouTube Channel

वेद्यं (vedyaM)

 
Hindi
Hindi
क्या नाम से जाना जाता है
शब्दकल्पद्रुमः
Sanskrit
वेद्यं, त्रि, (विद् + ण्यत् ।) वेदितव्यम् यथा, --“धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणांसताम्वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरःसद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्-क्षणात्
”इति श्रीभागवते स्कन्धे अध्यायः
(धनाय हितम् यथा, ऋग्वेदे ।“रथमिव वेद्यं शुक्रशोचिषमग्निम् ।”“वेद्यं वेदो धनम् तस्मै हितम् ।” इति तद्भाष्येसायणः
स्तुत्यम् तथा, तत्रैव १५ ।“प्रवेधसे कवये वेद्याय गिरम् ।”“वेद्याय स्तुत्याय ।” इति तद्भाष्ये सायणः
लब्धव्यम् यथा, वाजसनेयसंहितायाम् १८ ।११ ।“वित्तं मे वेद्यञ्च मे ।”“वेद्यं लब्धव्यम् ।” इति तद्भाष्ये महीघरः
वेदाय हितमिति वेद + यत् बेदहितम् वेद-प्रतिपाद्यम् यथा, महाभारते १३ १५८ ३६ ।“वेद्यञ्च यत् वेदयते वेद्यंविधिश्च यश्चाश्रयते विधेयम् ।धर्म्मे वेदे बले सर्व्वंचराचरं केशवं त्वं प्रतीहि
”)