| YouTube Channel

वॄञ् (vRRJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वॄ
मूलधातुः:
वॄञ्
धात्वर्थः:
वरणे
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
वृणाति, वृणीते
अनुबन्धादिविशेषः:
प्वादिः, ल्वादिः
धातुप्रदीपः
Sanskrit
वॄञ् वरणे
- वृणाति वृणीते ववार ववरे वरिता वरीता वूर्य्यात् वूर्षीष्ट वरिषीष्ट अवारीत् अवरिष्ट अवरीष्ट अवूर्ष्ट विवरिषति विवरीषति ववर्षति वोवूर्य्यते वूर्णः वूर्णिः 14
क्षीरतरङ्गिणी
Sanskrit
वॄञ् वरणे
- वृणाति, वृणीते वूर्णः वूर्णिः विवरः कॄवॄतॄदारिभ्य उनन् (दश0 उ0 552)-वरुणः वृञ् इति नन्दी 14
धातुवृत्तिः
Sanskrit
वॄञ् (अर्थः) वरणे
( वृणाति वृणीते ववार ववरे वरिता वरीता, वरिष्यति वरीष्यति वरिष्यते वरीष्यते वृणातु वृणीतामवृणात् अवृणीत वृणीयात् वृणीत ) आशिषि ( वूर्यात् ) "उदोष्ठ्यपूर्वस्य'' इत्यगुणवृद्धिविषये उत्वे रपरत्वे "हलि च'' इति दीर्घः वरिषीष्टा वूर्षीष्ट ) "लिङ्सिचोरात्मनेपदेषु'' इतीडभावपक्षे "उश्च'' इति कित्त्वादुत्वादि इट्पक्षे पूर्ववत् "न लिङि'' इति अदीर्घत्वम् ( अवारीत् अवारिष्टाम् ) पूर्ववत् "वॄतः'' इति दीर्घस्य "सिचि परस्मैपदेषु'' इति निषेधः ( अवरिष्ट अवरीष्ट अवूर्ष्ट ) "लिङसिचोः'' इतीङ्विकल्पे "वॄत'' इति दीर्घः अनिटि "उश्च'' इति कित्त्वादुत्वादि ( वुवूर्षति विवरिषति विवरीषति ) "इट् सनि वा'' इतीड्विकल्पे "वॄत'' इति दीर्घविकल्पः अनिटि "इको झल्'' इति सनः कित्त्वे उत्वादि (वोवूर्यते वावर्ति ) "ऋतश्च'' इति तपरनिर्देशान्न रुगादीत्युक्तम् ( वारयति अवीवरत् वूर्णः वूर्णवान् वूर्णिः ) 14
कृदन्तरूपमाला
Sanskrit
1 {@“वॄञ् वरणे”@} 2 प्वादिः, ल्वादिश्च।
‘वॄवॄञोरञितो धातोर्वृणाति वरणे भवेत्।
वृणाति वृणीते वृञस्तत्रार्थ इष्यते।।’ 3 इति देवः।
‘वृञ्-इति नन्दी’ इति क्षीरस्वामी।
वारकः-रिका, वारकः-रिका, विवरिषकः-विवरीषकः-वुवूर्षकः-र्षिका, वोवुरकः-रिका
वरिता-त्री, वारयिता-त्री, विवरिषिता-विवरीषिता-वुवूर्षिता-त्री, वोवुरिता-त्री
इत्यादिकानि रूपाणि सर्वाणि जौहोत्यादिकपिपर्तिवत् 4 ऊह्यानि।
शतरि- 5 वृणन्-ती, शानचि-वृणानः, वारयमाणः, 6 वरः, 7 वूर्णिः, 8 वरुणः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६३९)
02
=>
(९-क्र्यादिः-१४८६। सक। सेट्। उभ।)
03
=>
(श्लो। ३७)
04
=>
(१०५५)
05
=>
[[२। शतरि ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाभ्य- स्तयोरातः’ (६-४-११२) इत्याकारलोपे ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपमेवम्। एवं शानजन्तेऽपि प्रक्रिया ऊह्या।]]
06
=>
[[३। ‘ऋदोरप्’ (३-३-५७) इति भावे अपूप्रत्ययः। घञोऽपवादः।]]
07
=>
[[४। ‘ॠल्वादिभ्यः--’ (वा। ८-२-४४) इति निष्ठातकारस्य नकारादेशे णत्वे रूपमेवम्।]]
08
=>
[[५। ‘कॄवृतॄ--’ (द। उ। ५-५२) इति उनन्प्रत्यये रूपम्। ‘वॄ’ इति स्वामिसम्मतः पाठः। द। उ। वृत्त्याम् ‘वृ’ इत्येव दृश्यते।]]