| YouTube Channel

वेदव्यासः (vedavyAsaH)

 
Apte Hindi
Hindi
वेदव्यासः
पुं*
वेदः-व्यासः -
व्यास का विशेषण जिसने वेदों वर्तामान रूप दिया है
Wordnet
Sanskrit
Synonyms:
व्यासः, वेदव्यासः, महर्षिव्यासः, कृष्णद्वैपायनः, पाराशरः, बादरायणः, वासवेयः, सात्यवतः, कृष्णः
noun
एकः ऋषिः येन वेदाः संगृहीताः तथा सम्पादिताः।
"व्यासेन महाभारतं लिखितुं श्रीगणेशः आमन्त्रितः।"
शब्दकल्पद्रुमः
Sanskrit
वेदव्यासः,
पुं,
(वेदं व्यस्यति पृथक् करोतीति ।वि + अस + अण् निरुक्तिस्तु परत्र द्रष्टव्या ।)मुनिविशेषः तत्पर्य्यायः माठरः द्वैपायनः३ पाराशर्य्यः कानीनः वादरायणः ६व्यासः इति हेमचन्द्रः
कृष्णद्वैपायनः ८सत्यभारतः पाराशरिः १० सात्यवतः ११ ।इति त्रिकाण्डशेषः
वादरायणिः १२ सत्य-वतीसुतः १३ सत्यरतः १४ पाराशरः १५ ।इति शब्दरत्नावली
(यथा, विष्णपुराणे ।“वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः ।करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ।द्वापरे तु युगे विष्णुर्व्यासरूपी महामुने ।वेदमेकं बहुधा कुरुते जगतो हितः
यया कुरुते तन्वा वेदमेकं पृथक् प्रभुः ।वेदव्यासाभिधाना तु सा सा मूर्त्तिर्मधुद्विषः
”)अस्यान्यत् विवरणं व्यासशब्दे द्रष्टव्यम्