| YouTube Channel

वेदाभ्यासः (vedAbhyAsaH)

 
शब्दकल्पद्रुमः
Sanskrit
वेदाभ्यासः,
पुं,
(वेदस्य अभ्यासः ।) वेदानुशील-नम् पञ्चविधः यथा, दक्षः ।“द्वितीये तथा भागे वेदाभ्यासो विधीयते ।वेदाभ्यासो हि विप्राणां परमं तप उच्यते
ब्रह्मयज्ञपरं ज्ञेयः षडङ्गसहितश्च यः ।वेदस्वीकरणं पूर्व्वं विचारोऽभ्यसनं जपः ।तद्दानञ्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा
शङ्खलिखितौ वेदमनधीत्यान्यां विद्यामधी-यीतान्यत्र वेदाङ्गस्मृतिभ्यः
इत्याह्रिकतत्त्वम्