| YouTube Channel

वेदकः-दिका (vedakaH-dikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विद ज्ञाने”@} 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
‘-- मतौ’ इति वोपदेवः।
आवेदकः-दिका, वेदकः-दिका, 4 विविदिषकः-षिका, वेविदकः-दिका
वेदिता-त्री, वेदयिता-त्री, विविदिषिता-त्री, वेविदिता-त्री
5 विदन्-ती, 6 विद्वान्-विदुषी, निवेदयन् 7 -न्ती, वेदयः 8, विविदिषन्-न्ती
-- वेदिष्यन्-न्ती-ती, वेदयिष्यन्-न्ती-ती, विविदिषिष्यन्-न्ती-ती
-- 9 संविदानः, वेदयमानः, संविविदिषमाणः, वेविद्यमानः
10 मन्त्रवित्, ब्रह्मवित्, शास्त्रवित्, वेदवित्, 11 अनिर्विदा, लोकवित्-प्रवित्-विदौ-विदः
12 विदितम्-तः-तवान्, वेदितः, विविदिषितः, वेविदितः-तवान्
13 विदः, 14 विन्दुः, 15 विदुरः 16, सार्ववेद्यः, चतुर्वेदः, 17 विविदिवान्-विविद्वान्, चतुर्वेदी, 18 पराशयवेदी, धनुर्वेदी, वैदिकः, वेदः, 19 वैदनः 20 विविदिषुः, वेविदः
आवेदितव्यम्, वेदयितव्यम्, विविदिषितव्यम्, वेविदितव्यम्
आवेदनीयम्, वेदनीयम्, विविदिषणीयम्, वेविदनीयम्
वेद्यम्, त्रैविद्यः, वेद्यम्, विविदिष्यम्, वेविद्यम्
वेद्यमानः, वेदयमानः, विविदिषमाणः, वेविद्यमानः
21 वेदः, वेदः, विविदिषः, वेविदः
वेदितुम्, वेदयितुम्, विविदिषितुम्, वेविदितुम्
22 वित्तिः, विदा, 23 विद्या, अङ्गविद्या, त्रिविद्या, 24 वेदना, विविदिषा, वेविदा
25 वेदनम्, वेदनम्, विविदिषणम्, वेविदनम्
26 विदित्वा, 27 वेदयित्वा, विविदिषित्वा, वेविदित्वा
आवेद्य, प्रवेद्य, प्रविविदिष्य, प्रवेविद्य
28 ब्राह्मणवेदं 29 चोरवेदम् 30 31 जिघांसुवेदम्, 32 वेदम् २, विदित्वा २, वेदम् २, वेदयित्वा २, विविदिषम् २, विविदिषित्वा २, वेविदम्
वेविदित्वा
33 इति इन्प्रत्ययः।
वेत्ति विन्दति विद्यते वा वेदिः = त्रेताग्न्यधिष्ठानम्।]] वेदिः, 34 विदथः, 35 नवेदाः, 36 इति विश्वशब्द उपपदे असिप्रत्ययः।
विश्ववेदाः = हुताशनः।]] विश्ववेदाः।
प्रासङ्गिक्यः
01
=>
(१६०२ [[आ। ‘विद्वानुपानेष्ट तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]])
02
=>
(२-अदादिः-१०६४। सक। सेट्। पर।)
03
=>
(श्लो। १११)
04
=>
[[१। सनि, ‘रलो व्युपधात्--’ (१-२-२६) इत्यादिना क्रित्त्वविकल्पे प्राप्ते ‘रुदविद--’ (१-२-८) इति नित्यं कित्त्वं भवति। तेन सन्नन्ते सर्वत्र एकमेव रूपम्। क्षीरस्वामी तु ‘रुदविद--’ (१-२-८) इति सूत्रं कित्त्वविकल्पार्थमिति व्याचकार। भाष्यादिषु नित्यकित्त्वविधायकत्वेनैव प्रकृतसूत्रस्य व्याख्यानात् क्षीरस्वामिमतं चिन्त्यम्।]]
05
=>
[[२। शतरि, ‘विदेः शतुर्वसुः’ (७-१-३६) इति सूत्रात् शतुः वस्वादेशविकल्पः। वस्वादेशपक्षे विद्वान् इति
\n\n तदभावपक्षे विदन् इति रूपम्। नित्यं वसुरित्या- देश इति केषाञ्चिन्मतम्। काशिकादिषु तु वैकल्पिकमिति स्पष्टम्।]]
06
=>
[[आ। ‘विद्वानुपानेष्ट तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]]
07
=>
[[B। ‘स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तः…।’ शि। व। ५-९७]]
08
=>
[[३। ण्यन्तात् ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये शपि गुणायादेशौ। वेदयतीति वेदयः।]]
09
=>
[[४। ‘विदिप्रच्छिस्वरतीनाम्’ (वा। १-३-२९) इति संपूर्वकात् विदेः आत्मनेपदं भवति।]]
10
=>
[[५। ‘सत्सूद्विषद्रुहयुजविद--’ (३-२-६१) इति क्विप्प्रत्यये रूपमेवम्।]]
11
=>
[[C। ‘अनिर्विदा या विदधे विधाता पृथ्वी पृथिव्याः प्रतियातनेव।।’ शि। व। ३-३४।]]
12
=>
[[ड्। ‘विदितं वो यथा स्वार्था मे काश्चित्प्रवृत्तयः।’ कु। सं। ६-२६।]]
13
=>
[पृष्ठम्१२३४+ २८]
14
=>
[[१। ‘विन्दुरिच्छुः’ (३-२-१६९) इति तच्छीलादिषु कर्तृषु उप्रत्यये, निपातनात् नुमागमे रूपमेवम्। वेदनशीलो विन्दुः। पवर्गीयादिस्तु ‘बिदि अवयवे’ इति धातोः ‘मृगय्वादिभ्यः’ (द। उणादिः १-१२१) इति कौ बोध्यः, इति बृहच्छब्देन्दुशेखरे।]]
15
=>
[[२। ‘विदिभिदिच्छिदेः कुरच्’ (३-२-१६२) इति कुरच्प्रत्यये रूपमेवम्। ‘ज्ञाता तु विदुरो विन्दुः’ इत्यमरः। अत्र सूत्रे ज्ञानार्थ एव न्यासे गृहीतः।]]
16
=>
[[आ। ‘विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।]]
17
=>
[[३। क्वसुप्रत्यये, ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति विकल्पेन इडागमो भवति। विविदिवान्-विविद्वान् इति रूपद्वयम्। ‘ज्ञानार्थस्य तु नित्यं विविद्वान् इत्येकमेव, भवति’ इति काशिकायाम् (७-२-६८) उक्तम्। अन्यत्रार्थे रूपद्वयं बोध्यम्।]]
18
=>
[[B। ‘अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः।।’ नैषधे ४-११८।]]
19
=>
[[४। विदन्नेव वैदनः, ‘प्रज्ञादिभ्यश्च’ (५-४-३८) इति स्वार्थेऽण्प्रत्ययः। एतेनापि ‘विदेः शतुर्वसुः’ (७-१-३६) इति वसुविकल्पः सिद्धः। अन्यथा अणः प्रकृतिभूतस्य विदन् इति शत्रन्तस्यासिद्धेरित्यवधेयम्।]]
20
=>
[[C। ‘नाविविदिषुमभ्येति संपद्रुरुधिषुं नरम्।’ भ। का। ७-९९।]]
21
=>
[[५। वेत्ति अनेनेति ‘हलश्च’ (३-३-१२१) इति करणे घञ्।]]
22
=>
[[६। ‘मन्त्रे वृषेषपचमनविद--’ (३-३-९६) इति स्त्रियां भावे क्तिन्प्रत्ययः।]]
23
=>
[[७। विदन्त्यनया इति, ‘संज्ञायां समजनिषदनिपतमनविद--’ (३-३-९९) इति स्त्रियां भावे क्यप्प्रत्ययः।]]
24
=>
[[८। ‘घट्टिवन्दिविदिभ्यश्च’ (वा। ३-३-१०७) इति स्त्रियां युच्प्रत्ययः।]]
25
=>
[पृष्ठम्१२३५+ २७]
26
=>
[[१। क्त्वायां, ‘रलो व्युपधात्--’ (१-२-२६) इति वैकल्पिककित्त्वे प्राप्ते ‘रुद- विद--’ (१-२-८) इत्यादिना नित्यं कित्त्वम्। तेन एकमेव रूपम् इति ज्ञेयम्।]]
27
=>
[[आ। ‘विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः।’ भ। का। ७-९८।]]
28
=>
[[२। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति कर्मण्युपपदे साकल्यविशिष्टेऽर्थे धातोः णमुल्प्रत्ययो भवति। ब्राह्मणवेदं भोजयति इत्यस्य यं यं ब्राह्मणं = ब्राह्मण- त्वेन जानाति लभते विचारयति वा तान् सर्वान् भोजयतीत्यर्थः।]]
29
=>
[भोजयति]
30
=>
[[B। ‘यांश्चोरभूतान् लभते विचारयति वेत्ति वा। तान् सर्वानपि हन्तीति चोरवेदं निहन्त्यसौ।।’ इति प्रक्रियासर्वस्वे।]]
31
=>
[निहन्ति]
32
=>
[[C। ‘जिघांसुवेदं धृतभासुरास्त्रस्तां ताडकाख्यां निजघान रामः।।’ भ। का। २-२३।]]
33
=>
[[३। ‘हृपिशिरुहिवृतिविदि--’ [द। उ। १-४७]
34
=>
[[४। ‘रुदिविदिभ्यां कित्’ (द। उ। ६-४१) इति अथप्रत्यये रूपमेवम्। वेत्तीति विदथः = ज्ञानी।]]
35
=>
[[५। ‘नभ्राण्नपान्नवेदा--’ (६-३-७१) इति निपातनात् वेत्तीति नवेदाः इति असुन्प्रत्ययान्तोऽयम्।]]
36
=>
[[६। ‘विदिभुजिभ्यां विश्वे’ [द। उ। ९-९८]
1 {@“विद सत्तायाम्”@} 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका
वेदिता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यति 4 वत् बोध्यानि।
शानचि-विद्यमानः, णिनिप्रत्यये-वेदी, क्तिनि-वित्तिः, इमानि रूपाणि विशेषेण भवन्ति।
5
प्रासङ्गिक्यः
01
=>
(१६०३)
02
=>
(४-दिवादिः-११७१। अक। अनि। आत्म।)
03
=>
(श्लो। १११)
04
=>
(३४९)
05
=>
[पृष्ठम्१२३६+ २९]
1 {@“विद विचारणे”@} 2 ‘-- मीमांसे’ इति वोपदेवः।
‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका
वेत्ता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री
इत्यादिकानि रूपाणि सर्वाणि दैवादिकखिद्यतिवत् 4 ज्ञेयानि।
शानचि विन्दानः, 5 निष्ठायाम्- 6 वित्तः-विन्नः इति विशेषः।
7 इप्रत्यये रूपम्।
वेत्ति विन्दति विन्ते वा वेदिः = त्रेताग्न्यधिष्ठानम्।]] वेदिः।
प्रासङ्गिक्यः
01
=>
(१६०४)
02
=>
(७-रुधादिः-१४५०। सक। अनि। आत्म।)
03
=>
(श्लो। १११)
04
=>
(३४९)
05
=>
[[१। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति विकरणप्रत्यये श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इति अल्लोपे रूपमेवम्।]]
06
=>
[[२। निष्ठायाम्, ‘नुदविदोन्दत्रा--’ (८-२-५६) इति निष्ठातकारस्य नकारादेशो विकल्पेन भवति। तेन रूपद्वयम्। तथा भाष्यम् (७-२-५८) -- ‘वेत्तेस्तु विदितो निष्ठा विद्यतेः विन्न इष्यते। वित्तर्विन्नश्च वित्तश्च वित्तो भोगेषु विन्दतेः।।’ इति।]]
07
=>
[[३। औणादिके [द। उ। १-४७]
1 {@“विद चेतनाख्याननिवासेषु”@} 2 आकुस्मीयः।
‘-- विवादेषु’ इति क्षीरस्वामी।
‘-- वेदने’ इत्येके।
‘विद वेदना- ख्यानपरिवादनेषु’ इति न्यासे पाठः।
“निपातनेषु इति धनपालशा- कटायनौ” इति पुरुषकारः 3।
‘विन्दते विन्दतीत्येवं लाभे, वेदयते णिचि।।’ 4 इति देवः।
वेदकः-दिका, विवेदयिषकः-षिका, वेदयिता-त्री, विवेदयिषिता-त्री
इत्यादिकानि सर्वाण्यपि प्रातिस्विकरूपाणि विना--चौरादिककेतयतिवत् 5 ज्ञेयानि।
‘अनुपसर्गाद्--’ 6 इति शप्रत्यये वेदयः इति।
‘घट्टिवन्दि- विदिभ्यश्च’ 7 इति ण्यन्तात् स्त्रियां युच्प्रत्यये वेदना इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१६०५)
02
=>
(१०-चुरादिः-१७०९। सक। सेट्। आत्म।)
03
=>
(श्लो। १११)
04
=>
(श्लो। १११)
05
=>
(२६०)
06
=>
(३-१-१३८)
07
=>
(वा। ३-३-१०७)
1 {@“विदॢ लाभे”@} 2 मुचादिः।
‘विन्दते विन्दतीत्येवं लाभे वेदयते णिचि।।’ 3 इति देवः।
व्याघ्रभूत्यादिमते सेट्कोऽयम्।
वेदिता इति।
4 वेदकः-दिका, वेदकः-दिका, विवेदिषकः-विविदिषकः-5-षिका, वेविदकः-दिका
वेदिता, 6-त्री, वेदयिता-त्री, विवेदिषिता-विविदिषिता-त्री, विवित्सिता-त्री, वेविदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि किलतिवत् 7 ज्ञेयानि।
शतरि 8 विन्दः 9, 10 गोविन्दः-कुविन्दः, 11 अरविन्दम् 12, 13 वित्तम्- 14, विन्नं 15, 16 परिवेत्ता, विविद्वान् 17 -विविदिवान्, 18 वेदना 19 20 21 परिवित्तिः, 22 ब्राह्मणवेदं 23, 24 यावद्वेदं 25, 26 चोरवेदं निहन्त्यसौ]।
प्रासङ्गिक्यः
01
=>
(१६०६)
02
=>
(६-तुदादिः-१४३२। सक। अनि। उभ।)
03
=>
(श्लो। १११)
04
=>
[पृष्ठम्१२३७+ ३०]
05
=>
[विवित्सकः]
06
=>
[वेत्ता]
07
=>
(१९३)
08
=>
[[१। ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये मुचादित्वात् ‘शे मुचा- दीनाम्’ (७-१-५९) इति नुमि शपि पररूपे रूपमेवम्।]]
09
=>
[[आ। ‘आर्चीद् द्विजातीन् परमार्थविन्दानुदेजयान् भूतगणान् न्यषेधीत्।’ भ। का। १-१५।]]
10
=>
[[२। ‘गवादिषु विन्देः संज्ञायाम्’ (वा। ३-१-१३८) इति शः। गां विन्दतीति गोविन्दः। एवं कुविन्दह् इति प्रक्रियासर्वस्वे।]]
11
=>
[[B। ‘प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः।’ शि। व। ३-६५]]
12
=>
[[३। अरविन्दम्-चक्रस्य नाभिनेम्योरन्तरालकाष्ठानि अराः, तत्सदृशानि दलानि विन्दति -- लभत इत्यर्थः। भाष्ये तु अरविन्दः पुंल्लिङ्गत्वेन पठ्यते। ‘कर्मण्यण्’ (३-२-१) बाधनाय इदम् इति बृ। शेखरे।]]
13
=>
[[४। ‘वित्तो भोगप्रत्यययोः’ (८-२-५८) इति क्तप्रत्यये भोगे चाभिधेये तत्वाभावो निपात्यते। वित्तोऽयं मनुष्यः। प्रतीत इत्यर्थः। वित्तम् धनम्, वित्तं प्रसिद्धम्, भुज्यत इति भोगो धनम्। प्रतीयत इति प्रत्ययः प्रसिद्धम्। अन्यत्र विन्नम्।]]
14
=>
[धनम्]
15
=>
[लब्धम्]
16
=>
[[५। तृजन्तोऽप्ययं ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (द। उ। २-१) इति संज्ञायां गम्यमानायामनिटौ भवतः। ‘परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिप्रहात्’ इत्यमरः। ज्येष्ठे विवाहरहिते कृतदारपरिग्रहः कनिष्ठः परिवेत्ता इत्युच्यते। क्वसुप्रत्यये ‘विभाषा गमहनविद--’ (७-२-६८) इतीड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। तेन निष्ठानत्वपक्षे, नत्वाभा- वपक्षेऽपीण्निषेधो नित्य इत्यवधेयम्। कातन्त्रे तु अनिट्त्वेनास्य धातोः पाठात् तेषां मते निष्ठायामिण्निषेधः सिद्ध एव। भाष्यादिषु तु धातुरयं सेडित्येव सम्मतः। विस्तरस्तु माधवीये द्रष्टव्यः।]]
17
=>
[[६। ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति क्वसौ विकल्पेन इडागमो भवति। तेन रूपद्वयम्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्।]]
18
=>
[[७। ण्यन्तात् ‘घट्टिवन्दिविदिभ्यश्च’ (३-३-१०७) इति युचि रूपमेवम्।]]
19
=>
[[C। ‘युक्त्वा योगं स्थितः शैले विवृण्वन् चित्तवेदनाम्।।’ भ। का। ७-७३]]
20
=>
[पृष्ठम्१२३८+ २८]
21
=>
[[१। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति क्तिच्। ‘परिवित्तिस्तु तज्ज्यायान्’ इत्यमरः।]]
22
=>
[[२। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति साकल्यविशिष्टे कर्मण्युपपदे णमुल् भवति। यं यं ब्राह्मणं = ब्राह्मणत्वेन जानाति, लभते वा, तं तं भोजयति इत्यर्थः। अत्र सत्तार्थस्यैकस्य ग्रहः
\n\n अकर्मकत्वात्।]]
23
=>
[भोजयति]
24
=>
[[३। ‘यावति विन्दजीवोः’ (३-४-३०) इति णमुल्प्रत्ययः। यावत् लभते तावद् भुङ्क्त इत्यर्थः।]]
25
=>
[भोजयति]
26
=>
[[४। चोरवेदमित्यत्र, यान् चोरभूतान् लभते विचारयति वेत्ति वा तान् सर्वानपि हन्तीत्यर्थे ‘कर्मणि दृशिविदोः--’ (३-४-२०) इति णमुल्। ‘चोरवेदं निह- न्त्यसौ--’ इति प्र। सर्वस्वे।]]