| YouTube Channel

वेदान्त (vedAnta)

 
शब्दसागरः
English
वेदान्त
m.
(-न्तः) The theological part of the Vedas
considered collec-
tively it is contained in the many numerous passages or chapters
of the Vedas termed Upanishads, which inculcate an abstract
and speculative monotheistical worship, and these have been fur-
ther explained and illustrated by later writers: the founder of
the school is VYĀSA, and subsequently ŚANKARĀCHĀRYA is its
most eminent teacher.
E.
वेद the Vedas, and अन्त end, sum, scope
or substance.
Capeller Eng
English
वेदा॑न्त
m.
the end of the Veda or of the Veda-study
N.
of a philos. system.
Yates
English
वेदा_न्त (न्तः) 1.
m.
The metaphysico-
theological doctrines of the
Vedas, teaching the abstract wor-
ship of God
name of a school
of divinity or philosophy pro-
fessing them.
Spoken Sanskrit
English
वेदान्त { वेद - अन्त } - vedAnta{veda-anta} -
m.
- completeknowledgeoftheVeda [ end-of-the-vedas ]
वेद - veda -
m.
- tuft or bunch of strong grass made into a broom
वेद - veda -
m.
- true or sacred knowledge or lore
वेद - veda -
m.
- finding
वेद - veda -
m.
- knowledge of ritual
वेद - veda -
m.
- property
वेद - veda -
m.
- feeling
वेद - veda -
m.
- sacred lore
वेद - veda -
m.
- perception
वेद - veda -
m.
- acquisition
वेद - veda -
m.
- sacred knowledge
वेद - veda -
m.
- obtaining
वेद - veda -
m.
- true knowledge
वेद - veda -
m.
- goods
वेद - veda -
m.
- knowledge
वेदान्त { वेद - अन्त } vedAnta { veda - anta }
m.
complete knowledge of the Veda [ end-of-the-vedas ]
वेदान्त vedAnta
m.
end of the veda
वेदान्त vedAnta
m.
upaniSads or works on the vedAnta philosophy on [ pl. ]
Wilson
English
वेदान्त
m.
(-न्तः) The theological part of the Vedas
considered
collectively it is contained in the many numerous passages or chapters of the
Vedas termed Upaniṣads, which inculcate an abstract and speculative
monotheistical worship, and these have been further explained and illustrated by
later writers: the founder of the school is VYĀSA, and subsequently
ŚAṂKARĀCĀRYA is its most eminent teacher.
E.
वेद the Vedas, and अन्त end, sum, scope or substance.
Monier Williams Cologne
English
वेदान्त a
&c.
See
p.
1017.
वेदा॑न्त b
m.
end of the Veda (= ‘complete knowledge of the Veda’
cf.
वेदान्त-ग),
TĀr.
MBh.
N.
of the second and most important part of the Mīmāṃsā or third of the three great divisions of Hindū philosophy (called Vedānta either as teaching the ultimate scope of the Veda or simply as explained in the Upaniṣads which come at the end of the Veda
this system, although belonging to the Mīmāṃsā [q.v.] and sometimes called Uttara-mīmāṃsā, ‘examination of the later portion or ज्ञान-काण्ड [q.v.] of the Veda’, is really the one sole orthodox exponent of the pantheistic creed of the Hindūs of the present day - a creed which underlies all the polytheism and multiform mythology of the people
its chief doctrine [as expounded by Śaṃkara] is that of Advaita i.e. that nothing really exists but the One Self or Soul of the Universe called Brahman [neut. ] or Paramātman, and that the Jīvātman or individual human soul and indeed all the phenomena of nature are really identical with the Paramātman, and that their existence is only the result of Ajñāna [otherwise called Avidyā] or an assumed ignorance on the part of that one universal Soul which is described as both Creator and Creation
Actor and Act
Existence, Knowledge and Joy, and as devoid of the three qualities [see गुण]
the liberation of the human soul, its deliverance from transmigrations, and re-union with the Paramātman, with which it is really identified, is only to be effected by a removal of that ignorance through a proper understanding of the Vedānta
this system is also called Brahma-mīmāṃsā and Śārīrakamīmāṃsā, ‘inquiring into Spirit or embodied Spirit’
the founder of the school is said to have been Vyāsa, also called Bādarāyaṇa, and its most eminent teacher was Śaṃkarācārya),
Up.
MBh.
&c.
वेदा॑न्त
m.
pl.
the Upaniṣads or works on the Vedānta philosophy,
Kull.
on
Mn.
vi, 83.
Macdonell
English
वेदान्त vedá‿anta,
m.
end of the Veda (rare)
🞄end of Vedic study (rare)
text forming the 🞄conclusion or the essence of the Veda, i. e. an 🞄Upaniṣad and the theologico-phiosophical 🞄doctrine based thereon (Uttara-mīmāṃsā or 🞄Vedānta system): -kṛt
m.
author of the 🞄Vedāntas
-sāra,
m.
essence of the Vedānta, 🞄T. of a compendium of the Vedānta system
🞄-abhihita, pp. contained in the Vedānta
🞄-upagata, pp. accruing from the Vedānta 🞄(reward).
Benfey
English
वेदान्त वेदान्त, i. e. वेद-अन्त,
m.
1. The complete Veda, Man. 2, 160.
2. A philosophical system based par-
ticularly on the Upaniṣads, Vedāntas.
in Chr. 202, sqq.
203, 24.
3. pl. Works
concerning this philosophy, Vikr. d. 1.
Hindi
Hindi
स्वयं वसूली के वैदिक विधि
Apte Hindi
Hindi
वेदान्तः
पुं*
वेदः-अन्तः -
`वेद का अन्त' (वेद के अन्त में आने वालीं) उपनिषद्
वेदान्तः
पुं*
वेदः-अन्तः -
हिन्दुओं के छः मुख्य दर्शनों में अन्तिम दर्शन
L R Vaidya
English
veda-aMta {% m. %} 1. an Upanishad
2. the last and perhaps the latest of the six systems of philosophy (so called as being principally based on the Upanishads)
it is also called उत्तरमीमांसा, being regarded as a sequel to the Mīmānsa system of Jaimini
it represents the popular pantheistic creed of India.
Bopp
Latin
वेदान्त m. (e वेद et अन्त finis) doctrina theologica et
philosophica, quae Vêdis innititur. BH. 15. 15.
Aufrecht Catalogus Catalogorum
English
वेदान्त by Svātmānandopadeśa. B. 4, 94. The latter
is likely to be the true title.
अभिधानचिन्तामणिः
Sanskrit
--source--
वेदान्तः स्यादुपनिषदोङ्कारप्रणवौ समौ
-wordlist-
वेदान्त (पुं), उपनिषद् (स्त्री), ओङ्कार (पुं), प्रणव (पुं)
अभिधानरत्नमाला
Sanskrit
वेदान्त
वेदान्त, रहस्य, उपनिषद्
वेदान्तश्च रहस्यं बुधैरुपनिषन्मता
verse 1.1.1.9
page 0002
Mahabharata
English
Vedānta, mostly pl. (ºāh), a kind of literary works, probably identical with the Upanishads: IV, 1593 (known by Droṇa)
VI, 1397 (ºkṛt, sc. Kṛshṇa)
XII, 1943 (ºādhigatah, sc. dharmāḥ), 7157 (sg.), 8723, 8971 (ºeshu ca gīyate), 10573, 11167 (ºgamanadvīpaṃ), 11750 (ºjñānakovidaḥ)
XIII, 1080 (sg.), 3449 (ºnishṭhasya)
XIV, 345 (devair (B. Vedair) Vºsādhanaiḥ).--Do., sg. = Durgā: VI, 804.
पुराणम्
English
वेदान्त / VEDĀNTA. See under veda.
शब्दकल्पद्रुमः
Sanskrit
वेदान्तः,
पुं,
(वेदानां अन्तः ।) उपनिषत् ।इति हेमचन्द्रः वेदव्यासप्रणीतदर्शनशास्त्र-विशेषोऽपि यथा वेदान्तो नाम उपनिषत्-प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि ।इति परमहंसपरिव्राजकाचार्य्यश्रीसदानन्द-योगीन्द्रविरचितवेदान्तसारः
*
“इदानींसर्व्वस्यापि वस्तुविचारोद्देशपूर्व्वकत्वात् प्रति-ज्ञातं वेदान्तं नामतो निर्दिशति वेदान्त इति ।उपनिषद एव प्रमाणं उपनिषत्-प्रमाणम् ।उपनिषदो यत्र प्रमाणमिति वा तदुपकारीणिवेदान्तवाक्यसंग्राहकाणि शारीरकसूत्रादीनिच शरीरमेव शारीरं तत्र भवो जीवः शारी-रकः सूत्र्यते याथातथ्येन निरूप्यते यैःतानि शारीरकसूत्राणि ‘अथातो ब्रह्मजिज्ञासा’इत्यादीनि आदिशब्दो भाष्यादिसंग्रहार्थः ।चशब्दो वेदान्तशब्दानुषङ्गार्थः यद्बा शारी-रकसूत्राणि तद्यथार्थवादिवेदान्तार्थसंग्रह-वाक्यानि ‘अथातो ब्रह्मजिज्ञासा’ इत्यादि-सूत्रादीनि आदिशब्देन भगवद्गीताद्यध्यात्म-शास्त्राणि गृह्यन्ते तेषामपि उपनिषच्छब्द-वाच्यत्वादिति भावः ।” इति श्रीनृसिंहसरस्वती-कृता तट्टीका सुबोधनी
अस्य नामान्तरंउत्तरमीमांसा तत्र चत्वारः अध्यायाः तेषुब्रह्मनिरूपणम् तद्विवरणं यथा, --“अव्यक्तादण्डमभूदण्डाद्ब्रह्मा ततः प्रजासर्गः ।मायामयी प्रवृत्तिः संह्रियते पुनः पुनःक्रमशः
मायामयोऽप्यचेता गुणकरणगणः करोतिकर्म्माणि ।तदधिष्ठाता देही सचेतनोऽपि करोतिकिञ्चिदपि
यद्वदचेतनमपि सन्निकटस्थे भ्रामके भ्रमतिलोहम् ।तद्वत् करणसमूहश्चेष्टति चिदधिष्ठिते देहे
यद्वत् सवितर्य्युदिते करोति कर्म्माणि जीव-लोकोऽयम् ।न तानि करोति रविर्न कारयति तद्वदा-त्मापि
मनसोऽहंकारविमूर्च्छितस्य चैतन्यबोधिस्येह ।पुरुषाभिमानसुखदुःखभावना भवति मूढस्य
कर्त्ता भोक्ता द्रष्टास्मि कर्म्मणामुत्तमादीनाम् ।इति तत्स्वभावविमलोऽभिमन्यते सर्व्वगोप्यात्मा
नानाविधवर्णानां वर्णान् धत्ते यथामलस्फटिकः ।तद्वदुपाधेर्गुणभावितस्य भावं विभुर्धत्ते
गच्छति गच्छति सलिले दिनकरविम्बं स्थितेस्थितिं याति ।अन्तःकरणे गच्छति गच्छत्यात्मापि तद्वदिह
राहुरदृश्योऽपि यथा शशिविम्बस्थः प्रकाशतेजगति ।सर्व्वगतोऽपि तथात्मा बुद्धिस्थो दृश्यतामेति
आदर्शे मलरहिते यद्वद्रूपं विचिनुते लोकः ।आलोकयति तथात्मा विशुद्धबुद्धौ स्वमात्मानम्
सर्व्वगतं तत् निरुपममद्वैतं तच्च चेतसा गम्यम् ।यद्वुद्धिगतं ब्रह्मोपलभ्यते शिष्यबोध्यं तत्
बुद्धिमनोऽहंकारास्तन्मात्रेन्द्रियगणाः सभूत-गणाः ।संसारसर्गपरिरक्षणक्षमाः प्राकृता हेयाः
धर्म्माधर्म्मौ सुखदःखकल्पना स्वर्गनरकवासश्च ।उत्पत्तिनिधनवर्णाश्रमा सन्तीह परमार्थे
मृगतृष्णायामुदकं शुक्तौ रजतं भुजङ्गमोरज्ज्वाम् ।तैमिरिकचन्द्रयुगवत् भ्रान्तं निखिलं जगद्रूपम्
यद्बद्दिनकर एको विभाति सलिलाशयेषु सर्व्वेषु ।तद्वत् सकलोपाधिष्ववस्थितो भाति परमात्मा
खमिव घटादिष्वन्तर्ब्बहिःस्थितं ब्रह्म सर्व्व-पिण्डेषु ।देहोऽहमित्यनात्मनि बुद्धिः संसारबन्धाय
सर्व्वविकल्पनहीनः शुद्धोऽवृद्धोऽजरोऽमरःशान्तः ।अमलः सकृद्विभातश्चेतन आत्मा खवद्व्यापी
रसफाणितशर्करिका गुडखण्डा विकृतयोयथैवेक्षोः ।तद्वदवस्थाभेदाः परमात्मन्येव बहुरूपाः
विज्ञानान्तर्यामिप्राणविराट्देहजाति-पिण्डान्ताः ।व्यवहारस्थस्यात्मन एतेऽवस्थाविशेषाः स्युः
रज्ज्वां नास्ति भुजङ्गः सर्पभयं भवति हेतुनाकेनतद्वद्द्वैतविकल्पभ्रान्तिरविद्या सत्यमिदम्
एतत्तदन्धकारं यदनात्मन्यात्मताभ्रान्त्या ।न विदन्ति वासुदेवं सर्व्वात्मानं नरा मूढाः
प्राणाद्यन्तभेदैरात्मानं संवितत्य जालमिव ।संहरति वासुदेवः स्वविभूत्या क्रीडमान इव
त्रिभिरेव विश्वतैजसप्राज्ञैस्तैरादिमध्यनिध-नाख्यैः ।जाग्रत्स्वप्नसुषुप्तैर्भ्रमभूतैश्छादितं तुर्य्यम्
मोहयतीवात्मानं स्वमायया द्वैतरूपया देवः ।उपलभते स्वयमेवं गुहागतं पुरुषमात्मानम्
ज्वलनाद्धूमोद्गतिभिर्विविधाकृतिरम्बरे यथाभाति ।तद्वद्विष्णोः सृष्टिः स्वमाययाद्वैतविस्तरो भाति
शान्त इव मनसि शान्ते हृष्टे हृष्ट इव मूढइव मूढे ।व्यवहारस्थो पुनः परमार्थत ईश्वरो भवति
जलधरधूमोद्गतिभिर्मलिनीक्रियते यथा नगगनतलम् ।तद्वत् प्रकृतिविकारैरपरामृष्टः परः पुरुषः
एकस्मिन्नपि घटे धूमादिमलावृते घटाःशेषाः ।न भवन्ति मलोपेता यद्वज्जीवोऽपि तद्बदिह
देहेन्द्रियेषु नियताः कर्म्मगुणाः कुर्व्वतेस्वभोगार्थम् ।नाहं कर्त्ता ममेति ज्ञानतः कर्म्म नैवबध्नाति
अन्यशरीरेण कृतं कर्म्म भवे येन देह उत्पन्नः ।तदवश्यं भोक्तव्यं भोगादेव क्षयोऽस्य निर्द्दिष्टः
प्राक् ज्ञानोत्पत्तिचितं यत् कर्म्म ज्ञानशिखि-शिखालीढम् ।बीजमिव दहनदग्धं जन्मसमर्थं तद्भवति
ज्ञानोत्पत्तेरूर्द्ध्वं क्रियमाणं कर्म्म यत्तदपि ।न श्लिष्यति कर्त्तारं पुष्करपर्णं यथा वारि
वाग्देहमानसैरिह कर्म्मचयः क्रियत इतिबुधाः प्राहुः ।एकोऽपि नाहमेषां कर्त्ता तत्कर्म्मणामस्मि
कर्म्मफलबीजनाशाज्जन्मविनाशो चात्रसन्देहः ।बुद्धैवमपगततमाः सवितेव विभाति भारूपः
यद्वदिषीकातूलं पवनोद्धूतं दश दिशो याति ।ब्रह्मणि तत्त्वज्ञानात्तथैव कर्म्माणि तत्त्वविदः ।क्षीरादुद्धृतमाज्यं क्षिप्तं यद्वन्न पूर्व्ववत्तस्मिन् ।प्रकृतिगुणेभ्यस्तद्वत् पृथक्कृतश्चेतनोऽप्यात्मा
गुणामयमायागहनं निर्द्धूय यथा तमःसहस्रांशुः ।बाह्याभ्यन्तरचारी सैन्धवघनवत् भवेत् पुरुषः
यद्वद्देहोऽवयवा मृदेव तस्या विकारजातानि ।तद्बत् स्थावरजङ्गममद्बैतं द्बैतवद्भाति
एकस्मात् क्षेत्रज्ञाद्बहवः क्षेत्रजातयो जाताः ।लौहगतादिव दहनाः समन्ततो विस्फुलिङ्ग-कणाः
ते गुणसङ्गमदोषाद्बद्धा इव धान्यजातयःस्वतुषैः ।जन्म लम्भते तावद्यावन्न ज्ञानवह्रिना दग्धाः
त्रिगुणा चैतन्यात्मनि सर्व्वगतेऽवस्थिताखिला-धारे ।कुरुते सृष्टिमविद्या सर्व्वत्र स्पृश्यते तया नात्मा
रज्ज्वां भुजङ्गहेतौ प्रभवविनाशौ यथा स्तः ।ज गदुत्पत्तिविनाशौ कारणमस्ति तद्व-दिह
जन्मविनाशनगमनागमनमलै सङ्गधर्जितोनित्यम् ।आकाश इव घटादिषु सर्व्वात्मा सर्व्वतोपेतः
कर्म्मशुभाशुभजनितैः सुखदुःखैर्बन्धो भवत्युपा-धीनाम् ।तत्संसर्गाद्बद्धस्तस्करसङ्गादतस्करवत्
देहगुणकरणगोचरसङ्गात् पुरुषस्य यावदिहभावाः ।तावन्मायापाशैः संसारे रुद्ध इव भाति
मातृपितृबान्धवधनभोगसंमूढः ।जन्मजरामरणमये चक्र इव भ्राम्यते जन्तुः
लोकव्यवहारकृतां इहाविद्यामुपासतेमूढाः ।ते जननमरणधर्म्माणो ध्वान्तमत्रेत्य खिद्यन्ते
हिमफेनयुद्वुदा इव जलस्य धूमो यथा वह्नेः ।तद्वत स्वभावभूता मायैषा कीर्त्तिता विष्णोः
एवं द्वैतविकल्पां भ्रमस्वरूपां विमोहिनींमायाम् ।उत्सृज्य सकलं निष्फलमद्वैतं भावयेद्ब्रह्म
यद्वत् सलिले सलिलं क्षीरे क्षीरं समीरणेवायुः ।तद्वद्ब्रह्मणि विमले भावनया तन्मयत्वमुप-याति
इत्थं द्वैतसमूहे भावनया ब्रह्मभूयमुपयाति ।को मोहः कः शोकः सर्व्वं ब्रह्मावलोकयतः
विगतोपाधिस्फटिकः स्वप्रभया भाति निर्म्मलोयद्वत् ।चिद्दीपः स्वप्रभया तथा विभातीह निरुपाधिः
गुणकरणगणशरीरप्राणैस्तन्मात्रजातिसुख-दुःखैः ।अपरामृष्टो व्यापी चिद्रूपोऽयं सदा विमलः
द्रष्टा श्रोता घ्राता स्पर्शयिता रसयिता ग्रहीताच ।देही देहेन्द्रियधीविवर्जितः स्यान्न कर्त्तासौ
एको नैकत्रावस्थितो महैश्वर्य्यं योगतो व्याप्तः ।आकाशवदखिलमिदं कश्चिदप्यत्र सन्देहः
आत्मैवेदं सर्व्वं निष्कलसकलं यदैव भावयति ।मोहगहनाद्विमुक्तस्तदैव परमेश्वरीभूतः
यद्यत् सिद्धान्तागमतर्केषु प्रभ्रमन्ति रागान्धाः ।अनुमोदामस्तत्तत्तेषां सर्व्वात्मवादिधियाम्
सर्व्वाकारो भगवानुपास्यते येन येन भावेन ।तं तं भावं भूत्वा चिन्तामणिवत् समभ्येति
नारायणमात्मानं ज्ञात्वा सर्गस्थितिप्रलयहेतुम् ।सर्व्वज्ञः सर्व्वगतः सर्व्वः सर्व्वेश्वरो भवति
आत्मज्ञस्तरति शुचं यस्माद्विद्वान्न बिभेतिकुतश्चित् ।मृत्योरपि मरणभयं भवत्यन्यद्भयं कुतस्तस्य
क्षयवृद्धिवध्यघातकबन्धनमोक्षैर्व्विवर्ज्जितंनित्यम् ।परमार्थतत्त्वमेतत् यदतोऽन्यत्तदनृतं सर्व्वम्
एवं प्रकृतिपुरुषं विज्ञाय निरस्तकल्पनाजालः ।आत्मारामः प्रशमं समास्थितः केवलीभवति
नलकदलिवेणुवाणा नश्यन्ति यथा स्वपुष्प-मासाद्य ।तद्वत्स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति
भिन्ने ज्ञानग्रन्थौ छिन्ने संशयगणे शुभाशुभेक्षीणे ।दग्धे जन्मबीजे परमानन्दं हरिं याति
मोक्षस्य नैव किञ्चिद्धामास्ति चापि गमन-मन्यत्र ।अज्ञानमयग्रन्थेर्भेदो यस्तं विदुर्मोक्षम्
बुद्धैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् ।विगतद्वन्द्बोपाधिकभोगासङ्गो भवेच्छान्तः
बुद्धा विभक्तां प्रकृतिं पुरुषः संसारमध्यगोभवति ।निर्मुक्तः सर्व्वकर्म्मभिरम्बुजपत्रं यथा सलिलैः
अश्नन् यद्बा तद्बा संवीतो येन केनचिच्छान्तः ।यत्र क्वचन शायी विमुच्यते सर्व्वभूतात्मा
हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघात-लक्षाणि ।परमार्थविन्न पुण्यैर्न पापः स्पृश्यते विमलः
मदकोपहर्षमत्सरविषादभयपरुषवर्ज्यवात्-बुद्धिः ।निस्तोत्रवषट्कारो जडवद्बिचरेदगाधमतिः
उत्पत्तिनाशवर्ज्जितमेवं परमार्थमुपलभ्य ।कृतकृत्यः सफलजनुः सर्व्वगतस्तिष्ठति यथेष्टम्
व्यापिनमभिन्नमित्थं सर्व्वात्मानं विधूतनानात्वम् ।निरुपमपरमानन्दं यो वेद तन्मयो भवति
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् ।ज्ञानसमकालं मुक्तः कैवल्यं याति हतशोकः
पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधन-गतिः ।पुण्यापुण्यकलङ्कस्पर्शाभावे तु किन्तेन
वृक्षाग्राच्च्युतपादो यद्बदनिच्छन्नरः क्षितौपतति ।तद्वदगुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति
परमार्थमार्गसाधनमारभ्याप्राप्य योगमपिनाम ।सुरलोकभोगभोगी मुदितमना मोदते सुभृ-शम्
विषयेषु सार्व्वभौमः सर्व्वजनैः पूज्यते यथाराजा ।भुवनेषु सर्व्वदेवैर्योगभ्रष्टस्तथा पूज्यः ।महता कालेन महान् मानुष्यं प्राप्य योग-मभ्यस्य ।प्राप्नोति दिव्यममृतं यत्तत् परमं पदं विष्णोः
वेदान्तशास्त्रमखिलं विलोक्य शेषोऽखिला-धारः ।आर्य्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम्
”इति श्रीशेषनागविरचितं परमार्थसारं समा-प्तम्
वाचस्पत्यम्
Sanskrit
वेदान्त
पु०
त० वेदशिरोभागे ब्रह्मप्रतिपादके उपनिष-द्रूपे ग्रन्थभेदे तदुपकारके शारीरकसूत्रभाष्यादौ चउत्तरामीमांसाशब्दे १०९७ पृ० दृश्यम् शारीरकसूत्रञ्चबहुभिसाचार्य्यैः स्वस्वमतानुसारेण व्याख्यातं तत्र रा-मानुजपूर्णंप्रज्ञशब्दयोस्तत्तन्मतं प्रदर्शितं शाङ्करमतानुसारिमतस्य सिद्धान्तविन्दुप्रदर्शितस्य सङ्क्षेपोऽत्र प्रदर्श्यते“वेदान्तिमते सामान्यतः द्विवध एव पदार्थः दृग्दृश्यश्चतत्रैव सर्वपदार्थान्तर्भावात् तत्र दृक्पदार्थ आत्मा ।स सर्वदैकरूपोऽप्यौपाधिकभेदात् त्रिविधः ईश्वरःजीवः साक्षी चेति तत्र कारणीभूताज्ञानो पाधि-रीश्वरः अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितोजावः जीवेश्वरानुगतसर्वानुसंधातृ चैतन्यं साक्षी ।तत्रेश्वरोऽपि त्रिविधः स्वोपाधिभूताविद्यावृत्तिसत्त्वादि-गुणत्रयभेदेन विष्णुब्रह्मरुद्रभेदात् तत्र कारणीभूत-सत्त्वगुणावच्छिन्नो विष्णुः पालयिता तथा रज उप-हितो ब्रह्मा स्रष्टा हिरण्यगर्भस्तु महाभूतकारण-त्वाभावान्न ब्रह्मा तथापि स्थूलभूतस्रष्टृत्वेन क्वचिद्ब्रह्मेत्युपचर्य्यते तथा तम उपहितो रुद्रः संहर्त्ता ।एवञ्चैकस्यैव तस्य चतुर्भुजचतुर्मुखाद्याः पुमाकाराः श्री-भारतीभवान्याद्याश्च स्त्र्याकारा मत्स्यकूर्मादयोऽप्यवतारालीलयैवाविर्भवन्ति तथा जीवोऽपि त्रिविधः स्वोपाधि-जाग्रदाद्यवस्थात्रयभेदेन विश्वतैजसप्राज्ञभेदात् तत्रा-विद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदभिमानी विश्वः ।स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितःस्वप्नावस्थाभिमानी तैजसः अयमेव शरीरद्वयान्तःकरणो, षाधिरहितोऽन्तःकरणसंस्कारावच्छिन्नोऽविढ्यामात्रोपहितःसुषुप्त्यवस्थाभिमानी प्राज्ञः साक्षी तु सर्वानुसन्धातासर्वानुगतस्तुरीयाख्य एकविध एव ।अविद्यातत्कर्मात्मकप्रपञ्चो दृश्यपदार्थः तस्यापारमार्थि-कत्वेऽपि व्यवहारिकत्वाभ्युपगमान्न स्वप्नादिवदतात्त्विक-त्वम् दृश्योऽपि त्रिविधः अव्याकृतमूर्त्तामूर्त्तभेदात् ।तत्र चिदाभाससहिताऽविद्या मूर्त्तामूर्त्तप्रपञ्चस्थूलवीज-शक्तिरनादिरव्याकृतमित्युच्यते इयञ्चाव्याकृताख्याऽवि-द्येश्वरोपाधिः सा स्वयं जडाप्यजडेन चिदाभासे-नोज्वलिता पूर्वपूर्वसंस्कारजीवकर्मभ्यां प्रयुक्ता सती शब्द-स्पर्शरूपरसगन्धाश्रयाण्याकाशवायुतेजोजलपृथिव्यात्म-कानि पञ्च सृक्ष्ममहाभूतानि जनयति तत्र पूर्वपूर्व-भूतभावापन्नाया एवाविद्याया उत्तरोत्तरभूतं प्रति-कारणत्वात् पूर्वपूर्वभूतगुणानामुत्तरोत्तरभूतेष्वनुप्रवेशा-द्भूतानामेकैकवृद्धीभूतगुणशालित्वं तथा चाकाशस्य शब्दोगुणः, वायोः शब्दस्पर्शौ, तेजसः शब्दस्पर्शरूपाणि, जलतानि रसश्च, पृथिव्यास्तानि गन्धश्चेति आकाशस्यैवदिग्व्यवहारजनकत्वेन दिशो पृथक् पदार्थता कामस्यचिज्जडसम्बन्धरूपतया तदाधाराविद्यात्मकतया मपार्थक्यम् तानि सूक्ष्माणि पञ्च भूतानि अमूर्त्ताख्यानिकारणाभेदाच्च सत्त्वरजस्तमोगुणात्मकानि सत्त्वरजोऽं-शप्राधान्येन ज्ञानक्रियाशक्त्यात्मकमेकं स्वच्छद्रव्यं चि-त्ररूपमिव मिलित्वा जनयन्ति तच्च समस्तं द्रव्यं ज्ञान-शक्तिप्राधान्येऽन्तःकरणं तदपि द्विविधं मगोबुद्धिभेदात्’चतुर्विधं मनोबुद्ध्यहङ्कारचित्तभेदादित्यन्ये तदेव क्रि-याशक्तिप्राधान्ये प्राणः पञ्चधा प्राणादिभेदात् ।एवमेकैकभूतेभ्योज्ञानक्रियाशक्तिमेदात् प्रत्येकं ज्ञानकर्मे-न्द्रियद्वयं जायते यथाकाशात् श्रोत्रवाचौ, वायोण्वक्पाणी, तेजसश्चक्षुःपादौ, अद्भ्यो रसनापायू, पृथिव्याध्राणोपस्थौ चोत्पद्येते तत्र शब्दस्पर्शरूपरसगन्धग्राह-काणि श्रोत्रत्वक्चक्षुःरसनाघ्राणाख्यागि पञ्च ज्ञानेन्द्रि-याणि वचनादानगतिविसर्गानन्दजनकानि वाक्पाणिपाद-पायूपस्थाख्यानि पञ्च कमेन्द्रियाणि! एतच्च सर्वं मि-सित्वा सप्तदशकं लिङ्गशरीरम् तच्च ज्ञानशक्तिप्राधान्येनसमष्टौ हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन समष्टौसूत्रमिति चोच्यते अयं भूर्त्तपदार्थः कार्य्यत्वात् ।मुमष्टिव्यष्टिजीवोपाधिसूक्ष्मभूतानि तु भोगायतनं श-रीरं भोग्यविषयञ्चान्तरेण भोगं जनयितुमसमर्थानीतिजीवकर्मप्रयक्तानि तानि स्थौल्यार्थं पञ्चोकृतानि म०वन्ति तथा हि सर्वाणि भूतानि स्वस्वार्द्धांशे स्वेतरभू-तानां चतुर्णामष्टमांशैश्चतुर्भिर्थोजनात् सर्वाण्येव पञ्चात्म-कानि स्वस्वांशाधिक्याच्चाकाशादिव्यवहारः तानि चपञ्चीकृतानि महाभूतानि मूर्त्ताख्यानि मिलित्वैकं कार्य्य-मिन्द्रियाणामधिष्ठानं जनयन्ति तदेव स्थूलशरीरमित्युच्यते तत्र सत्त्वप्रधानं दैवं शरीरं रजःप्रधानंमानवं तमःप्रधानं तिर्य्यगादिस्थावरान्तानाम् सर्वेषांदेहानां पाञ्चभौतिकत्वेऽपि चित्रे रूपाणामिव भूतानांक्वचिन्न्यूनातिरेको विरुद्ध्यते विषया अपिं चतु-र्दशभुवनाख्या षटादयश्च सत्त्वरजस्तमोऽंशतारतम्येनतेभ्य एव भूतेभ्यो जायन्ते एतच्च सर्वं ब्रह्माण्डं विरा-डिति चोच्यते सर्वं सृष्टिप्रलयादिकं स्वप्नसृष्टिप्रलयवदवास्तवमपि अनादिवासनादार्ढ्यात् व्यवहारक्ष-ममिति मायिकत्वेऽपि तुच्छत्वप्रसङ्गः” अन्यदाकरेदृश्यम्
Capeller
German
वेदा॑न्त
m.
das Ende des Veda (-Studiums),
N. eines philosoph. Systems.
Stchoupak
French
वेदान्त-
m.
fin du Veda
textes qui complètent le Veda, Upaniṣad
doctrine philosophique fondée sur les Upaniṣad
-इन्- adepte du Vedānta.
°ग- ag. qui a étudié le Veda jusqu'au bout, qui le sait à fond.
°निष्ठ- a. fondé sur le Vedānta.
°प्रणिहित-धी- a. qui concentre sa pensée sur le Vedānta.
°विज्ञान- nt. connaissance du Vedānta.
°सूत्र- nt. texte fondamental du Vedānta, attribué à Bādarāyaṇa.
वेदान्ताभिहित- a. v. énoncé dans les Upaniṣad ou dans le Vedānta.
वेदान्तावभृथ-प्लुत- a. v. qui fait ses ablutions rituelles après
avoir terminé ses études du Veda.
वेदान्तोपगत- a. v. dérivé du Vedānta.