वेदना (vedanA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishवेदना - vedanA - - agony
वेदना - vedanA - - pain
वेदना - vedanA - - torture
अम्ब, अत्र किञ्चित् वेदना अस्ति - amba, atra kiJcit vedanA asti - - Mummy, it pains a little here.
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Hindi
Hindiदर्द की भावनाओं को
Apte Hindi
Hindiवेदना
- विद् + ल्युट्
"ज्ञान, प्रत्यक्षज्ञान"
वेदना
- -
"भावना, संवेदन"
वेदना
- -
"पीडा, संताप, क्लेश, आधि"
वेदना
- -
"अधिग्रहण, दौलत, जायदाद"
वेदना
- -
विवाह
L R Vaidya
EnglishEdgerton Buddhist Hybrid
Englishvedanā, rarely °na (Pali only °nā recorded, so usually in Skt. in this mg. but rarely °na), feeling, sensation: as in Pali there are three, e.g. Mvy 〔1913〕, listed 〔1914—6〕 as sukhāḥ, duḥkhāḥ, aduḥkhāsukhāḥ
these are correlated in Śikṣ 〔232.11 ff.〕 with rāga (for sukha), dveṣa (also doṣa, for duḥkha), and moha (in regard to aduḥkhāsukha), all of course to be abandoned
sarva-°nāsu vītarāgo (mss. tīvra-rāgo
Senart em. with Pali Sn 〔529〕) Mv 〔iii.397.19〕 (vs)
vedanā is the 7th link in the pratītyasamutpāda, q.v. (cf. e.g. sparśena tisra anuvartati vedanā ca LV 〔420.2〕, vs, in pra°sam°)
it is also the 2d of the 5 skandha, q.v. and the 2d of the 4 smṛtyupasthāna, q.v. (Śikṣ 〔232.6 ff.〕 discusses it in this connection)
as nt., vedako vedanād anyaḥ pṛthagbhūto na vidyate Śikṣ 〔233.11〕 (vs).
Wordnet
Sanskrit व्यथा, वेदना, क्लेशः
हार्दिकी मानसिकी वा पीडा।
"मम हृदयस्य व्यथां न कोऽपि जानाति।"
क्लेशः, वेदना, पीडा, दुःख, तोदः
शारीरिकी मानसिकी वा पीडा।
"नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नवतां विधत्ते। "
वेदना
सा पीडा या वारंवारम् अनुभूयते।
"वेदना प्रायः मम प्राणान् हरति।"
वेदना, वेदनम्, व्यथा, दुःखम्, पीडा, आर्ति, तापः, यातना, कृच्छ्र, व्याधिः
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
"अम्ब अत्र तीव्रा वेदना अस्ति।"
अभिधानचिन्तामणिः
Sanskritमनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।
सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥
पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।
आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
सङ्कल्प (पुं), शर्मन् (क्ली), निर्वृति (स्त्री), सात (क्ली), सौख्य (क्ली), सुख (क्ली), दुःख (क्ली), असुख (क्ली), वेदना (स्त्री), व्यथा (स्त्री), पीडा (स्त्री), बाधा (स्त्री), आर्ति (स्त्री), आभील (क्ली), कृच्छ्र (क्ली), कष्ट (क्ली), प्रसूतिज (क्ली), आमनस्य (क्ली), प्रगाढ (क्ली), आधि (पुं)
अभिधानरत्नमाला
Sanskritआबाधा
आबाधा, वेदना, दुःख, अर्ति, पीडा, व्यथा
आबाधा वेदना दुःखमर्तिः पीडा व्यथा तथा ॥ ६२६ ॥
verse 3.1.1.626
page 0071
वेदना
वेदना, संवित्ति
व्यवस्थायां च संस्था स्यात्संवित्तावपि वेदना ।
verse 5.1.1.819
page 0094
पुराणम्
Englishवेदना / VEDANĀ. A goddess who caused pain to living things. adharma married Hiṁsā. Two daughters named Nṛtā and nirṛti were born to them. From them bhaya, naraka, māyā and vedanā were born. mṛtyu was the daughter of māyā. duḥkha was the son of vedanā. (agni purāṇa, Chapter 20).
शब्दकल्पद्रुमः
Sanskritवेदना, (विद् + ल्युट् । पक्षे । “घट्टि-वन्दिविदिभ्य उपसंख्यानम् ।” ३ । ३ ।१०७ । इत्यस्य वार्त्तिकोक्त्या युच् ।) अनुभवः ।तत्पर्य्यायः । संवेदः २ । इत्यमरः ॥
ज्ञानम् ।दुःखम् । इति मेदिनी ॥
विवाहः । यथा, --“पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥
शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥
”इति मानवे ३ अध्यायः ॥
* ॥
पाणीति । समानजातीयासु गृह्यमाणासु हस्त-ग्रहणलक्षणः संस्कारो गृह्यादिशास्त्रेण विधी-यते । विजातीयासु पुनरुह्यमानासु विवाह-कर्म्मणि पाणिग्रहणस्थाने अयमनन्तरश्लोकेवक्ष्यमाणो विधिर्ज्ञेयः । शर इति । क्षत्त्रिययापाणिग्रहणस्थाने ब्राह्मणविवाहे ब्राह्मणहस्त-परिगृहीतकाण्डैकदेशो ग्राह्यः । वैश्ययाब्राह्मणक्षत्त्रियविवाहे बाह्मणक्षत्त्रियविधृत-प्रतोदैकदेशो ग्राह्यः । शूद्रया पुनर्द्वि जातित्रय-विवाहे प्रावृतवसनदशा ग्राह्या । इति कुल्लूक-भट्टः ॥
कृदन्तरूपमाला
Sanskrit1 {@“विद ज्ञाने”@} 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
‘-- मतौ’ इति वोपदेवः।
आवेदकः-दिका, वेदकः-दिका, 4 विविदिषकः-षिका, वेविदकः-दिका
वेदिता-त्री, वेदयिता-त्री, विविदिषिता-त्री, वेविदिता-त्री
5 विदन्-ती, 6 विद्वान्-विदुषी, निवेदयन् 7 -न्ती, वेदयः 8, विविदिषन्-न्ती
-- वेदिष्यन्-न्ती-ती, वेदयिष्यन्-न्ती-ती, विविदिषिष्यन्-न्ती-ती
-- 9 संविदानः, वेदयमानः, संविविदिषमाणः, वेविद्यमानः
10 मन्त्रवित्, ब्रह्मवित्, शास्त्रवित्, वेदवित्, 11 अनिर्विदा, लोकवित्-प्रवित्-विदौ-विदः
12 विदितम्-तः-तवान्, वेदितः, विविदिषितः, वेविदितः-तवान्
13 विदः, 14 विन्दुः, 15 विदुरः 16, सार्ववेद्यः, चतुर्वेदः, 17 विविदिवान्-विविद्वान्, चतुर्वेदी, 18 पराशयवेदी, धनुर्वेदी, वैदिकः, वेदः, 19 वैदनः 20 विविदिषुः, वेविदः
आवेदितव्यम्, वेदयितव्यम्, विविदिषितव्यम्, वेविदितव्यम्
आवेदनीयम्, वेदनीयम्, विविदिषणीयम्, वेविदनीयम्
वेद्यम्, त्रैविद्यः, वेद्यम्, विविदिष्यम्, वेविद्यम्
वेद्यमानः, वेदयमानः, विविदिषमाणः, वेविद्यमानः
21 वेदः, वेदः, विविदिषः, वेविदः
वेदितुम्, वेदयितुम्, विविदिषितुम्, वेविदितुम्
22 वित्तिः, विदा, 23 विद्या, अङ्गविद्या, त्रिविद्या, 24 वेदना, विविदिषा, वेविदा
25 वेदनम्, वेदनम्, विविदिषणम्, वेविदनम्
26 विदित्वा, 27 वेदयित्वा, विविदिषित्वा, वेविदित्वा
आवेद्य, प्रवेद्य, प्रविविदिष्य, प्रवेविद्य
28 ब्राह्मणवेदं 29 चोरवेदम् 30 31 जिघांसुवेदम्, 32 वेदम् २, विदित्वा २, वेदम् २, वेदयित्वा २, विविदिषम् २, विविदिषित्वा २, वेविदम् २
वेविदित्वा २
33 इति इन्प्रत्ययः।
वेत्ति विन्दति विद्यते वा वेदिः = त्रेताग्न्यधिष्ठानम्।]] वेदिः, 34 विदथः, 35 नवेदाः, 36 इति विश्वशब्द उपपदे असिप्रत्ययः।
विश्ववेदाः = हुताशनः।]] विश्ववेदाः।
01 (१६०२ [[आ। ‘विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]])
02 (२-अदादिः-१०६४। सक। सेट्। पर।)
03 (श्लो। १११)
04 [[१। सनि, ‘रलो व्युपधात्--’ (१-२-२६) इत्यादिना क्रित्त्वविकल्पे प्राप्ते ‘रुदविद--’ (१-२-८) इति नित्यं कित्त्वं भवति। तेन सन्नन्ते सर्वत्र एकमेव रूपम्। क्षीरस्वामी तु ‘रुदविद--’ (१-२-८) इति सूत्रं कित्त्वविकल्पार्थमिति व्याचकार। भाष्यादिषु नित्यकित्त्वविधायकत्वेनैव प्रकृतसूत्रस्य व्याख्यानात् क्षीरस्वामिमतं चिन्त्यम्।]]
05 [[२। शतरि, ‘विदेः शतुर्वसुः’ (७-१-३६) इति सूत्रात् शतुः वस्वादेशविकल्पः। वस्वादेशपक्षे विद्वान् इति
\n\n तदभावपक्षे विदन् इति च रूपम्। नित्यं वसुरित्या- देश इति केषाञ्चिन्मतम्। काशिकादिषु तु वैकल्पिकमिति स्पष्टम्।]]
06 [[आ। ‘विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]]
07 [[B। ‘स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तः…।’ शि। व। ५-९७]]
08 [[३। ण्यन्तात् ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये शपि गुणायादेशौ। वेदयतीति वेदयः।]]
09 [[४। ‘विदिप्रच्छिस्वरतीनाम्’ (वा। १-३-२९) इति संपूर्वकात् विदेः आत्मनेपदं भवति।]]
10 [[५। ‘सत्सूद्विषद्रुहयुजविद--’ (३-२-६१) इति क्विप्प्रत्यये रूपमेवम्।]]
11 [[C। ‘अनिर्विदा या विदधे विधाता पृथ्वी पृथिव्याः प्रतियातनेव।।’ शि। व। ३-३४।]]
12 [[ड्। ‘विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः।’ कु। सं। ६-२६।]]
13 [पृष्ठम्१२३४+ २८]
14 [[१। ‘विन्दुरिच्छुः’ (३-२-१६९) इति तच्छीलादिषु कर्तृषु उप्रत्यये, निपातनात् नुमागमे च रूपमेवम्। वेदनशीलो विन्दुः। पवर्गीयादिस्तु ‘बिदि अवयवे’ इति धातोः ‘मृगय्वादिभ्यः’ (द। उणादिः १-१२१) इति कौ बोध्यः, इति बृहच्छब्देन्दुशेखरे।]]
15 [[२। ‘विदिभिदिच्छिदेः कुरच्’ (३-२-१६२) इति कुरच्प्रत्यये रूपमेवम्। ‘ज्ञाता तु विदुरो विन्दुः’ इत्यमरः। अत्र सूत्रे ज्ञानार्थ एव न्यासे गृहीतः।]]
16 [[आ। ‘विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।]]
17 [[३। क्वसुप्रत्यये, ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति विकल्पेन इडागमो भवति। विविदिवान्-विविद्वान् इति रूपद्वयम्। ‘ज्ञानार्थस्य तु नित्यं विविद्वान् इत्येकमेव, भवति’ इति काशिकायाम् (७-२-६८) उक्तम्। अन्यत्रार्थे रूपद्वयं बोध्यम्।]]
18 [[B। ‘अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः।।’ नैषधे ४-११८।]]
19 [[४। विदन्नेव वैदनः, ‘प्रज्ञादिभ्यश्च’ (५-४-३८) इति स्वार्थेऽण्प्रत्ययः। एतेनापि ‘विदेः शतुर्वसुः’ (७-१-३६) इति वसुविकल्पः सिद्धः। अन्यथा अणः प्रकृतिभूतस्य विदन् इति शत्रन्तस्यासिद्धेरित्यवधेयम्।]]
20 [[C। ‘नाविविदिषुमभ्येति संपद्रुरुधिषुं नरम्।’ भ। का। ७-९९।]]
21 [[५। वेत्ति अनेनेति ‘हलश्च’ (३-३-१२१) इति करणे घञ्।]]
22 [[६। ‘मन्त्रे वृषेषपचमनविद--’ (३-३-९६) इति स्त्रियां भावे क्तिन्प्रत्ययः।]]
23 [[७। विदन्त्यनया इति, ‘संज्ञायां समजनिषदनिपतमनविद--’ (३-३-९९) इति स्त्रियां भावे क्यप्प्रत्ययः।]]
24 [[८। ‘घट्टिवन्दिविदिभ्यश्च’ (वा। ३-३-१०७) इति स्त्रियां युच्प्रत्ययः।]]
25 [पृष्ठम्१२३५+ २७]
26 [[१। क्त्वायां, ‘रलो व्युपधात्--’ (१-२-२६) इति वैकल्पिककित्त्वे प्राप्ते ‘रुद- विद--’ (१-२-८) इत्यादिना नित्यं कित्त्वम्। तेन एकमेव रूपम् इति ज्ञेयम्।]]
27 [[आ। ‘विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः।’ भ। का। ७-९८।]]
28 [[२। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति कर्मण्युपपदे साकल्यविशिष्टेऽर्थे धातोः णमुल्प्रत्ययो भवति। ब्राह्मणवेदं भोजयति इत्यस्य यं यं ब्राह्मणं = ब्राह्मण- त्वेन जानाति लभते विचारयति वा तान् सर्वान् भोजयतीत्यर्थः।]]
29 [भोजयति]
30 [[B। ‘यांश्चोरभूतान् लभते विचारयति वेत्ति वा। तान् सर्वानपि हन्तीति चोरवेदं निहन्त्यसौ।।’ इति प्रक्रियासर्वस्वे।]]
31 [निहन्ति]
32 [[C। ‘जिघांसुवेदं धृतभासुरास्त्रस्तां ताडकाख्यां निजघान रामः।।’ भ। का। २-२३।]]
33 [[३। ‘हृपिशिरुहिवृतिविदि--’ [द। उ। १-४७]
34 [[४। ‘रुदिविदिभ्यां कित्’ (द। उ। ६-४१) इति अथप्रत्यये रूपमेवम्। वेत्तीति विदथः = ज्ञानी।]]
35 [[५। ‘नभ्राण्नपान्नवेदा--’ (६-३-७१) इति निपातनात् न वेत्तीति नवेदाः इति असुन्प्रत्ययान्तोऽयम्।]]
36 [[६। ‘विदिभुजिभ्यां विश्वे’ [द। उ। ९-९८]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
