| YouTube Channel

वेत्रासुरः (vetrAsuraH)

 
शब्दकल्पद्रुमः
Sanskrit
वेत्रासुरः,
पुं,
(वेत्रनामकोऽसुरः ।) स्वनाम-ख्यातासुरः तस्योत्पत्तिर्यथा, --महातपा उवाच ।“आसीद्राजा पुरा राजन् सिन्धुद्वीपः प्रताप-वान् ।वारुणांशो महाराजोऽसौऽरण्ये तपसि स्थितः
पुत्त्रो मे शत्रुनाशाय भवेदिति नराधिपः ।एवं कृतमतिः सोऽथ महता तपसा स्वकम् ।कलेवरं स्थिरो भूत्वा शोषयामास सुव्रतः
प्रजापाल उवाच ।कथं तस्य द्विजश्रेष्ठ शक्रेणापकृतं भवेत् ।येनासौ तद्विनाशाय पुत्त्रमिच्छन् व्रते स्थितः
महातपा उवाच ।सोऽन्यजन्मनि पुत्त्रोऽभूत् त्वष्टुर्बलवतां वरः ।अवध्यः सर्व्वशस्त्रौघैरपां फेनेन नाशितः
जलफेनेन निहितस्तस्मिल्लयमवाप्नुयात् ।पुणर्ब्रह्मान्वयो जातः सिन्धुद्बीपेतिसंज्ञितः
तेपे परमं तीव्रं शक्रवैरमनुस्मरन् ।ततः कालेन महता नदी वेत्रवती शुभा
मानुषं रूपमास्थाय सालङ्कारा मनोरमम् ।आजगाम यतो राजा तेपे परमकं तपः
तां दृष्ट्वा रूपसम्पन्नां राजा क्रुद्धमानसः ।उवाच कासि सुश्रोणि सत्यं कथय भामिनि
नद्युवाच ।अहं जलपतेः पत्नी वरुणस्य महात्मनः ।नाम्ना वेत्रवती पुण्या त्वामिच्छन्तीह आगता
साभिलाषां परस्त्रीं यो भजमानां विसर्ज्जयेत् ।स पापपुरुषो ज्ञेयो ब्रह्महत्याञ्च विन्दति
एवं ज्ञात्वा महाराज भजमानां भजस्व माम् ।एवमुक्तस्तया राजा साभिलाषोपभुक्तवान्
तस्य सद्योऽभवत् पुत्त्रो द्वादशार्कसमप्रभः ।वेत्रवत्युदरे जातो नाम्ना वेत्रासुरोऽभवत्
बलवानतितेजस्वी प्राग्ज्योतिषः पतिर्भवेत् ।स कालेन युवा जातो बलवान् दृढविक्रमः
महायोगेन संयुक्तो जिगाय वसुन्धराम् ।सप्तद्वीपवतीं पश्चान्मेरुपर्व्वतमारुहन् ।तत्रेन्द्रं प्रथमं जिग्ये पश्चादग्निं यमं ततः
”इति वराहपुराणे देवोत्पत्तिनामाध्यायः