| YouTube Channel

वेचकः-चिका (vecakaH-cikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विचिर् पृथग्भावे”@} 2 अयं पाठः सर्वसम्मतः।
धातुवृत्तौ तु ‘विजिर्--’ इति दृश्यते।
वेचकः-चिका, वेचकः-चिका, विविक्षकः-क्षिका, वेविचकः-चिका
वेक्ता-त्री, वेचयिता-त्री, विविक्षिता-त्री, वेविचिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि प्रातिस्विकरूपाणि विना रौधादिकरिञ्चतिवत् 3 ज्ञेयानि।
क्तप्रत्यये-विक्तम् 4 -क्तः, घञि- 5 विवेकः, घिनुणि- 6 विवेकी, 7 विविचिः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५९४)
02
=>
(७-रुधादिः-१४४२। सक। अनि। उभ।)
03
=>
(१४०४)
04
=>
[[आ। ‘रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः।’ शि। व। ३-५३]]
05
=>
[[१। निष्ठायामनिट्त्वात् ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे रूपमेवम्।]]
06
=>
[[२। ‘संपृचानुरुध… विविच--’ (३-२-१४२) इति तच्छीलादिषु कर्तृषु घिनुण्प्रत्यये कुत्वे रूपमेवम्। विवेकी = युक्तायुक्तविशेषज्ञः।]]
07
=>
[[३। ‘किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्’ (वा। ३-२-१७१) इति वचनेन (सदादिभ्योऽपि सूत्रानुपात्तेभ्यः) भाषायां किप्रत्यये, एत्वाभ्यासलोपयोश्च रूपमेवम्।]]