| YouTube Channel

वेञ् (veJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वे
मूलधातुः:
वेञ्
धात्वर्थः:
तन्तुसन्ताने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
वयति-ते
अनुबन्धादिविशेषः:
यजादिः
धातुप्रदीपः
Sanskrit
वेञ् तन्तुसन्ताने
- वयति वयते ववौ ववे, उवाय ऊये ऊवे ववतुः ववाते, ऊयतुः ऊयाते, ऊवतुः ऊवाते ववुः वविरे, ऊयुः ऊयिरे, ऊवुः ऊविरे ऊयते वाययति उतः निरुतम् ऊतिः व्यूतिः प्रोतकम् प्रोतिका उत्वा प्रवाय ।। 1014 ।।
क्षीरतरङ्गिणी
Sanskrit
वेञ् तन्तुसन्ताने
- इतस्त्रयोऽनिटः वयते, वयति वेञो वयिः (2441) ग्रहिज्यावयि (6116) इति सम्प्रसारणम्, लिटि वयो यः (6138) इति यकारस्य नास्ति-ऊयुः थलि उवयिथः वश्चास्यान्यतरस्यां किति (6139) ऊवुः लिट्यन्यतरस्याम् (2440) इति यदा वयिर्नास्ति तदा वेञ इति धातोरभ्यासस्य सम्प्रसारणनिषेधः ववौ, ववुः शाछासाह्वाव्यावेपां युक् (7337) वाययति ह्वावामश्च (322) इत्यणि तन्तुवायः ल्यपि (6149) इति सम्प्रसारणम् प्रवाय ऊतियूतिजूति (3397) इत्यूतिर्वपनम् वेञो डिः (द्र0 द0 उ0 162) विः पक्षी मनिन् (द0 उ0 673 वेमा वेञो डित् (द0 उ0 139) वीचिः 976
धातुवृत्तिः
Sanskrit
वेञ् (अर्थः) तन्तुसन्ताने
(वयति वयते उवाय ऊयतुः ऊयुः उवयिथऊयथुः ऊय उवाय उवय ऊयिव ऊयिम) "वेञो वयिः'' इति वा वयादेशः तस्य "ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च'' इति संप्रसारणम् चकारात् किदनुकृष्यते अकिति तु "लिट्यभ्यासस्योभयेषाम्'' इति अभ्यासस्य संप्रसारणम् सर्वस्य यकारस्य "लिटि वयो यः'' इति निषेधान्न संप्रसारणम् सर्वत्र क्रादिनियमादिट् थलि "अचस्तास्वत्'' इति निषेधोन भवति वयेस्तासावसत्त्वात् अत एव भारद्वाजविकल्पोऽपि भवति किति लिटि "वश्चास्यान्यतरस्यां किति'' इति पक्षे यकारस्य वकारे (ऊवतुः ऊवुरित्यादि ) वयादेशस्य स्थानिवद्भावेन ञित्त्वात्तङि (ऊये ऊयाते ऊयिढ्वे ऊयिध्वे ऊयिवहे) ध्वमि "विभाषेटः'' इति मूर्द्धन्यविकल्पःअत्रापि चकारादेशपक्षे (ऊवे ऊवाते) इत्यादि वयादेशाभावपक्षे"आदेचः''इत्यात्वे ( ववौ ववतुः ववाथ वविथ ववथुः वव ववौ वविव क्रादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः "आत णलः'' इति णल औत्वमन्यत्र "आतो लोप इटि च'' इत्याल्लोपः "वचिस्वपियजादीनां किति ''लिट्यभ्यासस्योभयेषाम्'' इति प्राप्ते सम्प्रसारणं "वेञ' इति लिटि निषिध्यते ( ववे ववाते ) इत्यादि ( वाता वास्यति वास्यते वयतु वयताम् अवयत् अवयत वयेत् वयेत ) आशिषि (ऊयात् वासीष्ट) यासुटि "किदाशिषि'' इति कित्त्वे सम्प्रसारणे पर पूर्वत्वे वा "अकृत्सार्वधातुकयोः'' इति दीर्घः ( अवासीत् अवासिष्टाम् अवास्त अवासातामित्यादि) परस्मैपदे "यमरमनमाताम्'' इति सगिटौ ( विवासति विवासते वावायते वावाति वावेति वावीतः ) "ई हल्यघोः'' इतीत्वम् ( वावति ) "श्नाभ्यस्तयोः'' इत्याल्लोपः लोटि हावीत्वे (वावीहि वाययति अवीवयत् ) "शाच्छा'' इति युक् ( प्रवाय ) "न ल्यपि'' इति वेञः सम्प्रसारणनिषेधः ( तन्तुवायः ) "ह्वावामश्च'' इति कर्म्मण्युपपदेऽण् "आतोऽनुपसर्गे कः'' इति कस्यापवादः ( उता ) उतः सम्प्रसारणपूर्वत्वे ( निष्प्रवाणि ) नवं वासः प्रोयतेऽस्यामिति प्रवाणी तन्तुवायशलाका भण्यते निर्गताः प्रवाण्यो यस्मादिति बहुव्रीहौ "निष्प्रवाणिश्च'' इति निपातनात्कबभावः "गोस्त्रियोरुपसर्जनस्य'' इति ह्रस्वः986
कृदन्तरूपमाला
Sanskrit
1 {@“वेञ् तन्तुसन्ताने”@} 2 यजादिः।
‘वयते वयतीत्येवं तन्तुसन्तान इष्यते।।’ 3 इति देवः।
‘व्याप्तौ छादने चाह भट्टिः’ इति धा।
का।
व्याख्या 4।
5 6 वायकः-यिका, 7 वायकः-यिका, 8 विवासकः-सिका, 9 वावायकः-यिका
वाता-त्री, वाययिता-त्री, विवासिता-त्री, वावायिता-त्री
10 वयन्-न्ती, वाययन्-न्ती, विवासन्-न्ती
-- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककायतिवत् 11 ज्ञेयानि।
12 तन्तुवायः, 13 प्रवाणी-निष्प्रवाणिः, 14 उतम्-उतः-उतवान्, प्रोतः, 15 प्रवयणम्, उत्वा, 16 प्रवाय, 17 ऊतिः, 18 विः = पक्षी, वेमा।
19 आवायः, 20 पटोत्।
21
प्रासङ्गिक्यः
01
=>
(१६४०)
02
=>
(१-भ्वादिः-१००६। सक। अनि। पर।)
03
=>
(श्लो। १०)
04
=>
(२-४३)
05
=>
[पृष्ठम्१२६३+ ३१]
06
=>
[[१। ‘आदेच उपदेशे--’ (६-१-४५) इत्याकारः। ‘आतो युक्--’ (७-३-३३) इति युगागमः।]]
07
=>
[[२। ण्यन्ते सर्वत्रादन्तलक्षणपुगपवादः ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमः।]]
08
=>
[[३। धातोरनिट्त्वात् रूपाण्येवम्। सन्नन्तेऽभ्यासस्येकारः।]]
09
=>
[[४। यङन्ते सर्वत्र औपदेशिकस्य एकारस्य आकार इति विशेषः। नच वाच्यम्। ‘ग्रहिज्यावयि--’ (६-१-१६) इत्यनेन यङन्ते ङित्त्वात् कथं सम्प्रसारणमिति
\n\n यतोऽत्र ‘वयि’ ग्रहणात् ‘वेञो वयिः’ (२-४-४१) इति प्राप्तस्य वय्यादेशवि- शिष्टस्य वेञ एव ग्रहणम्
\n\n त्वस्येति यङन्ते ङित्त्वेऽपि प्रत्ययस्य सम्प्रसारण- मिति ज्ञेयम्। क्त्वादिषु तु यजादित्वात् सम्प्रसारणमिति विशेषः।]]
10
=>
[[५। ‘-- अशिति’ (६-१-४५) इत्युक्तत्वात् शतरि आकारः। अयादेशः।]]
11
=>
(२६३)
12
=>
[[६। तन्तून् वयति इति तन्तुवायः। ‘ह्वावामश्च’ (३-२-२) इति कर्मणि उपपदे अण् प्रत्ययः। ‘आतोऽनुपसर्गे कः’ (३-२-३) इत्यस्यापवादः। “आत्वभाविन एजन्तात् आकारान्तनिमित्तकः। प्रत्ययो ज्ञाप्यते सर्वो “ह्वावामश्चे” (३-२-२) त्यणा पुनः।।” इति पदमञ्जरी (६-१-४५)।]]
13
=>
[[७। नवं वासः प्रवयन्त्यस्यामिति प्रवाणी तन्तुवायशलाका। ‘ल्युट् च’ (३-३-११५) इति अधिकरणे ल्युट्। टित्त्वात् स्त्रियां ङीप्।]]
14
=>
[[८। निष्ठायाम् ‘वचिस्वपियजादीनाम् किति’ (६-१-१५) इति सम्प्रसारणे, पूर्वरूपे रूपमेवम्। एवं क्त्वाप्रभृतिष्वपि ज्ञेयम्।]]
15
=>
[[९। प्रवयणम् इत्यत्र ल्युट्। ‘कृत्यचः’ (८-४-२९) इति णत्वम्।]]
16
=>
[[१०। ‘न ल्यपि’ (६-१-४९) इति सम्प्रसारणनिषेधः।]]
17
=>
[[११। ‘ऊतियूति--’ (३-३-९७) इति क्तिन्नन्तो निपातितः। ऊतिः = वयनम्--इति क्षीरस्वामी। काशिकादिषु तु अवतेरूठि स्वरार्थं निपातनम् इत्युक्तम्।]]
18
=>
[[१२। ‘वेञो डित्’ (द। उ। १-६२) इति इण्प्रत्ययः। प्रत्ययस्य डित्त्वात् टिलोपः। नीडं--वयतीति विः पक्षी
\n\n तन्तुवायो वा।]]
19
=>
[[१३। ‘अवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति आर्ङ्पूवकादस्मात् घापवादो घञ्। आवयन्ति अस्मिन् इति आवायः = तन्तुवायवाटिका।]]
20
=>
[[१४। पटं वयतीति पटोत्। ‘क्विप् च’ (३-२-७६) इति क्विप्। सम्प्रसारणे पूर्वरूपे ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। इति प्रक्रियासर्वस्वम्।]]
21
=>
[पृष्ठम्१२६४+ २८]