| YouTube Channel

वेतालः (vetAlaH)

 
Apte
English
वेतालः [vētālḥ], 1 A kind of ghost, a goblin, vampire
particularly a ghost occupying a dead body
नाहमात्म- नाशाय वेतालोत्थापनं करिष्यामि 'I shall not raise a devil for my own destruction'
Māl.
5.23
Śi.*
2.6.
A doorkeeper.
Comp.
-पञ्चविंशतिः, -तिका a collection of 25 fables told by a Vetāla to king Vikramāditya. -साधनम् securing (the favour of) a Vetāla.
Apte 1890
English
वेतालः 1 A kind of ghost, a goblin, vampire
particularly a ghost occupying a dead body
नाहमात्मनाशाय वेतालोत्थापनं करिष्यामि ‘I shall not raise a devil for my own destruction’
Māl. 5. 23, Śi. 20. 60.
2 A door-keeper.
Apte Hindi
Hindi
वेतालः
पुं*
- "अज् + विच्, वी आदेशः, तल् + घञ् कर्म* स*"
"एक प्रकार की भूतयोनि, विशाच, प्रेत, विशेषकर शव पर अधिकार रखने वाला भूत @ मा* ५/२३, @ शि* २०/६०"
वेतालः
पुं*
- -
द्वारपाल
Wordnet
Sanskrit
Synonyms:
वेतालः
noun
शिवस्य गणेषु एकः।
"विक्रमादित्यः तथा वेतालस्य कथाः ख्याताः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
वेतालः,
पुं,
द्वारपालकः इति शब्दरत्नावली
भूताधिष्ठितशवः इत्यमरः
मल्लभेदः इतिभरतः
शिवगणाधिपविशेषः यथा, --सगर उवाच ।“कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः ।कथं वा तौ शरीरेण मानुषेण गणाधिपौ ।अभूतां द्विजशार्द्दूल तन्मे वद महामुने
श्रीऔर्व्व उवाच ।शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः ।भैरवस्यापि चरितं वेतालस्य महात्मनः
सोऽसौ भृङ्गी हरसुतौ महाकालोऽपि भर्गजः ।तावेव गौरीशापेन संभूय नरयोनिजौ ।वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि
”इति कालिकापुराणे ४५ अध्यायः
तस्योत्पत्त्यादि यथा, --श्रीदेव्युवाच ।“ममैव मानुषी मूर्त्तिरियं वृषभकेतन ! ।विशामि तेऽत्र वचनादुत्पादय सुतद्वयम्
प्रविवेश ततो देवी स्वयं तारावतीतनौ ।महादेवोऽपि तस्यास्तु कामार्थं समुपस्थितः
ततः सापर्णयाविष्टा देवी तारावती सती ।कामयानं महादेवं स्वयमेवाभवन्मुदा
तस्मिन् कालेऽभवद्गर्भः कापाली चास्थिमाल्य-धृक् ।कामावसाने तस्यास्तु सद्यो जातं सुतद्वयम्
अभवन्नृपशार्दूल तथा शाखामृगाननम् ।अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ
भूमौ मलिनवेशेन मन्युना समुपार्विशत् ।भर्त्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम्
अथ क्षणान्महाभागः राजा चन्द्रशेखरः ।प्रासादपृष्ठे आगच्छद्द्रष्टुं तारावतीं तदा
ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम् ।सुतौ पतितौ भूमौ चन्द्रसूर्य्यसमप्रभौ
वानरास्यौ ददृशे पदक्षोभं वृषस्य ।ततः राजा न्यगदत् तं मुनिं प्रहसन्मुदा
पालयिष्ये शम्भुसुतौ यथा लभ्यं सदैव हि ।किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि
और्व्व उवाच ।ततस्तयोर्नाम चक्रे नारदो वचनान्नृप ।ज्येष्ठो भैरवनामाभूत् वीरः पुत्त्रो भयङ्करः
वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः ।इति चक्रे तयोर्नाम देवर्षिर्ब्रह्मणः सुतः
”इति कालिकापुराणे ४९ अध्यायः