| YouTube Channel

वेदाङ्गं (vedAGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
वेदाङ्गं, क्लो, (वेदस्य अङ्गम् ।) श्रुत्यवयवषट्-प्रकारशास्त्रम् तद्यथा शिक्षा कल्पः २व्याकरणम् निरुक्तम् ज्योतिषम् छन्दः६ यदुक्तम् ।“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषांगणः ।छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते
इति
तत्र अकारादिवर्णानां स्थूलकरणप्रयत्नबोधिकाअकु विसर्ज्जनीयाः कण्ठ्या इत्यादिकाशिक्षा यागक्रियाणामुपदेशः कल्पः साधु-शब्दान्वाख्यानं व्याकरणम् वर्णागमो वर्ण-विपर्य्ययश्च इत्यादिना निश्चयेनोक्तं निरुक्तम् ।ग्रहणादिगणनशास्त्रं ज्योतिः श्रुतिच्छन्दसांप्रत्यायकं शास्त्रं छन्दोविचितिः इत्यमर-भरतौ
(यथा, मनुः ९८ ।“वेदाङ्गानि सर्व्वाणि कृष्णपक्षेषु सम्पठेत्
”)